हिंदी

Sanskrit Official Question Paper 2025-2026 HSC Commerce (English Medium) 12th Standard Board Exam Question Paper Solution

Advertisements
Sanskrit [Official Question Paper]
Marks: 80 Maharashtra State Board
HSC Commerce (English Medium)
HSC Science (General)
HSC Arts (English Medium)
HSC Arts (Marathi Medium)
HSC Commerce (Marathi Medium)

Academic Year: 2025-2026
Date & Time: 13th February 2026, 11:00 am
Duration: 3h
Advertisements

सूचना:

  1. सर्वासु कृतिषु वाक्यानां पुनर्लेखनम्‌ आवश्यकम्‌ ।
  2. थासूचनम्‌ आकलनकृतयः, व्याकरणकृतयः आरेखितव्याः
  3. आकृतीनाम्‌ आरेखनं मपिलेखन्या कर्तव्यम्‌।
  4. रिक्तस्थापूरणे युज्यमानाः शब्दाः अधोरेखितव्याः 

प्रथमः विभागः - सुगमसंस्कृतम्‌। [6]
[3]१. (अ)
[1]१. (अ) (१)

चित्रं दुष्ट्वा व्यावहारिक सूचनाः संस्कृतभाषया लिखत।

Concept: undefined - undefined
Chapter:
[1]१. (अ) (२)

चित्रं दुष्ट्वा व्यावहारिक सूचनाः संस्कृतभाषया लिखत।

Concept: undefined - undefined
Chapter:
[1]१. (अ) (३)

चित्रं दुष्ट्वा व्यावहारिक सूचनाः संस्कृतभाषया लिखत।

Concept: undefined - undefined
Chapter:
[3]१. (ब)

व्यावहारिकशब्दमञ्जूषातः शब्दं चित्वा उचित स्तम्भे लिखत। (८ तः ६) 

शिक्षणम् नाट्यम् क्रीडा
     

(रङ्गसूचना, शोध-निबन्धः, भेरी, मोक्षपटः, वीणा, सूत्रधारः, विद्वत्सभा, जलतरणम्‌)

Concept: undefined - undefined
Chapter:
द्वितीयः विभागः - पद्यम्‌। [12]
(अवबोधनम्‌, शब्दज्ञानम्‌, पृथक्करणम्‌, अन्वयपूर्तिः, सरलार्थः)
[4]२. (अ)

पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।   

(१) अवबोधनम्‌। (३ तः २)   (2) 

(i) उचितं वाक्यं चित्वा वाक्यं पुनर्लिखत।

कविः दारिद्रयं नमति, यतः - ............।

(अ) दारिद्रयं नाम काचिद्‌ देवता।

(ब) दारिद्रया ______ सः सिद्धः जातः।

(ii) पूर्णवाक्येन उत्तरत।

का कौमारं वहति?

(iiiरेखाङ्कितं पदम् आधृत्य प्रश्ननिर्माणं कुरुत।

तृणात् तूल: लघु:।

तृणाल्लघुतरस्तूलस्तूलादपि च याचकः। 

वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति॥

भो दारिद्रय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः। 

पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन॥ 

अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम्‌। 

सद्भ्यो न रोचते साऽसन्तोऽप्यस्यै न रोचन्ते॥ 

द्वन्द्वोऽहं द्विगुरप्यहं मद्गेहे नित्यमव्ययीभावः। 

तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहि:॥

(२) पृथक्करणम्‌।   (2)

जालरेखाचित्रं पूरयत।

Concept: undefined - undefined
Chapter:
[4]२. (ब)

पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।

(१) अवबोधनम्‌। (३ तः २)   (2)

(i) चतुष्कोणं पूरयत।

कंसबन्धनगृहात्‌ पलायितः अर्भकः .......। 

(ii) पूर्णवाक्येन उत्तरत।

वीरसावरकरस्य वाहिन्याः नाम किम्‌?

