English Medium
Academic Year: 2025-2026
Date: मार्च 2026
Advertisements
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति।
- 'क' भागः : अपठितावबोधनम् (10 अङ्काः)
- 'ख' भागः : रचनात्मककार्यम् (15 अङ्काः)
- 'ग' भागः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
- 'घ' भागः : पठितावबोधनम् (30 अङ्काः)
- प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्क: प्रश्नपत्रानुसारम् एव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
| अयं संसारः जनानां कर्मभूमिः अस्ति। अस्मिन् संसारे यावन्तः जनाः जन्म गृह्णन्ति, तेषां पृथक् पृथक् कर्तव्यानि भवन्ति। एतानि कर्तव्यानि अनेकविधानि भवन्ति। कानिचिद् व्यक्तिगतानि कानिचित् पारिवारिकाणि, कानिचित् सामाजिकानि। कानिचित् नित्यानि भवन्ति कानिचित् च नैमित्तिकानि। एतेषां सर्वेषां कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय देशहिताय च परमावश्यकं भवति। परमद्य जनेषु कर्तव्यपालनं प्रति न कापि निष्ठा। कोऽपि श्रमेण सत्यतया निष्ठया च कार्यं कर्तुं न वाञ्छति। अल्पेन एव प्रयासेन ते कार्यसिद्धिम् इच्छन्ति। ते केवलं स्वार्थपूर्तिं कर्तुम् इच्छन्ति। अधिकाराय तु सर्वे प्रयतन्ते परं कर्तव्यं प्रति कोऽपि ध्यानं न ददाति। सत्यमेतद् यावद् वयं परिश्रमपूर्वकं श्रद्धापूर्वकं च स्वकर्तव्यानि न पालयामः तावद् देशस्य समाजस्य च उन्नतिः भवितुं न अर्हति। कर्तव्यपालनम् एव आत्मना देशस्य च उन्नतेः मूलमन्त्रोऽस्ति। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- अयं संसारः केषां कर्मभूमिः अस्ति?
- उन्नतेः मूलमन्त्रं किम् अस्ति?
- जनाः किं विहाय केवलम् अधिकाराय प्रयतन्ते?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 4
- देशस्य उन्नतिः कदा भवितुम् अर्हति?
- कर्तव्यपालनं किमर्थम् आवश्यकम्?
- अद्यत्वे जनाः कथं कार्यसिद्धिम् इच्छन्ति?
इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
ई. यथानिर्देशम् उत्तरत - 3
- ‘अयं संसारः कर्मभूमिः अस्ति।’ अस्मिन् वाक्ये क्रियापदं किम्?
(क) अयम्
(ख) संसारः
(ग) कर्मभूमिः
(घ) अस्ति - ‘प्रयत्नं कुर्वन्ति’ एतदर्थं किं क्रियापदं गद्यांशे प्रयुक्तम्?
(क) प्रयतन्ते
(ख) अर्हति
(ग) इच्छन्ति
(घ) भवन्ति - ‘प्रयासेन’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
(क) निष्ठा
(ख) अल्पेन
(ग) सत्यता
(घ) श्रमेण
Chapter:
भवत्याः नाम शर्वाणी। भवत्याः सखी प्रजज्वला संस्कृतं पठितुं भवत्याः परामर्शं वाञ्छति। तां प्रेरयितुं लिखितं पत्रं मञ्जूषायां प्रदत्तपदानां सहायतया पूरयित्वा पत्रम् उत्तरपुस्तिकायां लिखतु -
डी-401, जनकपुरी
(i) ______
दिनाङ्कः ______
प्रिय (ii) ______
सस्नेहं नमस्ते।
अत्र कुशलं तत्रास्तु। आशासे त्वम् अपि कुशलिनी स्यात्। भवत्याः पत्रं प्राप्तम्। भवती संस्कृतभाषां पठितुम् इच्छति (iii) ______ पठित्वा मम प्रसन्नतायाः सीमा नास्ति। एषा भाषा सर्वाधिका (iv) ______ अस्ति। संस्कृतम् अस्माकं देशस्य प्रतिष्ठा वर्तते। वेदाः, उपनिषदः, रामायणं, महाभारतं, पुराणानि, महाकाव्यानि, कथासाहित्यम् इत्यादिकं सर्वं (v) ______ अत्यन्तं मार्गदर्शकं, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति। यथा पुष्पेभ्यः सुगन्धः पृथक् कर्तुं न शक्यते तथैव भारतीयसंस्कृतेः संस्कृतभाषां पृथक् (vi) ______ न शक्यते। संस्कृतेन सम्भाषणम् अस्माकं हृदयेषु (vii) ______ वर्धयति हीनभावनां च नाशयति। अतः त्वम् अवश्यं (viii) ______ पठ, पठित्वा च अस्याः भाषायाः (ix) ______ कुरु। एवं वयं भारतमातुः सेवां कृत्वा धन्याः भवामः। सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अनुजेभ्यः च आशीर्वादाः।
भवत्याः सखी,
(x) ______
मञ्जूषा
