हिंदी

मञ्जूषात: उचितान् शब्दान् चित्वा रिक्तस्थानानि पूरयित्वा चित्रपटवर्णनं पुनर्लिखत। आधुनिककाले ______ मनांसि आकृष्टवान् मराठीचित्रपट: नाम सैराट इत्येव। - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषात: उचितान् शब्दान् चित्वा रिक्तस्थानानि पूरयित्वा चित्रपटवर्णनं पुनर्लिखत।

आधुनिककाले ______ मनांसि आकृष्टवान् मराठीचित्रपट: नाम सैराट इत्येव। सैराट इति मराठीशब्दस्य अर्थ: ‘स्वैरम्’, ‘अनिर्बन्धम्’ इति। 

महाविद्यालये पठन्तौ युवतीयुवकौ ______ अनुरक्तौ। किन्तु तयो: विवाह: जातिभेदकारणात् ______ न अनुमत:। तयो: परिवारयो: वित्तीयस्तरौ अपि भिन्नौ। अत: उभौ गृहाभ्यां पलायनं कृत्वा ______  प्रान्तं व्रजत:। उपजीविकार्थं सङ्घर्षं कृत्वा सुखेन जीवनं यापयतो: तयो: अपत्यलाभ: भवति। किन्तु मिथ्याप्रतिष्ठया कन्याया: ______  तत्रागत्य उभयो: हत्यां कुर्वन्ति। ______ अपि अयं चित्रपट: भारते सर्वत्र लोकप्रिय: जातः। आधुनिककाले अपि भारतदेशे जातिभेद: कियान् गहन: विनाशक: च इत्यस्य यथार्थ चित्रणं कृतम्। अद्यावधि ______ भारतीयभाषासु अस्य चित्रान्तरणं सञ्जात्तम्।
जातिभेद: ______ इति अस्य चित्रपटस्य सन्देश:। अस्य गीतानि अपि अतीव श्रवणीयानि।

(गृहजनै:, परिवारजना:, शोकान्त:, परस्परम्, षट्सु, भारतीययुवकानां, दूरवर्तिनं, शोककारक:)

रिक्त स्थान भरें
Advertisements

उत्तर

आधुनिककाले भारतीययुवकानां मनांसि आकृष्टवान् मराठीचित्रपट: नाम सैराट इत्येव। सैराट इति मराठीशब्दस्य अर्थ: ‘स्वैरम्’, ‘अनिर्बन्धम्’ इति।
महाविद्यालये पठन्तौ युवतीयुवकौ परस्परम् अनुरक्तौ। किन्तु तयो: विवाह: जातिभेदकारणात् गृहजनै: न अनुमत:। तयो: परिवारयो: वित्तीयस्तरौ अपि भिन्नौ। अत: उभौ गृहाभ्यां पलायनं कृत्वा दूरवर्तिनं प्रान्तं व्रजत:। उपजीविकार्थं सङ्घर्षं कृत्वा सुखेन जीवनं यापयतो: तयो: अपत्यलाभ: भवति। किन्तु मिथ्याप्रतिष्ठया कन्याया: परिवारजना: तत्रागत्य उभयो: हत्यां कुर्वन्ति। शोकान्त: अपि अयं चित्रपट: भारते सर्वत्र लोकप्रिय: जातः। आधुनिककाले अपि भारतदेशे जातिभेद: कियान् गहन: विनाशक: च इत्यस्य यथार्थ चित्रणं कृतम्। अद्यावधि षट्सु भारतीयभाषासु अस्य चित्रान्तरणं सञ्जात्तम्। जातिभेद: शोककारक: इति अस्य चित्रपटस्य सन्देश:। अस्य गीतानि अपि अतीव श्रवणीयानि।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Official Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×