हिंदी

निम्नलिखितं विषयम्‌ अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत। ‘मम जननी’ मञ्जूषा परिश्रमम्‌, स्निह्यति, एकाकी, सर्वदा, प्राक्‌, उत्तिष्ठति,

Advertisements
Advertisements

प्रश्न

निम्नलिखितं विषयम्‌ अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत।

‘मम जननी’

मञ्जूषा

परिश्रमम्‌, स्निह्यति, एकाकी, सर्वदा, प्राक्‌, उत्तिष्ठति, गृहकार्यम्‌, एकाकी, भोजनम्‌, पालयति, पचति, मयि, करोति, आदर्शरूपेण।
लेखन कौशल
Advertisements

उत्तर

‘मम जननी’

मम जननी अस्माकं परिवारस्य आधाराशिला अस्ति। सा सर्वदा प्रातः सूर्योदयात् प्राक् उत्तिष्ठति ईशवन्दनं च करोति। ततः परं सा गृहस्य सर्वाणि कार्याणि सम्पादयति। सा सम्पूर्णं गृहकार्यम् अत्यन्तं परिश्रमेण करोति। यदा गृहे अन्यः कोऽपि न भवति, तदा सा एकाकी एव सर्वं प्रबन्धं करोति। मम माता अस्माकं कृते स्वास्थ्यकरं मधुरं च भोजनम् पचति। सा सम्पूर्णं परिवारं स्नेहसूत्रेण बध्नाति, माम् च सदा संस्कारैः पालयति। सा मयि अत्यधिकं स्निह्यति। मम कष्टकाले सा सदा मम साहाय्यं करोति। सा मम जीवने एकस्य आदर्शरूपेण अस्ति। सत्यमेव कथ्यते यत् जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Set 4

APPEARS IN

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×