Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
|
ज्वालमालाकुलाः अश्वाः प्राणत्राणाय इतस्ततः अधावन्। तेषु केचिद् दग्धाः केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः। दग्धां हयशालां विज्ञाय सविषादः राजा शालिहोत्रज्ञान् वैद्यान् आहूय अपृच्छत् - ‘हा! दग्धाः मे घोटकाः कथं रक्षणीयाः? सपदि उपायः क्रियताम्।’ ‘यथोचितं क्रियताम्’ इति राजादेशं श्रुत्वा सर्वे भयत्रस्ताः कपयः अचिन्तयन् - ‘हा! हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः। |
(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 1
(क) के प्राणत्राणाय इतस्ततः अधावन्?
(ख) राजादेशं श्रुत्वा कीदृशाः कपयः अचिन्तयन्?
(ग) शालिहोत्रज्ञान् वैद्यान् आहूय कः अपृच्छत्?
(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) यदा अश्वाः प्राणत्राणाय अधावन् तदा किम् अभवत्?
(ख) कपयः किम् अचिन्तयन्?
(ग) राजा किमर्थं वैद्यान् आहूय अपृच्छत्?
(iii) निर्देशानुसारम् उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) ‘अश्वाः’ इति कर्तृपदस्य क्रियापदं किम्?
(ख) ‘हयशालां’ इति पदस्य किं विशेषणपदं प्रयुक्तम्?
(ग) ‘वानराः’ इति पदस्य किं पर्यायपदं प्रयुक्तम्?
Advertisements
उत्तर
(i)
(क) अश्वाः
(ख) भयत्रस्ताः
(ग) राजा
(ii)
(क) यदा अश्वाः प्राणत्राणाय अधावन् तदा तेषु केचिद् दग्धाः केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः।
(ख) कपयः अचिन्तयन् - ‘हा! हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः।’
(ग) दग्धां हयशालां विज्ञाय सविषादः राजा घोटकानां रक्षणाय वैद्यान् आहूय अपृच्छत्।
(iii)
(क) अधावन्
(ख) दग्धाम्
(ग) कपयः