| वैज्ञानिकी, प्रचारम्, वाङ्गयम्, प्रज्ज्वले, कर्तुम्, शर्वाणी, इति, गौरवम्, संस्कृतम्, नवदिल्लीतः। |
Chapter:
प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा
|
निर्वाचनम्, मतदानकेन्द्रम्, पङ्क्तिबद्धाः, महिलाः, ग्रामीणाः, हस्तेषु परिचयपत्राणि, अधिकारः, जनप्रतिनिधिः, वृक्षाः, प्रतीक्षां कुर्वन्ति। |
Chapter:
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत -
“बालश्रमः”
| जलपानगृहेषु, भोजनालयेषु, उद्योगेषु, बालकाः, शिक्षातः, क्रीडनात्, वञ्चिताः, जनाः, ग्रामेभ्यः, आगच्छन्ति, अपि, धनप्राप्त्यर्थम्, कुर्वन्ति, संविधानम्, नियमः। |
Chapter:
मञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत -
| छात्राः | (i) ______ |
| आचार्यः | स्वस्ति, यशस्विनः भवत। |
| आरुषः | मया श्रुतं यत् श्वः आरभ्य सद्यस्कमाध्यमेन (ऑनलाइन) कक्षा भविष्यति, किमर्थम्? |
| आचार्यः | (ii) ______ |
| मोहितः | अस्माकं कक्षाध्यापिका चर्चायां सामान्यरूपेण अकथयत् यत् कदाचित् श्वः आरभ्यः गृहात् एव कक्षा स्वीकरणीया भवेत् इति। |
| आचार्यः | भवतां कक्षाध्यापिका सम्यक् सूचितवती। ह्यः वायुगुणवत्ता-सूचकाङ्कः महतीं वृद्धिं प्राप्नोत् तस्मात् सर्वकारः जनानां स्वास्थ्यरक्षणाय सद्यस्कमाध्यमेन गृहात् एव पठितुं कार्यं कर्तुं च निर्देशम् अयच्छत्। |
| नव्या | (iii) ______ |
| आचार्यः | सत्यं कथयति, वयं शिक्षकाः अपि साक्षात् कक्षायाम् आगत्य पाठयितुम् इच्छामः। |
| भूमिका | (iv) ______ |
| आचार्यः | इदानीं तु ईश्वरः एव जानीयात्। यदा प्रदूषणस्य निवारणाय प्रकृतेः च संरक्षणाय वयं जागरूकाः भविष्यामः तदा एव अग्रे एतादृशी विकटा स्थितिः नैव आगमिष्यति। |
| छात्राः | वयं प्रणं कुर्मः यत् वयं पर्यावरण-रक्षणाय निरन्तरं प्रयासरताः भविष्यामः। |
| आचार्यः | (v) ______ |
मञ्जूषा
|
Chapter:
मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत -
| एकः मृत्तिका-घटः आसीत्। (i) ______ उपरि स्थितः शरावः यः घटस्य मुखम् आच्छादयति सः एकदा घटम् अपृच्छत् - मित्र घट! मम (ii) ______ एकः प्रश्नः अस्ति। इदानीं (iii) ______ अस्ति। यत् किमपि पात्रं यदा भवतः समीपम् आगच्छति तदा भवान् तत्पात्रं (iv) ______ जलेन परिपूरयति। तानि सर्वाणि पात्राणि जलं स्वीकृत्य तृप्तानि भवन्ति। भवन्तम् एकाकिनं विहाय दूरं गच्छन्ति। (v) ______ स्वार्थपरायणानि सन्ति, तथापि भवान् तेभ्यः शीतलं जलं प्रदाय तेषु (vi) ______ करोति। अहं सर्वदा भवता सह एव तिष्ठामि कदापि भवन्तं (vii) ______ कुत्रापि न गच्छामि परन्तु भवान् मह्यं कदापि बिन्दुमितम् अपि जलं न यच्छति, किमर्थम्? तदा स्मितं कुर्वन् घटः (viii) ______ अवदत् - एतस्य कारणं भवतः प्रकृतिः अस्ति। तानि सर्वाणि पात्राणि शिरः अवनम्य जलं याचन्ते अहञ्च तेषाम् इच्छां पूरयामि परं भवान् तु सर्वदा मम (ix) ______ एव तिष्ठति तर्हि कथम् अहं भवते जलं दद्याम्? भवान् अपि शिरः अवनम्य (x) ______ याचनां करोतु अहं भवन्तम् अपि निराशं न करिष्यामि। |
मञ्जूषा
| त्यक्त्वा, घर्मकालः, शिरसि, शीतलेन, मनसि, अनुग्रहम्, घटस्य, मन्दस्वरेण, तानि, जलार्थम्। |
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-
स्वाध्यायाभ्यसनं चैव वाङ्मयं तपः + उच्यते।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
राज्ञः स्वस्य गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
मधुमासे कोकिलः पं + चम् -स्वरेण गायति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
विषयान् ध्यायतः पुसः सङ्गस्तेषु उपजायते।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
तेषु केचित् + दग्धाः, केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च?
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
