English

अधोलिखितम्‌ अपटितगद्यांशं पठित्वा चतुर्णां प्रश्नानाम्‌ उत्तराणि संस्कृते लिखत - यदि वयं समाजे राष्ट्र वा परिवर्तनम्‌ आनेतुम्‌ इच्छाम: तर्हि अस्माकं प्रभावः अन्येषाम्‌ उपरि भवेत्‌। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितम्‌ अपटितगद्यांशं पठित्वा चतुर्णां प्रश्नानाम्‌ उत्तराणि संस्कृते लिखत -    [4]

यदि वयं समाजे राष्ट्र वा परिवर्तनम्‌ आनेतुम्‌ इच्छाम: तर्हि अस्माकं प्रभावः अन्येषाम्‌ उपरि भवेत्‌। वयं बाह्य वातावरणेन कुप्रभाविता न स्याम्‌, अपितु वातावरणस्य उपरि अस्माकं प्रभावः स्यात्‌। अन्न काचिद्‌ एका कथा एवमस्ति-कश्चन कृषकः महिष्याः अस्वास्थ्य-निवारणाय कञ्चित्‌ पशुवैद्यम्‌ ओषधं पृष्टवान्‌। वैद्यः गुलिका दत्तवान्‌ किञ्च उक्तवान्‌ यत्‌ एकस्यां नलिकायां गोलिकाः स्थापयित्वा भवान्‌ स्वमुखेन वायु फूत्करोतु तदा गुलिकाः महिष्याः उदरे गमिष्यन्ति इति । कृषकः अस्तु इति उक्त्वा गतवान्‌। दिनद्रयानन्तरं सः वैद्य तं कृषक मार्गे अस्वस्थरूपेण गच्छन्तं दृष्टवान्‌। कि सञ्जातमिति पृष्टे सति सः कृषकः उक्तवान्‌- तया नलिकया अहं फुत्करोमि तत: पूर्व महिष्या एव फत्कृतम्‌. परिणामतः गुलिकाः मरम उदरं गताः। इति। अनया कथया बोध्यते यत्‌ बाह्य वातावरणस्य कुप्रभावः येषामपुरि न भवति. ते एव सफलाः भवन्ति। नेतारः मार्गदर्शकाः, समाजशोधकाः च बाह्य दूषितं वातावरण परिवर्तयन्ति, न तु स्वयं तेन दूषितेनं वातावरणेन प्रभाविताः भवन्ति।

प्रश्ना: -

  1. अस्माकं प्रभावः कुत्र स्यात्‌?
  2. गुलिकाः कस्य उदरे गताः?
  3. कः कं पुष्टवान्‌ औषधम्‌?
  4. दूषितवातावरणेन के प्रभाविताः न भवन्ति?
Comprehension
Advertisements

Solution

  1. अस्माकं प्रभावः अन्येषाम् उपरि स्यात्।
  2. गुलिकाः कृषकस्य उदरे गताः।
  3. कृषकः पशुवैद्यम् औषधं पृष्टवान्।
  4. नेतारः, मार्गदर्शकाः, समाजशोधकाः च दूषितवातावरणेन प्रभाविताः न भवन्ति।
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Official Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×