निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु। उद्यमः (सर्वेशः सोमेशः च विद्यालयस्य अल्पाहारगृहे उपविष्टौ। एकादशवर्षीयः मनोजः आगत्य चायपात्राणि स्थापयति।)
Advertisements
Advertisements
प्रश्न
निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।
| उद्यमः | |
| (सर्वेशः सोमेशः च विद्यालयस्य अल्पाहारगृहे उपविष्टौ। एकादशवर्षीयः मनोजः आगत्य चायपात्राणि स्थापयति।) | |
| सर्वेशः | भो! कतिदिनेभ्यः अत्र कार्यं करोषि? पूर्वं तु न दृष्टः? |
| मनोजः | ..... |
| सोमेशः | एवम्। सप्ताहः जातः! कुतः आगतः? |
| मनोजः | ..... |
| सोमेशः | अध्ययनं त्यक्त्वा किमर्थं पाटलिपुत्रतः अत्र आगतः? |
| मनोजः | किं करोमि! मन्दभाग्यस्य मम पिता दुष्टैः पूर्वं हतः। |
| ....., अनाथः अहं कथं निर्वाहं कुर्याम्? | |
| सर्वेशः | अहो! महदुःखम्, परं पठनं न वाञ्छसि किम्? |
| मनोजः | ..... |
| सोमेशः | एवं हतोत्साही मा भव। विद्यालये रात्रौ कक्षा भवति। किमपि पठितं न वा? |
| मनोजः | केवलं द्वितीयकक्षा उत्तीर्णा। |
| सर्वेशः | सायं षड्वादने आगच्छतु। यदि मनोयोगेन पठिष्यसि तर्हि छात्रवृत्तिमपि प्राप्स्यसि। |
| मनोजः | ..... |
| सोमेशः | सर्वं तव अधीनम् एव। उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः। |
मञ्जूषा
|
लेखन कौशल्य
Advertisements
उत्तर
| उद्यमः | |
| (सर्वेशः सोमेशः च विद्यालयस्य अल्पाहारगृहे उपविष्टौ। एकादशवर्षीयः मनोजः आगत्य चायपात्राणि स्थापयति।) | |
| सर्वेशः | भो! कतिदिनेभ्यः अत्र कार्यं करोषि? पूर्वं तु न दृष्टः? |
| मनोजः | श्रीमन्! सप्ताहः एव जातः। |
| सोमेशः | एवम्। सप्ताहः जातः! कुतः आगतः? |
| मनोजः | श्रीमन्! पाटलिपुत्रतः आगतोऽस्मि। |
| सोमेशः | अध्ययनं त्यक्त्वा किमर्थं पाटलिपुत्रतः अत्र आगतः? |
| मनोजः | किं करोमि! मन्दभाग्यस्य मम पिता दुष्टैः पूर्वं हतः। |
| इदानीं मम माता अपि दिवङ्गता।, अनाथः अहं कथं निर्वाहं कुर्याम्? | |
| सर्वेशः | अहो! महदुःखम्, परं पठनं न वाञ्छसि किम्? |
| मनोजः | अवश्यम् इच्छामि। परं शिक्षा नास्ति मे भाग्ये। |
| सोमेशः | एवं हतोत्साही मा भव। विद्यालये रात्रौ कक्षा भवति। किमपि पठितं न वा? |
| मनोजः | केवलं द्वितीयकक्षा उत्तीर्णा। |
| सर्वेशः | सायं षड्वादने आगच्छतु। यदि मनोयोगेन पठिष्यसि तर्हि छात्रवृत्तिमपि प्राप्स्यसि। |
| मनोजः | बहु उपकृतम्। ईश्वरः भवते सर्वां सिद्धिं प्रदास्यति। |
| सोमेशः | सर्वं तव अधीनम् एव। उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः। |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