मनसः निग्रहम् अहं वायोः + इव सुदुष्करं मन्ये।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
सुस्वागतं भोः अरुणाचलेऽस्मिन्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पञ्चशतानां बौधभिक्षुणां निवासयोग्या स्थली इयम्।
निवासं योग्या
निवासस्य योग्या
निवासेन योग्या
निवासाय योग्या
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
कलशपातशब्देन प्रबुद्धौ तौ जाया च पतिः च आश्चर्यचकितौ आस्ताम्।
जायापती
जायापतिः
दम्पती
दमपतिः
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
प्रकृतिमाता सस्नेहं सर्वान् बोधयति।
स्नेहम् अनतिक्रम्य
स्नेहेन सहितम्
स्नेहस्य अभावः
स्नेहस्य योग्यम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पितुः उपदेशेन न सन्तुष्टः सः एकदा द्वारिकापुरीम् आगच्छत्।
असन्तुष्टः
अनुसन्तुष्टः
सन्तोषसहितः
नसन्तुष्टः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
भवतः दानवीर + तल् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि।
दानवीरताम्
दानवीरता
दानवीरत्वम्
दानवीरा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
कथं मन्दभाग्या अहं धैर्यं धारयामि।
मन्दभाग्य + तल्
मन्दभाग्य + त्व
मन्दभाग्य + टाप्
मन्दभाग्य + ठक्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
अत्र अनेकानि दर्शनीयानि स्थलानि सन्ति।
दृश् + तव्यत्
दृश् + अनीयर्
दृश् + मतुप्
दृश् + ठक्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
एकदा भगवान् बोधिसत्वः शिवीनां राजा अभवत्।
भग + टाप्
भग + ठक्
भग + तल्
भग + मतुप्
Chapter:
वाच्यानुसारं मञ्जूषायाः उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत -
| माहिका | भूमिके! (i) ______ किं लिखसि? |
| भूमिका | माहिके! मया श्लोकाः लिख्यन्ते। |
| माहिका | त्वं कान् (ii) ______ लिखसि? |
| भूमिका | मया नीतिश्लोकाः लिख्यन्ते। त्वया अधुना किं (iii) ______? |
| माहिका | अहं संस्कृतकथां पठामि। |
मञ्जूषा
| श्लोकान्, क्रियते, त्वम्। |
Chapter:
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यम् पुनः लिखत -
पिता पुत्राय क्रीडनकं (दा) ______।
Chapter:
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यम् पुनः लिखत -
शताक्ष्या ______ (गीत) श्रूयन्ते।
Chapter:
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यम् पुनः लिखत -
______ (अध्यापक) छात्राः पाठयन्ते।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
सुखदः ______ (5:30) वादने धावनाय बहिः गच्छति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत -
नव्या रात्रौ ______ (12:15) वादनपर्यन्तं गृहपाठम् अकरोत्।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
रुचिरा सायं ______ (6:45) वादने मन्दिरं गच्छति।
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ मधुरभाषिणी वाणी पुरुषं प्रह्लादयति तथा चन्दनरसः न प्रह्लादयति।
इति
तु
च
यथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
चञ्चलं मनः अभ्यासेन वैराग्येण ______ गृह्यते।
इति
तु
च
यथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
आचारः प्रथमो धर्मः ______ एतत् विदुषां वचः।
इति
तु
च
यथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
अहं ______ वनं गच्छामि।
इति
तु
च
यथा
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
अस्मिन् प्रदेशे पञ्चाशदधिकाः नद्यः प्रवहति।
प्रवहसि
प्रवहतः
प्रवहन्ति
प्रवहामि
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
इन्द्रस्य प्रभावेण राज्ञः सत्यपुण्यबलेन एकं चक्षुः प्रतिष्ठितः अभवत्।
प्रतिष्ठिता
प्रतिष्ठितम्
प्रतिष्ठिताः
प्रतिष्ठितानि
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
