Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
किञ्चित्कालानन्तरं शृगाल: मृगम् अवदत् , 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग: पाशैर्बद्ध:। सः अचिन्तयत्, “इदानीं मित्राण्येव शरणं मम।” दूरात् तत् पश्यन् जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।'' जम्बूको दूरादेवावदत्, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः। प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत् ? मृगेणोक्तम्, “सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च- सुहदां हितकामानां य: शुणोति न भाषितम्। काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्, “उपायस्तावत् चिन्तनीय:।” |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- एकस्मिन् दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
- फलितः मे ______। (कार्यभाग:/मनोरथ:)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
क्षेत्रम् आगत: शृगालः पाशैर्बद्धः।
(घ) एषः गद्यांशं: कस्मात् पाटात उद्धूत: ? 1
(2) शब्दज्ञानम्। (3 तः 2)
(क) लकारं लिखत। 1
इदानीं प्रभूतं भोजनं प्राप्स्यामि।
(ख) सन्धिविग्रहं कुरुत। 1
वनेऽस्मिन् = ______ + ______।
(ग) प्रश्न निर्माणं कुरुत। 1
प्रदोषकाले मृगमन्विष्यन् काक: तत्रोपस्थितः।
(3) पृथक्करणम्। 2
क्रमेण योजयत।
- क्षेत्रपतिना पाशयोजनम्।
- शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
- मृगस्य पाशबन्धनम्।
- मृगस्य प्रत्यहं क्षेत्रं गमनम्।
Advertisements
उत्तर
(1) (क)
- एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः।
- फलितः मे मनोरथ:।
(ख) क्षुद्रबुद्धि: समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।
(ग) असत्यम्
(घ) एषः गद्यांश "व्यसने मित्रपरीक्षा" एतस्मात् पाठात् उदधृतः।
(2)
(क) लृट्लकारः
(ख) वनेऽस्मिन् = वने + अस्मिन्।
(ग) प्रदोषकाले मृगमन्विष्यन् क: तत्रोपस्थितः?
(3)
- शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
- मृगस्य प्रत्यहं क्षेत्रं गमनम्।
- क्षेत्रपतिना पाशयोजनम्।
- मृगस्य पाशबन्धनम्।
APPEARS IN
संबंधित प्रश्न
पूर्णवाक्येन उत्तरं लिखत।
अरण्ये कौ निवसतः स्म?
पूर्णवाक्येन उत्तरं लिखत।
काकः किम् उपादिशत्?
पूर्णवाक्येन उत्तरं लिखत।
मृगः प्रत्यहं क्षेत्रं गत्वा किम् अकरोत्?
पूर्णवाक्येन उत्तरं लिखत।
मृगः प्रत्यहं क्षेत्रं गत्वा किम् अकरोत्?
पूर्णवाक्येन उत्तरं लिखत।
क्षुद्रबद्धिः कुत्र निभृतं स्थितः?
पूर्णवाक्येन उत्तरं लिखत।
शृगालः केन हतः?
कः कं वदति?
‘वनेऽस्मिन् एकं सस्यपूर्णं क्षेत्रमस्ति।’
कः कं वदति?
‘मित्र, छिन्धि तावन्मम बन्धनम्।’
कः कं वदति?
‘सः वञ्चकः कास्ते?’
माध्यमभाषया उत्तरत।
‘स नरः शत्रुनन्दनः’ इति वचनं कथायाः आधारेण स्पष्टीकुरुत।
विरुद्धर्थकशब्दं लिखत।
दृढः
विरुद्धार्थकशब्दं लिखत।
मैत्री
विरुद्धार्थकशब्दं लिखत।
बद्धः
विरुद्धार्थकशब्द लिखत।
प्रभूतम्
स्तम्भमेलनं कुरुत।
| विशेषणम् | विशेष्यम् |
| दृढः | लगुडेन |
| क्षिप्तेन | दिने |
| एकस्मिन् | मृगः |
| लगुडहस्तः | बन्धः |
| क्षेत्रपतिः |
जालरेखाचित्रं पूरयत।

तालिकां पूरयत।
| वक्त्रा संवादं मेलयत | |
| जम्बूकः | मृगः |
(मञ्जूषा - त्रायस्व माम्, दर्शयामि त्वाम्, दृढोऽयं बन्धः, छिन्धि मम बन्धनम्)
तालिकां पूरयत।
| वक्त्रा संवादं मेलयत | |
| मृगः | काकः |
(मञ्जूषा - अलं विवादेन, कोऽयं द्वितीयः?, एवमस्तु, अस्मत्सख्यम् इच्छति।)
गद्यांशं पठित्वा निर्दिष्टाः कूतीः कुरुत।
| अस्ति एकं चम्पकं नाम अरण्यम्। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन् केनापि शृगालेन अवलोकितः क्षुद्र्बुद्धि: नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत्। अस्तङ्गते सवितरि क्षुद्र्बुद्धि: मृगेण सह मृगस्य निवासस्थानं गतः। मृगशृगालौ दृष्ट्वा काकोऽवदत्, "सखे, चित्राङ्गः! कोऽयं द्वितीयः?" मृगः अब्रवीत्, "जम्बूकोऽयम्। अस्मत्सख्यम् इच्छति।" काकः उपादिशत्, ''अकस्मादागन्तुना सह मित्रता न युक्ता।'' तदाकर्ण्य जम्बूकः सकोपम् आह, "मृगस्य प्रथम दर्शने भवानपि अपरिचितः एव आसीत्। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन। वयं सर्वे आनन्देन एकत्र निवसामः।" काकेनोक्तम् “एवमस्तु।'' |
(1) अवबोधनम्। (3 तः 2) (2)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। (1)
शृगालः मृगेण सह सख्यम् इच्छति यतः ______।
(1) शृगालः मृगमांसं खादितुम् इच्छति।
(2) शृगालः मृगे स्निह्यति।
(ख) कः कं वदति? (1)
“अकस्मादागन्तुना सह मित्रता न युक्ता"।
(ग) पूर्णवाक्येन उत्तरं लिखत। (1)
अरण्ये कौ निवसतः स्म?
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) गदयाशात् 2 प्रथमाविभक्त्यन्तपदे चित्वा लिखत। (1)
(ख) गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत। (1)
| 'अ' | 'आ' | |
| (1) | भ्रमन् | एकाक्षः |
| (2) | अस्तङ्गते | चित्राङ्गः |
| सवितरि |
(ग) पूर्वपदं/उत्तरपदं लिखत। (1)
(1) केनापि = केन + ______ ॥
(2) जम्बकोऽयम् = ______ + अयम्।
