हिंदी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत: क्रीडा अस्माकं जीवनस्य एकं महत्त्वपूर्णम्‌ अङ्गम्‌ अस्ति। क्रीडाः विविधाः भवन्ति। छात्रजीवने तु क्रीडाः अनिवार्याः एव भवन्ति।

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत:

क्रीडा अस्माकं जीवनस्य एकं महत्त्वपूर्णम्‌ अङ्गम्‌ अस्ति। क्रीडाः विविधाः भवन्ति। छात्रजीवने तु क्रीडाः अनिवार्याः एव भवन्ति। यदा छात्रः क्रीडायाः अभ्यासं करोति तदा तस्य शारीरिकं स्वास्थ्यं मानसिकं स्वास्थ्यं च वर्धते। छात्राः विद्यालये प्रतिदिनं विभिन्नाः क्रीडाः क्रीडन्ति। अस्माकं देशे क्रिकेटः, फुटबॉल, कबड्डी, बॉलीबॉल इत्यादयः लोकप्रिया क्रीडाः सन्ति। सत्यमेव कथ्यते यत्‌ यः नरः क्रीडासु सक्रियः भवति सः निरन्तरम्‌ आरोग्यं प्राप्नोति। अपरं च क्रीडया नेतृत्वक्षमतायाः संगठितकार्यस्य महत्वं च ज्ञायते। प्रतिदिनं क्रीडनं स्वास्थ्याय लाभकरम्‌ एव अस्ति। क्रीडा आत्मसंतोषम्‌ आनन्दं च प्राप्तुम्‌ अपि सहायिका भवति। एवम्‌ एव क्रीडया मानसिक-स्वास्थ्यस्य सामाजिक-सम्बन्धानां च वृद्धिः भवति। अतः अस्माभिः नित्यमेव काऽपि क्रीडा अवश्यमेव क्रीडनीया। नूनं स्वस्थस्य जीवनस्य अनिवार्यम्‌ अङ्गम्‌ अस्ति क्रीडा। सत्यमेव कथ्यते यत्‌ - ‘स्वास्थ्यं धनमेव अस्ति’।

(अ) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्‌) 2

  1. स्वस्थस्य जीवनस्य कीदृशम्‌ अङ्गमस्ति क्रीडा?
  2. छात्राः कुत्र क्रीडाः क्रीडन्ति?
  3. क्रीडासु सक्रियः नरः किं प्राप्नोति?

(आ) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्‌) 4

  1. सत्यमेव किं कथ्यते?
  2. यदा छात्रः क्रीडायाः अभ्यासं करोति तदा किं वर्धति?
  3. अस्माकं देशे लोकप्रिया: क्रीडाः काः सन्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1

(ई) यथानिर्देशम्‌ उत्तरत: (केवलं प्रश्नत्रयम्‌) 3

  1. ‘क्रीडन्ति’ इति क्रियापदस्य कर्तृपदं किं भवेत्‌?
    1. छात्राः
    2. विद्यालये
    3. प्रतिदिनम्‌
    4. क्रीडायाः
  2. ‘अनिवार्यम्‌’ इति विशेषणपदस्य विशेष्यपदं किम्‌?
    1. क्रीडा
    2. अङ्गम्‌
    3. नूनम्‌
    4. अस्ति
  3. ‘सः निरन्तरम्‌ आरोग्य प्राप्नोति।’ अत्र किं क्रियापदम्‌?
    1. सः
    2. निरन्तरम्‌
    3. प्राप्नोति
    4. आरोग्यम्‌
  4. ‘युष्माकम्‌’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्‌?
    1. अनिवार्यम्‌
    2. आरोग्यम्‌
    3. आत्मसंतोषम्‌
    4. अस्माकम्‌
आकलन
Advertisements

उत्तर

(अ)

  1. अनिवार्यम्‌
  2. विद्यालये
  3. आरोग्यम्‌

(आ)

  1. सत्यमेव कथ्यते यत्‌ - ‘स्वास्थ्यं धनमेव अस्ति’।
  2. यदा छात्रः क्रीडायाः अभ्यासं करोति तदा तस्य शारीरिकं स्वास्थ्यं मानसिकं स्वास्थ्यं च वर्धते।
  3. अस्माकं देशे क्रिकेटः, फुटबॉल, कबड्डी, बॉलीबॉल इत्यादयः लोकप्रिया क्रीडाः सन्ति।

(इ) क्रीडायाः महत्त्वम्‌

(ई)

  1. छात्राः
  2. अङ्गम्‌
  3. प्राप्नोति
  4. अस्माकम्‌
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×