तर्हि न जानासि भवान् तस्य मनोवृत्तिम्।
त्वम्
भवन्तः
युवाम्
भवन्तौ
Chapter:
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
अस्ति कर्मपुरनाम्नि नगरे प्रच्छनभाग्य-नामधेयः कश्चित् कुमारः। बाल्ये वयसि विद्यापराङ्कखः स केनचित् दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः। एकदा स दुष्टबुद्धिना सार्धं कस्यचित् श्रेष्ठिनः गेहे धनहरणार्थं ग्रामान्तरं प्रस्थितः। अथ व्रजन्तौ तौ गर्तसङ्कुले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य अवदताम् -भो भो बालकाः! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्। तच्छ्रुत्वा तेषु कश्चित् उदण्डः बालकः उवाच - अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्? |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- कुत्र प्रच्छन्नभाग्य-नामधेयः कश्चित् कुमारः आसीत्?
- प्रच्छन्नभाग्यः केन सार्धं धनहरणार्थं ग्रामान्तरं प्रस्थितः?
- कीदृशः बालकः उवाच?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- उदण्डः बालकः किम् अकथयत्?
- अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान् दृष्ट्वा किम् अवदताम्?
- प्रच्छन्नभाग्यः कदा केन सह च चौर्यकर्मणि निरतः सञ्जातः?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘कश्चित् उदण्डः बालकः उवाच।’ अत्र किं कर्तृपदम् अस्ति?
- ‘स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।’ अत्र क्रियापदं किम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘त्यक्त्वा’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
- ‘विषमे’ इत्यस्य विशेष्यपदं गद्यांशात् चित्वा लिखत।
Chapter:
अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि। तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥ आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः। तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥ |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- चित्ते तथा वाचि किं भवेत्?
- कः प्रथमो धर्मः?
- किं प्राणेभ्योऽपि विशेषतः रक्षेत्?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- विदुषां किं वचः?
- समत्वं किं भवति?
- सदाचारं कथं रक्षेत्?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- “तदेवाहुः महात्मानः समत्वमिति तथ्यतः।” अत्र वाक्ये क्रियापदं किम्?
- ‘सरलता’ इत्यस्य किं समानार्थकं पदं प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘प्रथमो धर्मः’ इत्यनयोः विशेषणपदं चित्वा लिखत।
- ‘वाण्याम्’ इत्यस्य पर्यायपदं लिखत।
Chapter:
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| [स्थानम् - सरस्तीरम्। समयः प्रभातवेला। तत्र राजहंसः हंसी च विहरतः। नेपथ्ये काकध्वनिः श्रूयते।] | |
| राजहंसः | अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते? |
| राजहंसी | भर्तः! काकात् अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्णः, कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः ......... |
| काकः | (प्रविश्य सक्रोधम्) आः किम् उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृशः? श्रीवासुदेवस्य वर्णः कीदृशः? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान् प्रबोधयामि कर्मसु च विनियोजयामि। |
| राजहंसः | हुं! किमनेन? एतत् कार्यं तु कुक्कुटोऽपि करोति। |
| काकः | (विहस्य) कुक्कुटः! अरे अद्य कुतः कुक्कुटाः नगरेषु। अहमेव सर्वत्र सुलभः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- कर्तव्यपरायणः कः अस्ति?
- काकस्य वर्णः कीदृशः अस्ति?
- काकध्वनिः कुत्र श्रूयते?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- राजहंसः राजहंसीं किं पृच्छति?