(iii) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यं लिखत। 

विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्‌।’

वीर-सावरकरस्य वाहिनी ‘मोरिया’ समनुदिश्य भारतम्।

प्रस्थिता विधृतसत्त्वधारिणी व्याघ्रिकेव निजगह्वरं प्रति॥

सागरः स्तिमित आस सानिलः केवलं द्वितयमेव जङ्गमम्‌। 

वीर-सावरकरस्य वाहिनी नित्यदक्षमथ तस्य मानसम्‌॥

“कंसबन्धनगृहात्‌ पलायितोऽर्भकश्च निशि देवकीसुतः। 

दैवतं निखिलराष्ट्रवादिनां श्रीशिवाजिरपि शत्रुबन्धनात्‌॥ 

बन्धने न हि मया विपत्स्यतेऽहं करोमि न चिरात्‌ पलायनम्‌।”

‘मोरिया’ सततगामिनी दिनैर्‌ मारसेलिसमवाप सप्तभिः॥

वीचिविग्रहकरस्य सागरे प्राणहानिरपि मे वरं, न तु।

न्यायनाट्यकृतशूलरोपणं स्यात्‌ कदाचिदिति तेन चिन्तितम्‌॥

(२) शब्दज्ञानम्‌। (३ तः २)   (2)

(i) सन्धिविग्रहं कुरुत।

प्राणहानिरपि - ....... + .......।

(ii) रेखाङ्कितनामस्थाने एतद् सर्वनाम प्रयुज्य वाक्यं पुनर्लिखत।

बन्धने मया न विपत्स्यते। 

(iii) गद्यांशतः विरुद्धार्थकं शब्दं चिनुत।

१) स्थिरम् × .........।

२) मित्रम् × .........।

Concept: undefined - undefined
Chapter:
[4]२. (क)

पद्यांशं पठित्वा अन्वयपूर्ति कुरुत अथवा माध्यमभाषया सरलार्थं लिखत।

पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरः?

नाहं मत्सरिणी, न चापि चपला नैवास्ति मूर्खे रतिः।

मूर्खेभ्यो द्रविणं ददामि नितरां तत्कारणं श्रूयतां

विद्वान्सर्वजनेषु पूजिततमो मूर्खस्य नान्या गतिः॥

अन्वयः (भक्त: वदति) पद्मे, मूढजने ...... ददासि, ...... मत्सर: किम्?
(लक्ष्मी वदति), “अहं न ......, न च अपि चपला, न एव (मम) ....... रति: अस्ति। (अहं) ...... नितरां द्रविणं ......, तत्कारणम् श्रूयताम्। ...... विद्वान् पूजिततम:, मूर्खस्य ...... गति: न।”

Concept: undefined - undefined
Chapter:
तृतीयः विभागः - गद्यम्‌। [9]
(अवबोधनम्‌, शब्दज्ञानम्‌, पृथक्करणम्‌, स्पष्टीकरणम्‌)
[4]३. (अ)

गद्यांशं पठित्वा निर्दिष्टे: कृती कुरुत।

(१) अवबोधनम्। (३ त: २)   (2)

राजा कीदृशौ अनुग्रहपरिहारौ वर्जयेत्?

(ii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।

निवृत्तपरिहारान् मित्रमिवानुगृह्णीयात्।

(iii) उचितं शब्दं चित्वा चतुष्कोणं पूरयत।

सस्यादिकं यथाकालं गृह्णाति स: − .......

         करदेभ्यः कृतक्षेत्राणि प्रयच्छेत्। अकृतानि कर्तृभ्यो नादेयानि। अकृषताम् आच्छिद्य अन्येभ्यः प्रयच्छेत्। ग्रामभृतकवैदेहका वा कृषेयुः। धान्य-पशु-हिरण्यैः चैतान् अनुगृह्णीयात्। तान्यनु सुखेन दद्युः। अनुग्रहपरिहारौ चैतेभ्यः कोषवृद्धिकरौ दद्यात्, कोषोपघातकौ वर्जयेत्। अल्पकोषो हि राजा पौरजानपदानेव ग्रसते। निवेशसमकालं यथागतकं वा परिहारं दद्यात्। निवृत्तपरिहारान् पितेवानुगृह्णीयात्।

