SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2025-2026
Date & Time: 25th February 2026, 11:00 am
Duration: 3h
Advertisements
सूचना:
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- यथासूचनम् आकलनकृतयः व्याकरणकृतयः आरेखितव्याः।
- आकृतीनाम् आलेखनं मसीलेखन्या कर्तव्यम्।
चित्रं दृष्टवा नामानि लिखत।

Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।

Chapter: [0] सुगमसंस्कृतम् :।
समय-स्तम्भमेलनं कुरुत।
| ‘अ’ | ‘आ’ |
| (1) विंशत्यधिक-अष्टवादनम् | १०.०० |
| (2) सार्ध-एकवादनम् | २.५० |
| (3) दशोन-त्रिवादनम् | ८.२० |
| (4) दशवादनम् | १.३० |
Chapter:
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्। प्रेक्षकाणाम् उत्कण्ठायाः पराकाष्ठा जाता। सेवकः मञ्चे त्रीणि आसनानि स्थापितवान् मध्यभागे च वर्तुलाकारं पीठम्। अहम् एकस्मिन् आसने उपावेशितः। अत्रान्तरे भल्लूकवेषधारी अब्दुलः तत्र प्राप्तः। गौः अपि मञ्च समागता। ततः अस्माकं पुरतः खाद्यस्य योजना कृता। सहभोजनस्य प्रारम्भे जाते उत्तेजितैः प्रेक्षकैः आनन्देन तालिकावादनम् आरब्धम्। पूर्वमपि व्याघ्रभल्लूकौ मानुषौ एव। तथापि सा धेनुः ताभ्यां सह कार्यक्रमं कर्तुम् अभ्यस्ता आसीत्। अचिरादेव न इमौ परिचितौ व्याघ्रभल्लूकौ इति धेन्वा लक्षितम्। सम्भ्रमेण संशयेन च एकैकशः आवां दृष्टवती। यदा च तस्याः प्रत्ययः जातः तदा शृङ्गे उन्नम्य नौ आक्रामत्। अहमपि गर्जना कृत्वा तीक्ष्णदन्तान् दर्शितवान्। किन्तु न किञ्चिदपि भयं तस्याः। अब्दुलः तां हस्तेन ताडितवान्। तेन क्षुब्धा सा तम् अन्वधावत्। भल्लूकः तदा चापल्येन पटमण्डपस्तम्भम् आरूढवान्। इयं सर्वा क्रीडा पूर्वनियोजिता इति विचिन्तय प्रेक्षकाः अपि प्रमुदिताः। भल्लूकः निर्गतः इति क्रुद्धा सा धेनुः अधुना व्याघ्रं मां लक्ष्य कृतवती। भीत्या अहं चतुष्पादविशिष्टं व्याघ्रत्वं विस्मृत्य द्विपादं मूलस्वरूपमाश्रितवान्। |
(1) अवबोधनम्। (4 तः 3) (3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- अस्माकं पुरतः ______ योजना कृता। (खाद्यस्य/पेयस्य)
- अब्दुलः तां ______ ताडितवान्। (पादेन/हस्तेन)
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
रात्रौ दशवादने सर्कसक्रीडाया प्रारम्भः जातः।
(ग) पूर्णवाक्येन उत्तरं लिखत। 1
कैः आनन्देन तालिकावादनम् आरब्धम्?
