मराठी

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु। सदुपयोगः ऋतिका तव वस्त्राणि तु अतीव शोभन्ते। मञ्जुला ..... ऋतिका तव पार्श्वे कति परिधानानि सन्ति?

Advertisements
Advertisements

प्रश्न

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

सदुपयोगः
ऋतिका तव वस्त्राणि तु अतीव शोभन्ते।
मञ्जुला .....
ऋतिका तव पार्श्वे कति परिधानानि सन्ति?
मञ्जुला बहूनि नूतनपरिधानानि वर्तन्ते मम समीपे तथापि अहं विशेषावसरेषु नवीनपरिधानानां क्रयं करोमि।
ऋतिका .....
मञ्जुला अत्र-तत्र यदा-कदा अवसरेषु धारयिष्यामि। तव समीपे कति परिधानानि?
ऋतिका .....
मञ्जुला पुस्तकैः किं करिष्यसि?
ऋतिका पुस्तकानि एव अस्माकं मित्राणि सन्ति। अद्यत्वे दिल्लीनगरे पुस्तकमेलापकं वर्तते। तत्र गत्वा पुस्तकानि एव क्रेष्यामि।
मञ्जुला .....
ऋतिका परिधानेभ्यः किं भवति? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति। पुस्तकानि तु आजीवनम् उपकुर्वन्ति।
मञ्जुला .....

मञ्जूषा

  • किं पुस्तकैः परिधानस्य स्थानं नीयते?
  • किं करिष्यसि एभिः परिधानैः?
  • साधु। एतत् तु मया न चिन्तितम्। अद्य आरभ्य अहम् अपि धनस्य सदुपयोगं पुस्तकेभ्यः एव करिष्यामि न तु परिधानेभ्यः।
  • मम समीपे केवलं पञ्च परिधानानि सन्ति। अहं तैः सन्तुष्टा अस्मि। अहं तु पुस्तकप्रिया अस्मि।
  • अये! अद्य तु मम जन्मदिवसः, एतत् परिधानं तु मम माता मह्यं क्रीतवती।
लेखन कौशल्य
Advertisements

उत्तर

सदुपयोगः
ऋतिका तव वस्त्राणि तु अतीव शोभन्ते।
मञ्जुला अये! अद्य तु मम जन्मदिवसः, एतत् परिधानं तु मम माता मह्यं क्रीतवती।
ऋतिका तव पार्श्वे कति परिधानानि सन्ति?
मञ्जुला बहूनि नूतनपरिधानानि वर्तन्ते मम समीपे तथापि अहं विशेषावसरेषु नवीनपरिधानानां क्रयं करोमि।
ऋतिका किं करिष्यसि एभिः परिधानैः?
मञ्जुला अत्र-तत्र यदा-कदा अवसरेषु धारयिष्यामि। तव समीपे कति परिधानानि?
ऋतिका मम समीपे केवलं पञ्च परिधानानि सन्ति। अहं तैः सन्तुष्टा अस्मि। अहं तु पुस्तकप्रिया अस्मि।
मञ्जुला पुस्तकैः किं करिष्यसि?
ऋतिका पुस्तकानि एव अस्माकं मित्राणि सन्ति। अद्यत्वे दिल्लीनगरे पुस्तकमेलापकं वर्तते। तत्र गत्वा पुस्तकानि एव क्रेष्यामि।
मञ्जुला किं पुस्तकैः परिधानस्य स्थानं नीयते?
ऋतिका परिधानेभ्यः किं भवति? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति। पुस्तकानि तु आजीवनम् उपकुर्वन्ति।
मञ्जुला साधु। एतत् तु मया न चिन्तितम्। अद्य आरभ्य अहम् अपि धनस्य सदुपयोगं पुस्तकेभ्यः एव करिष्यामि न तु परिधानेभ्यः।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 20: संवादलेखनम्‌ - संवादलेखनम्‌ [पृष्ठ १३५]

APPEARS IN

सीबीएसई Sanskrit Manika Dvitiyo Bhag Class 10
पाठ 20 संवादलेखनम्‌
संवादलेखनम्‌ | Q 6. | पृष्ठ १३५
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×