मराठी

SSC (Hindi Medium) इयत्ता १० वी - Maharashtra State Board Important Questions

Advertisements
विषय
अध्याय
विषय
मुख्य विषय
अध्याय

Please select a subject first

Advertisements
Advertisements
< prev  761 to 780 of 1056  next > 

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

एकस्मिन्‌ दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम्‌ अगृहात्‌। तदा शङ्क: उच्चै: आक्रोशत्‌। “अम्ब! त्रायस्व। नक्रात्‌ त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्‌। भयाकुला सा अपि रोदनम्‌ आरभत। शङ्कर: मातरम्‌ आर्ततया प्रार्थयत - “अम्ब, इतः परम्‌ अहं न जीवामि। मरणात्‌ पूर्वं संन्यासी भवितुम्‌ इच्छामि। अधुना वा देहि अनुमतिम्‌। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत्‌ - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्‌। दैववशात्‌ शङ्कर: नक्राद्‌ मुक्त:। स नदीतीरम्‌ आगत्य मातु: चरणौ प्राणमत्‌।

अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम्‌ अवाबोधयत्‌। संन्यासी न केवलम्‌ एकस्या: पत्र:। विशालं जगद्‌ एव तस्य गृहम्‌। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात्‌ निरगच्छत्‌।

तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्‌। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम्‌ अकरोत्‌।

अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित।
षोडशे कृतवान्‌ भाष्यं द्वात्रिंशे मुनिरभ्यगात्‌।।

(1) अवबोधनम्‌। (3 तः 2)       2

(क) कः कं वदति?        1

“इदानीमेव संन्यासं स्वीकुरु।"

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।       1

“एकस्मिन्‌ दिने शङ्करः स्नानार्थं शरयूनदीं गत:।

(ग) एषः गद्यांश: कस्मात्‌ पाठात्‌ उद्धृत:?     1

(2) शब्दज्ञानम्‌। (3 तः 2)      2

(क) गद्यांशात्‌ 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत।     1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययो: मेलनं कुरुत।      1

  'अ' 'आ'
(1) गृहीतम्‌ माता
(2) विवशा पुत्रम्‌
    दर्शनानि

(ग) पूर्वपदं/उत्तरपदं लिखत।       1

(1) तत्क्षणमेव = तत्क्षणम्‌ + ______।

(2) गृहीतमपश्यत्‌ = ______ + अपश्यत्‌।

Appears in 1 question paper
Chapter: [31] आदिशक्ङराचार्य: (गद्यम्)
Concept: आदिशक्ङराचार्य:

सर्वनामतालिका पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
...... आवाभ्याम् ...... पञ्चमी
Appears in 1 question paper
Chapter: [32] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

सर्वनामतालिका पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
इयम्‌ ...... ...... प्रथमा
Appears in 1 question paper
Chapter: [32] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

समानार्थकशब्दं लिखत। 

धनुः = ......।

Appears in 1 question paper
Chapter: [1] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

विरुद्धार्थकशब्दं लिखत।

बद्धः

Appears in 1 question paper
Chapter: [2] व्यसने मित्रपरीक्षा। (गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

किञ्चित्कालानन्तरं शृगाल: मृगम्‌ अवदत्‌ , 'वनेऽस्मिन्‌ एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्‌।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग:  पाशैर्बद्ध:। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।” दूरात्‌ तत्‌ पश्यन्‌ जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्‌, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्‌। त्रायस्व माम्‌।'' जम्बूको दूरादेवावदत्‌, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान्‌ पाशानेतान्‌ कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः।

प्रदोषकाले मृगमन्विष्यन्‌ काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत्‌ ? मृगेणोक्तम्‌, “सुहृद्वाक्यस्य अनादरात्‌ बद्धोऽहम्‌। उक्तं च-

सुहदां हितकामानां य: शुणोति न भाषितम्‌।
विपत्‌ सन्निहिता तस्य स: नर: शत्रुनन्दनः।।"

काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्‌, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्‌, “उपायस्तावत्‌ चिन्तनीय:।”