(घ) अमरकोषात् शब्द योजयित्वा वाक्यं पुनर्लिखत। 1
गौः अपि मञ्चं समागता।
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) गद्यांशात् 2 षष्ठी-विभक्त्यन्त-पदे चित्वा लिखत। 1
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
| ‘अ’ | ‘आ’ |
| वर्तुलाकारम् | नौ |
| परिचितौ | पीठम् |
| व्याघ्रभल्लूकौ |
(ग) उत्तरपदं लिखत। 1
- अचिरादेव = अचिरात् + ......।
- तथापि = तथा + ......।
(3) पृथक्करणम्। 2
क्रमेण योजयत।
- भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्।
- धेनोः सम्भ्रम: आक्रमणं च।
- चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः।
- सहभोजनस्य प्रारम्भः।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
|
तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान्, कुद्दालकान् लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।” भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्गम् अवरुध्य कृषिकार्यार्थं जलस्य उपयोगम् अकरोत्। वृष्टिजलसञ्जयं कृत्वा जलव्यवस्थापनम् अकरोत्। भूमिम् उर्वरतमां कर्तु प्रायतत। तदनन्तरं तस्मिन् क्षेत्रे जनाः धान्यबीजानि अवपन्। स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणां बीजानां सङ्कलनं चयनं च परिश्रमेण अकरोत्। अनन्तरं बीजानां संस्करणं कृत्वा वपनम् अकरोत्। पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः। |
(1) अववबोधनम्। (4 त: 3) 3
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
पृथुभूपेन स्वधनुः सज्जीकृतं यतः ______।
- सः शत्रुं हन्तुम् इच्छति स्म।
- सः धनधान्यादि सर्व वस्तुजातं वसुन्धरायाः प्राप्तुम् इच्छति स्म।
(ख) कः कं वदति? 1
“त्वं तु प्रजाहितदक्षः नृपः।”
(ग) एषः गद्यांश: कस्मात् पाठात् उद्धृत:? 1
(घ) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
पर्जन्यानन्तरं फलेभ्यः अङ्कुराः उद्भूताः।
(2) शब्दज्ञानम्। (3 त: 2) 2
(क) गद्यांशात् 2 पूर्वकालवाचक-ल्यबन्त-अव्यये चित्वा लिखत। 1
(ख) प्रश्ननिर्माणं कुरुत। 1
जनाः धान्यबीजानि अवपन्।
(ग) लकारं लिखत। 1
पिता दुःशासकः वेनराजः राजधर्मस्य पालनं अकरोत्।
(3) पृथक्करणम्। 2
जालेखाचित्रं पूरयत।

Chapter:
गद्यांशं पठित्वा सरलार्थं लिखत।
| सूतः | धृताः प्रग्रहाः। अवतरतु आयुष्मान्। |
| दुष्यन्त: | (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत् गृह्यताम्। (इति सूतस्याभरणानि धनुशचोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाऽहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः। |
| सूतः | तथा। (इति निष्क्रान्तः।) |
Chapter:
गद्यांशं पठित्वा सरलार्थं लिखत।
| श्रोतृवृन्दः | भोः पुराणिकवर्य, कथं नदी अस्माकं माता? कीदृशाः नदीनाम् उपकाराः? |
| कीर्तनकारः | शृणुत आर्याः शृणुत। अतिप्राचीना खलु एषा कथा। अस्ति विश्वामित्रः नाम कुशिकपुत्रः मुनिवरः। सपरिवारं, सगोधनं सः दूरतः आगतः। मार्गम् आक्रामन् सः विपाट् तथा शुतुद्री एतयोः नद्योः सङ्गमं प्राप्त:। |
Chapter:
माध्यमभाषया उत्तरत।
संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?
Chapter: [14] प्रतिपदं संस्कृतम्। (संवाद:)
माध्यमभाषया उत्तरत।
‘स नरः शत्रुनन्दनः’ इति वचनं कथायाः आधारेण स्पष्टीकुरुत।
Chapter: [2] व्यसने मित्रपरीक्षा। (गद्यम्)
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
|
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् रामाभिषेके जलमाहरन्त्या |
(1) पद्यांशं पठित्वा निर्दिष्टा: कृतीः कुरुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
क: शब्दं करोति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
| विशेषणम् | विशेष्यम् |
| (1) बहवः | क्षणम् |
| (2) न्याय्यात् | अम्भोदाः |
| पथः |
(ग) सन्धिविग्रहं कुरुत। 1
नैतादृशा: = ...... + ......।
(2) स्तम्भपूरणं कुरुत। 2
| नीतिनिपुणाः | निन्दन्तु | ...... | वा |
| ...... | समाविशतु | ...... | वा |
| मरणम् | अद्यैव | ...... | वा |
Chapter:
माध्यमभाषया उत्तर लिखत।
जटायुरावणयोः सङ्घर्षस्यः वर्णनं कुरुत।
Chapter: [11] जटायुशौर्यम्। (पद्यम्)
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
Chapter: [13] चित्रकाव्यम्। (पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
प्रथमवयसि ______ विस्मरन्ति।।
Chapter:
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्।।
Chapter: [6] युग्ममाला। (पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
अल्पानामपि ______।
______ मत्तदन्तिनः॥
Chapter:
Advertisements
अन्वयं पूरयत।
______ आत्मनः ______ बध्यन्ते। तत्र बकाः न ______। (अतः) ______ सर्वार्थसाधनम्।
Chapter:
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
Chapter: [8] वाचनप्रशंसा। (पद्यम्)
माघ्यमभाषया सरलार्थं लिखत।
यथैव सकला नद्य: प्रविशन्ति महोदधिम्।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥
Chapter: [15] मानवताधर्मः। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।
Chapter: [15] मानवताधर्मः। (पद्यम्)
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
साकम्
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
गम् - (गच्छ्) (१ प.प.)
