Advertisements
Advertisements
प्रश्न
मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत -
| एकः मृत्तिका-घटः आसीत्। (i) ______ उपरि स्थितः शरावः यः घटस्य मुखम् आच्छादयति सः एकदा घटम् अपृच्छत् - मित्र घट! मम (ii) ______ एकः प्रश्नः अस्ति। इदानीं (iii) ______ अस्ति। यत् किमपि पात्रं यदा भवतः समीपम् आगच्छति तदा भवान् तत्पात्रं (iv) ______ जलेन परिपूरयति। तानि सर्वाणि पात्राणि जलं स्वीकृत्य तृप्तानि भवन्ति। भवन्तम् एकाकिनं विहाय दूरं गच्छन्ति। (v) ______ स्वार्थपरायणानि सन्ति, तथापि भवान् तेभ्यः शीतलं जलं प्रदाय तेषु (vi) ______ करोति। अहं सर्वदा भवता सह एव तिष्ठामि कदापि भवन्तं (vii) ______ कुत्रापि न गच्छामि परन्तु भवान् मह्यं कदापि बिन्दुमितम् अपि जलं न यच्छति, किमर्थम्? तदा स्मितं कुर्वन् घटः (viii) ______ अवदत् - एतस्य कारणं भवतः प्रकृतिः अस्ति। तानि सर्वाणि पात्राणि शिरः अवनम्य जलं याचन्ते अहञ्च तेषाम् इच्छां पूरयामि परं भवान् तु सर्वदा मम (ix) ______ एव तिष्ठति तर्हि कथम् अहं भवते जलं दद्याम्? भवान् अपि शिरः अवनम्य (x) ______ याचनां करोतु अहं भवन्तम् अपि निराशं न करिष्यामि। |
मञ्जूषा
| त्यक्त्वा, घर्मकालः, शिरसि, शीतलेन, मनसि, अनुग्रहम्, घटस्य, मन्दस्वरेण, तानि, जलार्थम्। |
रिकाम्या जागा भरा
Advertisements
उत्तर
| एकः मृत्तिका-घटः आसीत्। (i) घटस्य उपरि स्थितः शरावः यः घटस्य मुखम् आच्छादयति सः एकदा घटम् अपृच्छत् - मित्र घट! मम (ii) मनसि एकः प्रश्नः अस्ति। इदानीं (iii) घर्मकालः अस्ति। यत् किमपि पात्रं यदा भवतः समीपम् आगच्छति तदा भवान् तत्पात्रं (iv) शीतलेन जलेन परिपूरयति। तानि सर्वाणि पात्राणि जलं स्वीकृत्य तृप्तानि भवन्ति। भवन्तम् एकाकिनं विहाय दूरं गच्छन्ति। (v) तानि स्वार्थपरायणानि सन्ति, तथापि भवान् तेभ्यः शीतलं जलं प्रदाय तेषु (vi) अनुग्रहं करोति। अहं सर्वदा भवता सह एव तिष्ठामि कदापि भवन्तं (vii) त्यक्त्वा कुत्रापि न गच्छामि परन्तु भवान् मह्यं कदापि बिन्दुमितम् अपि जलं न यच्छति, किमर्थम्? तदा स्मितं कुर्वन् घटः (viii) मन्दस्वरेण अवदत् - एतस्य कारणं भवतः प्रकृतिः अस्ति। तानि सर्वाणि पात्राणि शिरः अवनम्य जलं याचन्ते अहञ्च तेषाम् इच्छां पूरयामि परं भवान् तु सर्वदा मम (ix) शिरसि एव तिष्ठति तर्हि कथम् अहं भवते जलं दद्याम्? भवान् अपि शिरः अवनम्य (x) जलार्थं याचनां करोतु अहं भवन्तम् अपि निराशं न करिष्यामि। |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
