Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
| क्रीडा अस्माकं जीवनस्य एकं महत्त्वपूर्णम् अङ्गम् अस्ति। क्रीडाः विविधाः भवन्ति। छात्रजीवने तु क्रीडाः अनिवार्याः एव भवन्ति। यदा छात्रः क्रीडायाः अभ्यासं करोति तदा तस्य शारीरिकं स्वास्थ्यं मानसिकं स्वास्थ्यं च वर्धते। छात्राः विद्यालये प्रतिदिनं विभिन्नाः क्रीडाः क्रीडन्ति। अस्माकं देशे क्रिकेटः, फुटबॉल, कबड्डी, बॉलीबॉल इत्यादयः लोकप्रिया क्रीडाः सन्ति। सत्यमेव कथ्यते यत् यः नरः क्रीडासु सक्रियः भवति सः निरन्तरम् आरोग्यं प्राप्नोति। अपरं च क्रीडया नेतृत्वक्षमतायाः संगठितकार्यस्य महत्वं च ज्ञायते। प्रतिदिनं क्रीडनं स्वास्थ्याय लाभकरम् एव अस्ति। क्रीडा आत्मसंतोषम् आनन्दं च प्राप्तुम् अपि सहायिका भवति। एवम् एव क्रीडया मानसिक-स्वास्थ्यस्य सामाजिक-सम्बन्धानां च वृद्धिः भवति। अतः अस्माभिः नित्यमेव काऽपि क्रीडा अवश्यमेव क्रीडनीया। नूनं स्वस्थस्य जीवनस्य अनिवार्यम् अङ्गम् अस्ति क्रीडा। सत्यमेव कथ्यते यत् - ‘स्वास्थ्यं धनमेव अस्ति’। |
(अ) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 2
- स्वस्थस्य जीवनस्य कीदृशम् अङ्गमस्ति क्रीडा?
- छात्राः कुत्र क्रीडाः क्रीडन्ति?
- क्रीडासु सक्रियः नरः किं प्राप्नोति?
(आ) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 4
- सत्यमेव किं कथ्यते?
- यदा छात्रः क्रीडायाः अभ्यासं करोति तदा किं वर्धति?
- अस्माकं देशे लोकप्रिया: क्रीडाः काः सन्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरत: (केवलं प्रश्नत्रयम्) 3
- ‘क्रीडन्ति’ इति क्रियापदस्य कर्तृपदं किं भवेत्?
- छात्राः
- विद्यालये
- प्रतिदिनम्
- क्रीडायाः
- ‘अनिवार्यम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
- क्रीडा
- अङ्गम्
- नूनम्
- अस्ति
- ‘सः निरन्तरम् आरोग्य प्राप्नोति।’ अत्र किं क्रियापदम्?
- सः
- निरन्तरम्
- प्राप्नोति
- आरोग्यम्
- ‘युष्माकम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
- अनिवार्यम्
- आरोग्यम्
- आत्मसंतोषम्
- अस्माकम्
आकलन
Advertisements
उत्तर
(अ)
- अनिवार्यम्
- विद्यालये
- आरोग्यम्
(आ)
- सत्यमेव कथ्यते यत् - ‘स्वास्थ्यं धनमेव अस्ति’।
- यदा छात्रः क्रीडायाः अभ्यासं करोति तदा तस्य शारीरिकं स्वास्थ्यं मानसिकं स्वास्थ्यं च वर्धते।
- अस्माकं देशे क्रिकेटः, फुटबॉल, कबड्डी, बॉलीबॉल इत्यादयः लोकप्रिया क्रीडाः सन्ति।
(इ) क्रीडायाः महत्त्वम्
(ई)
- छात्राः
- अङ्गम्
- प्राप्नोति
- अस्माकम्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
