निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु। सदुपयोगः ऋतिका तव वस्त्राणि तु अतीव शोभन्ते। मञ्जुला ..... ऋतिका तव पार्श्वे कति परिधानानि सन्ति?
Advertisements
Advertisements
प्रश्न
निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।
| सदुपयोगः | |
| ऋतिका | तव वस्त्राणि तु अतीव शोभन्ते। |
| मञ्जुला | ..... |
| ऋतिका | तव पार्श्वे कति परिधानानि सन्ति? |
| मञ्जुला | बहूनि नूतनपरिधानानि वर्तन्ते मम समीपे तथापि अहं विशेषावसरेषु नवीनपरिधानानां क्रयं करोमि। |
| ऋतिका | ..... |
| मञ्जुला | अत्र-तत्र यदा-कदा अवसरेषु धारयिष्यामि। तव समीपे कति परिधानानि? |
| ऋतिका | ..... |
| मञ्जुला | पुस्तकैः किं करिष्यसि? |
| ऋतिका | पुस्तकानि एव अस्माकं मित्राणि सन्ति। अद्यत्वे दिल्लीनगरे पुस्तकमेलापकं वर्तते। तत्र गत्वा पुस्तकानि एव क्रेष्यामि। |
| मञ्जुला | ..... |
| ऋतिका | परिधानेभ्यः किं भवति? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति। पुस्तकानि तु आजीवनम् उपकुर्वन्ति। |
| मञ्जुला | ..... |
मञ्जूषा
|
लेखन कौशल
Advertisements
उत्तर
| सदुपयोगः | |
| ऋतिका | तव वस्त्राणि तु अतीव शोभन्ते। |
| मञ्जुला | अये! अद्य तु मम जन्मदिवसः, एतत् परिधानं तु मम माता मह्यं क्रीतवती। |
| ऋतिका | तव पार्श्वे कति परिधानानि सन्ति? |
| मञ्जुला | बहूनि नूतनपरिधानानि वर्तन्ते मम समीपे तथापि अहं विशेषावसरेषु नवीनपरिधानानां क्रयं करोमि। |
| ऋतिका | किं करिष्यसि एभिः परिधानैः? |
| मञ्जुला | अत्र-तत्र यदा-कदा अवसरेषु धारयिष्यामि। तव समीपे कति परिधानानि? |
| ऋतिका | मम समीपे केवलं पञ्च परिधानानि सन्ति। अहं तैः सन्तुष्टा अस्मि। अहं तु पुस्तकप्रिया अस्मि। |
| मञ्जुला | पुस्तकैः किं करिष्यसि? |
| ऋतिका | पुस्तकानि एव अस्माकं मित्राणि सन्ति। अद्यत्वे दिल्लीनगरे पुस्तकमेलापकं वर्तते। तत्र गत्वा पुस्तकानि एव क्रेष्यामि। |
| मञ्जुला | किं पुस्तकैः परिधानस्य स्थानं नीयते? |
| ऋतिका | परिधानेभ्यः किं भवति? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति। पुस्तकानि तु आजीवनम् उपकुर्वन्ति। |
| मञ्जुला | साधु। एतत् तु मया न चिन्तितम्। अद्य आरभ्य अहम् अपि धनस्य सदुपयोगं पुस्तकेभ्यः एव करिष्यामि न तु परिधानेभ्यः। |
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
