Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
एकस्मिन् दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम् अगृहात्। तदा शङ्क: उच्चै: आक्रोशत्। “अम्ब! त्रायस्व। नक्रात् त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्। भयाकुला सा अपि रोदनम् आरभत। शङ्कर: मातरम् आर्ततया प्रार्थयत - “अम्ब, इतः परम् अहं न जीवामि। मरणात् पूर्वं संन्यासी भवितुम् इच्छामि। अधुना वा देहि अनुमतिम्। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत् - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्। दैववशात् शङ्कर: नक्राद् मुक्त:। स नदीतीरम् आगत्य मातु: चरणौ प्राणमत्। अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम् अवाबोधयत्। संन्यासी न केवलम् एकस्या: पत्र:। विशालं जगद् एव तस्य गृहम्। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात् निरगच्छत्। तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् अकरोत्। अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित। |
(1) अवबोधनम्। (3 तः 2) 2
(क) कः कं वदति? 1
“इदानीमेव संन्यासं स्वीकुरु।"
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
“एकस्मिन् दिने शङ्करः स्नानार्थं शरयूनदीं गत:।
(ग) एषः गद्यांश: कस्मात् पाठात् उद्धृत:? 1
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) गद्यांशात् 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत। 1
(ख) गद्यांशात् विशेषण-विशेष्ययो: मेलनं कुरुत। 1
| 'अ' | 'आ' | |
| (1) | गृहीतम् | माता |
| (2) | विवशा | पुत्रम् |
| दर्शनानि |
(ग) पूर्वपदं/उत्तरपदं लिखत। 1
(1) तत्क्षणमेव = तत्क्षणम् + ______।
(2) गृहीतमपश्यत् = ______ + अपश्यत्।
Advertisements
उत्तर
(1)
(क) माता शङ्करः वदति।
(ख) असत्यम्
(ग) एषः गद्यांश: आदिशङ्कराचार्यः इति पाठात् उद्धृत:।
(2)
(क) एकस्मिन्, दिने, स्थाने
(ख)
| 'अ' | 'आ' | |
| (1) | गृहीतम् | पुत्रम् |
| (2) | विवशा | माता |
(ग)
(1) तत्क्षणमेव = तत्क्षणम् + एव।
(2) गृहीतमपश्यत् = गृहीतम् + अपश्यत्।
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अनुमतिः लब्धा?
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अनुमतिः लब्धा?
पूर्णवाक्येन उत्तरं लिखत।
गुरुमुपगम्य शङ्करः किम् अधीतवान्?
पूर्णवाक्येन उत्तरं लिखत।
शङ्करः किमर्थम् आक्रोशत्?
पूर्णवाक्येन उत्तरं लिखत।
शङ्करः मात्रे किं प्रतिश्रुत्य गृहाद् निरगच्छत्?
पूर्णवाक्येन उत्तरं लिखत।
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?
पूर्णवाक्येन उत्तरं लिखत।
शिष्यगणेन सह आचार्यः स्नानार्थं कुत्र अगच्छत्?
सन्धिविग्रहं कुरुत।
चास्ताम्
सन्धिविग्रहं कुरुत।
त्वत्समीपमागमिष्यामि
सन्धिविग्रहं कुरुत।
गुरुमुपागच्छत्
सन्धिविग्रहं कुरुत।
मातैव
मेलनं कुरुत।
विशेष्यम् – शिवगुरुः, आर्याम्बा, शङ्करः, जगत्, मनुष्यः।
विशेषणम् – मलिनकायः, प्रसन्नः, विशालम्, दिवङ्गतः, विरक्तः, चिन्तामग्ना।
सूचनानुसारं कृती: कुरुत।
आचार्यः तं प्रणनाम। (लङ्-लकारे परिवर्तयत।)
प्रवाहि जालचित्रं पूरयत।

(गृहं प्रत्यागमनम्, गुरुमुपगमनम्, मातृसेवा, वेद-वेदाङ्गानाम् अध्ययनम्)
जालरेखाचित्रं पूरयत।

जालरेखाचित्रं पूरयत।

समानार्थकशब्दं लिखत।
मग्नः
समानार्थकशब्दं लिखत
मग्नः - ______
समानार्थकशब्दं लिखत।
नक्रः
समानार्थकशब्दं लिखत।
पादः
समानार्थकशब्दं लिखत।
पुत्रः
समानार्थकशब्दं लिखत।
शिष्यः
समासविग्रहं कुरुत ।
| समस्तपदम् | विग्रहः | समासनाम |
| खगोत्तमः | ______ | ______ |
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्। तं दृष्ट्वा शिष्या: तम्, 'अपसर, अपसर इति उच्चै: अवदन्। स: मनुष्य: अपृच्छत्- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात् श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।
- मलिनकाय: मनुष्य: शङ्करं सङ्कटात् अरक्षत् ।
- सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।
(ख) कः कं वदति? 1
'अपसर अपसर इति कं वदसि?'
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
यस्मात् ज्ञानं लभते स: गुरुः।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्।
(2) शब्दज्ञानम्। (3 तः 2)
(क) सन्धिविग्रहं कुरुत। 1
पूर्वपदं उत्तरपदं च लिखत
- तत्रैव = ______ + एव।
- कस्मादपि = कस्मात् + ______।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
| 'अ' | 'आ' |
| (1) दरिद्रः | (1) शरीरम् |
| (2) भिन्नम् | (2) शिष्यः |
| (3) मनुष्यः |
(ग) गद्यांशात् द्वे त्वान्त-अव्यये चित्वा लिखत। 1
(3) जालरेखाचित्ं पूरयत। 1