(1) अवबोधनम्‌। (4 तः 3)     

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।   1

  1.  एकस्मिन्‌ दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
  2. फलितः  मे ______। (कार्यभाग:/मनोरथ:)

(ख) पूर्णवाक्येन उत्तरं लिखत।   1

क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।   1

क्षेत्रम्‌ आगत: शृगालः पाशैर्बद्धः।

(घ) एषः गद्यांशं: कस्मात्‌ पाटात उद्धूत: ?    1

(2) शब्दज्ञानम्‌।   (3 तः 2) 

(क) लकारं लिखत।   1

इदानीं प्रभूतं भोजनं प्राप्स्यामि

(ख) सन्धिविग्रहं कुरुत।   1

वनेऽस्मिन् = ______ + ______।

(ग) प्रश्न निर्माणं कुरुत।   1

प्रदोषकाले मृगमन्विष्यन्‌ काक: तत्रोपस्थितः।

(3) पृथक्करणम्‌।   2

क्रमेण योजयत।

  1. क्षेत्रपतिना पाशयोजनम्‌।
  2. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्‌।
  3. मृगस्य पाशबन्धनम्‌।
  4. मृगस्य प्रत्यहं क्षेत्रं गमनम्‌।
Appears in 1 question paper
Chapter: [2] व्यसने मित्रपरीक्षा। (गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

माध्यमभाषया उत्तरत।

‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [3] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [3] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......

Appears in 1 question paper
Chapter: [3] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

विरुद्धार्थकशब्दान् लिखत।

साधवः × .......।

Appears in 1 question paper
Chapter: [3] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।

Appears in 1 question paper
Chapter: [3] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।

Appears in 1 question paper
Chapter: [3] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

समय-स्तम्भमेलनं कुरुत।

'अ' 'आ'
(1) पञ्चोन-षड्वादनम्‌ १.३५
(2) सपाद-सप्तवादनम्‌ ४.३०
(3) सार्ध-चतुर्वादम्‌ ५.५५
(4) पञ्चत्रिंशदधिक-एकवादनम्‌ ७.१५
Appears in 1 question paper
Chapter: [31] सुगमसंस्कृतम् :।
Concept: समयः।

तालिकापूर्तिं कुरुत। 

नामतालिका। 

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ मालाभ्याम्‌ ______ तृतीया
भगवते ______ ______  चतुर्थी
______ ______  जन्मसु सप्तमी
Appears in 1 question paper
Chapter: [32] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
______ इमौ ______ प्रथमा
कस्मात्‌ ______ ______ पञ्चमी
______  ______  तासु   सप्तमी
Appears in 1 question paper
Chapter: [32] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुष:
लृट् ______ ______ द्रक्ष्यन्ति प्रथम: पुरुष: 
लङ् आसी: ______ ______ मध्यम: पुरुष: 
लट्‌ ______ लिखावः ______ उत्तम: पुरुष:
Appears in 1 question paper
Chapter: [32] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?

Appears in 1 question paper
Chapter: [33] अमूल्यं कमलम्। (गद्यम्)
Concept: अमूल्यं कमलम्।

समानार्थकशब्दान् लिखत।

धनवान् = ......।

Appears in 1 question paper
Chapter: [33] अमूल्यं कमलम्। (गद्यम्)
Concept: अमूल्यं कमलम्।

विरुद्धार्थकशब्दान् लिखत।

विपुलम् × ......।

Appears in 1 question paper
Chapter: [33] अमूल्यं कमलम्। (गद्यम्)
Concept: अमूल्यं कमलम्।

समानार्थकशब्दान् लिखत।

पिता

Appears in 1 question paper
Chapter: [34] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।
< prev  761 to 780 of 1056  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Important Questions
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Geography [भूगोल]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Hindi [हिंदी]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Mathematics 1 - Algebra [गणित १ - बीजगणित]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Mathematics 2 - Geometry [गणित २ - ज्यामिति]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Science and Technology 1 [विज्ञान और प्रौद्योगिकी १]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Science and Technology 2 [विज्ञान और प्रौद्योगिकी २]
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×