Chapter: [16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
समीपे
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
क्रुध् (4 प. प.)
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
वि + रम् (१ प. प.)
Chapter: [16] लेखनकौशलम्।
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
Chapter: [16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
शारदेचे वाहन मोर आहे.
मोर शारदा का वाहन है।
Peacock is the vehicle of sharada.
Chapter:
संस्कृतानुवादं कुरुत।
मी देवाला नमस्कार करतो.
मैं ईश्वर को नमस्कार कता हूँ।
I bow down to God.
Chapter:
संस्कृतानुवादं कुरुत।
गावात एक ग्रंथालय आहे.
गाँव में एक ग्रंथालय है।
There is a library in the village.
Chapter:
संस्कृतानुवादं कुरुत।
सिंह पशुंचा राजा आहे.
सिंह पशुओं का राजा है।
Lion is the king of animals.
Chapter:
संस्कृतानुवादं कुरुत।
घराच्या पाठीमागे मैदान आहे.
घर के पीछे मैदान है।
There is a playground behind the house.
Chapter:
संस्कृतानुवादं कुरुत।
झाडावरून आंबा पडला.
पेड़ से आम गिरा।
A mango fell from a tree.
Chapter:
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्
Chapter: [16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
Chapter: [16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
Chapter: [16] लेखनकौशलम्।
साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जूषा- तिष्ठति, गायति, उपविशति, वन्दते, अस्ति, वादयति)
Chapter:
नामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| ....... | ....... | वाचः | द्वितीया |
Chapter:
नामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| ...... | कव्योः | ...... | सप्तमी |
Chapter:
नामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| भगवते | ...... | ...... | चतुर्थी |
Chapter:
सर्वनामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| यस्मात् | ...... | ...... | पञ्चमी |
Chapter:
Advertisements
सर्वनामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| ...... | युवाम् | ...... | प्रथमा |
Chapter:
सर्वनामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| ...... | ...... | एभिः | तृतीया |
Chapter:
क्रियापदतालिका।
| लकारः |
एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
| लङ् | अभक्षयत् | ...... | ...... | प्रथमः |
Chapter:
क्रियापदतालिका।
| लकारः |
एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
| लट् | ...... | ...... | लभध्वे | मध्यमः |
Chapter:
क्रियापदतालिका।
| लकाराः |
एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
| लृट् | ...... | पठिष्यावः | ...... | उत्तमः |
Chapter:
धातुसाधित-विशेषण-तालिका।
| धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
| मन् (4 आ.प.) | मतः | ...... | मन्तव्यः | ...... |
Chapter:
धातुसाधित-विशेषण-तालिका।
| धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
| पूज् (10 प.प.) | ...... | पूजितवान् | ...... | पूजयन् |
Chapter:
धातुसाधित-विशेषण-तालिका।
| धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
| लिख् (6 प.प.) | ...... | लिखितवान् | ...... | लिखन् |
Chapter:
अस्ति ______ (१) चम्पकं नाम अरण्यम्। (सङ्ख्यावाचकम्)
Chapter:
आर्यभट्टः इति भारतवर्षेण प्रेषितः ______ (1) उपग्रहः। (क्रमवाचकम्)
Chapter:
सङ्ख्यावाचकानि।
भोजने ______ (६) रसेषु मधुरः रसः मम प्रियः।
Chapter: [15.3] सङ्ख्याविश्वम्।
क्रमवाचकानि।
______ (२) भवने योगेशः निवसति।
Chapter: [15.3] सङ्ख्याविश्वम्।