- काकः सक्रोधं किं वदति?
- राजहंसी भर्तारं किम् उत्तरति?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘पवित्रम्’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
- ‘करोति’ इति क्रियापदस्य कर्तृपदं किम् अत्र प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘वर्णः कृष्णः’ इत्यनयोः पदयोः विशेष्यपदं चित्वा लिखत।
- ‘एतत् कार्यं तु कुक्कुटोऽपि करोति’ अस्मिन् वाक्ये क्रियापदं किम्?
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
अनुद्वेगकरं वाक्यं वाङ्मय तपः उच्यते।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
कामः एव अस्माकं शत्रुः।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
गगनात् सहस्रशः उल्काः भूमौ पतन्ति।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
अरुणाचलप्रदेशे अनेके उत्सवाः मान्यन्ते।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
दानशालासु विचरन् राजा अचिन्तयत्।
Chapter:
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -
|
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहार्थविज्ञानं तत्वज्ञानं च धीगुणाः॥ |
अन्वयः - शुश्रूषा (i) ______ च एव, ग्रहणम् तथा (ii) ______, ऊह-अपोह-अर्थविज्ञानम्, (iii) ______ च (iv) ______ (सन्ति)।
मञ्जूषा
| तत्वज्ञानम्, श्रवणम्, धीगुणाः, धारणम्। |
Chapter:
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -
|
असंशयं महाबाहो! मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते॥ |
भावार्थः- हे महाबाहो! अत्र संशयः नास्ति यत् एतत् (i) ______ अतीव चञ्चलम् अस्ति। इदं (ii) ______ नियन्त्रितं भवति परन्तु यदि वयं पुनः पुनः (iii) ______ कुर्मः, विरक्ताः च भवामः तदा निश्चयेन एतत् वशीकर्तुं (iv) ______।
मञ्जूषा -
| बहुकष्टेन, अभ्यासम्, शक्नुमः, मनः। |
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
वनौषधीनां तु अयं स्रोतः एव।
प्रवाहः
निर्झरः
उद्गमस्थलम्
प्रकारः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
पवनः स्तब्धः जातः।
स्वच्छः
आरब्धः
प्रदूषितः
स्थगितः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
शिष्यः आचार्यात् पादम् आदत्ते।
श्लोकस्य पङ्क्तिः
चतुर्थांशम्
चरणम्
ग्रन्थम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
राज्ञः नेत्रदान-निश्चयं ज्ञात्वा अमात्याः विषण्णाः अभवन्।
खिन्नाः
विमुखाः
चिन्तिताः
प्रसन्नाः
Chapter:
मञ्जूषायाः पदसहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम् उत्तरपुस्तिकायां लिखत -
कस्मिंञ्चित् नगरे चन्द्रः (i) ______ एकः भूपतिः अवसत्। तस्य पुत्राः वानरक्रीडारताः प्रतिदिनं वानरसमूहं (ii) ______ भोज्यपदार्थैः सन्तुष्टं कुर्वन्ति स्म। तत्रैव राजगृहे बालवाहनयोग्यं मेषयूथम् अपि (iii) ______। तत्र एकः मेषः जिह्यायाः लोलुपतावशात् अहर्निशं महानसं प्रविश्य तत्र यद् वस्तु पश्यति तदेव (iv) ______ स्म। ततः पाचकाः यत्किञ्चित् काष्ठं मृत्तिकापात्रं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति स्म, तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकाराणां च (v) ______ दृष्ट्वा बुद्धिमान् वानरयूथपतिः अचिन्तयत्- “एतेषां कलहो (vi) ______ हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान् वानरान् आहूय एकान्ते अवदत्- (vii) ______ प्रतिदिनं मेषेण सह सूपकाराणाम् अयं कलहः नूनम् अस्माकं विनाशस्य कारणं भविष्यति अतः वयत् एतत् (viii) ______ त्यक्त्वा वनं गच्छामः। तस्य इमं परामर्शम् अश्रद्धेयं मत्वा रसनास्वादलुब्धाः वानराः गन्तुं सिद्धाः न अभवन्।
मञ्जूषा
| भोः बान्धवाः!, आसीत्, कलहम्, नामकः, राजभवनम्, विविधैः, वानराणाम्, खादति। |
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit (Communicative) with solutions 2025 - 2026
Previous year Question paper for CBSE Class 10 -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Communicative), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Communicative) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