वर्षस्य ______ (४) परीक्षा भवति। (आवृत्तिवाचकम्)
Chapter:
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रह: | समासनाम |
| मृगशृगालौ | ......... | इतरेतरद्वन्द्वः |
Chapter: [9.1] समासा:।
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रह: | समासनाम |
| सविनयम् | विनयेन सह | .........। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रह: | समासनाम |
| .........। | मातुः सेवा। | षष्ठी-तत्पुरुषः। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रह: | समासनाम |
| गृहस्थः | .........। | उपपद तत्पुरुषः। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रह: | समासनाम |
| .........। | सूक्ष्माः कणाः | कर्मधारयः। |
Chapter:
विरुद्धार्थकशब्दान् लिखत।
प्राचीनाः × .......।
Chapter: [8] वाचनप्रशंसा। (पद्यम्)
समानार्थकशब्दान् लिखत।
रासभः = .........।
Chapter: [3] सूक्तिसुधा। (पद्यम्)
समानार्थकशब्दान् लिखत।
सुगमः = ......।
Chapter: [14] प्रतिपदं संस्कृतम्। (संवाद:)
विरुद्धार्थकशब्दान् लिखत।
साधवः × .......।
Chapter: [3] सूक्तिसुधा। (पद्यम्)
सूचनानुसार कृती: कुरुत।
वयं महाभागस्य नामधेयं जानीमः। (वाच्यपरिवर्तनं कुरुत।)
Chapter: [18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)
Chapter: [18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
अपि भवती संस्कृतं पाठयति? (‘भवती’ स्थाने ‘त्वं’ योजयत।)
Chapter: [18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
जटायुः रावणस्य गात्रे व्रणान् चकार। (लङ्-लकारे परिवर्तयत।)
Chapter: [18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
पुत्रः पत्रं लिखति। (पिता) (णिजन्तं कुरुत।)
Chapter:
गद्यांशं पठित्वा कृतीः कुरुत। (6 तः 4)
|
दक्षिण-भारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गैः क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। त्रयाणां सागराणां जले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतमेव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायामेकस्यां विशालायां शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः। एतस्यां शिलायाम् एव विवेकानन्दकेन्द्रम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनां च कृत्वा जीवनं सफलं कुवन्ति। |
(1) पूर्णवाक्येन उत्तरं लिखत। 1
दक्षिणभारते सागरमध्ये किं वर्तते?
(2) प्रातिपदिकं लिखत। 1
(क) सागराणाम्
(ख) तस्मिन्
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
चन्द्रस्य शोभा दर्शकान् मन्त्रमुग्धान् करोति।
(4) माध्यमभाषया सरलार्थं लिखत। 1
एतस्यां शिलायाम् एव विवेकानन्दकेन्द्रम् अस्ति।
(5) गद्यांशात् 1 अव्ययं चित्वा लिखत। 1
(6) कारकपरिचयं कुरुत। 1
त्रयाणां सागराणां जले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतमेव।
Chapter:
पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत।
|
कन्या वरयते रूपं, माता वित्तं पिता श्रुतम्। बान्धवाः कुलम् इच्छन्ति, मिष्टानम् इतरेजनाः।। |
(क) पूर्णवाक्येन उत्तरं लिखत। (2 त: 1) 1
- के कुलम् इच्छन्ति?
- कन्या किं वरयते?
(ख) समानार्थकं शब्दं लिखत। 1
पिता = ......।
Chapter:
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
|
आचारः कुलम् आख्याति, देशम् आख्याति भाषणम्। सम्भ्रमः स्नेहम् आख्याति, वपुः आख्याति भोजनम्॥ |

Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] with solutions 2025 - 2026
Previous year Question paper for Maharashtra State Board 10th Standard -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard.
How Maharashtra State Board 10th Standard Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.