         सीताध्यक्ष: सर्वधान्य-पुष्प-फल-शाक-कन्दमूल-वाल्लिक्य-क्षौम-कार्पासबीजानि यथाकालं गृह्णीयात। बहुहलपरिकृष्टायां भूमौ (बीजानि) वापयेत्। यथाकालं च सस्यादि जातं जातं प्रवेशयेत्। न क्षेत्रे स्थापयेत् किञ्चित् पलालमपि पण्डित:।
         दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा। उपहतान् पितेवानुगृह्णीयात्। बाल-वृद्ध-व्यसन्यनाथांश्च राजा बिभृयात्।

(२) शब्दज्ञानम्। (३ त: २)   (2)

(i) गद्यांशतः विशेष्यं चित्वा लिखत।

(क) अल्पकोषः ........

(ख) बहुहलपरिकृष्टायां ........

(ii) सन्धिविग्रहं कुरुत।

तान्यनु ......... + .........।

(iii) गद्यांशतः पूर्वकालवाचक - धातुसाधित - अव्यये चित्वा लिखत।

  1. ..........।
  2. ..........।

अथवा

(२) पृथक्करणम्‌।   (2)

जालरेखाचित्रं पूरयत।

Concept: undefined - undefined
Chapter:
[5]३. (ब) | माध्यमभाषया ससन्दर्भं स्पष्टीकुरुत। (२ तः १)
[5]३. (ब) (१)

माध्यमभाषया ससन्दर्भं स्पष्टीकुरुत।

ऋतुमनुसृत्य प्रसाधनं करणीयम्।

Concept: undefined - undefined
Chapter:
[5]३. (ब) (२)

माध्यमभाषया ससन्दर्भं स्पष्टीकुरुत।

अपि भारतीयभाषास्थितानां शब्दानां निर्वचनं कर्तुं शक्यते?

Concept: undefined - undefined
Chapter:
चतुर्थः विभागः - नाट्यकलशः। [13]
(अवबोधनम्‌, शब्दज्ञानम्‌, पृथक्करणम्‌, स्पष्टीकरणम्‌}
[4]४. (अ)

नाट्यांशं पठित्वा निर्दिष्टे कृती कुरुत।

(१) अवबोधनम् । (३ तः २)   (2)

(i) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

तापसीभ्यां राजा रक्षाकरण्डकग्रहणात् प्रतिषिद्धः, यतः − ........

(क) रक्षाकरण्डकं कण्टकितम्।

(ख) अपराजिता ओषधिः सर्पः भूत्वा राजानं दशेत् इति तयोः मनसि भीतिः।

(ii) रेखाङ्कितं पदम् आधृत्य प्रश्ननिर्माणं कुरुत।

इदं सिंहशावकविमर्दात् परिभ्रष्टम्।

(iii) पूर्णवाक्येन उत्तरं लिखत।

तापसी बालकाय क्रीडनकरूपेण किं यच्छति?

  (प्रविश्य मृण्मयूरहस्ता।)
प्रथमा  सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व।
बाल:  (सदृष्टिक्षेपम्) कुत्र वा मम माता?
राजा  (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या? सन्ति पुनर्नामधेयसादृश्यानि।
सर्वदमन: रोचते मे एष भद्रमयूर:। (इति क्रीडनकमादत्ते।)
प्रथमा (विलोक्य सोद्वेगम्) अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।
राजा अलमलमावेगेन। नन्विदमस्य सिंहशावकविमर्दात् परिभ्रष्टम्। (इत्यादातुमिच्छति।)
उभे मा खल्विदलमवलम्ब्य। कथं गृहीतमनेन! (इति विस्मयात् उरोनिहितहस्ते परस्परमवलोकयत:।)
राजा किमर्थं प्रतिषिद्धा: स्म:?
प्रथमा शृणोतु महाराज:। एषाऽपराजिता नामौषधि: भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वा अपरो भूमिपतितां न गृह्णाति।
राजा अथ गृह्णाति?
प्रथमा  ततस्तं सर्पो भूत्वा दशति।
राजा
भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया?
उभे
अनेकशः। (राजा सहर्षं बालं परिष्वजते।)
सर्वदमनः 
मुञ्च माम्। मम खलु तातो दुष्यन्तः। न त्वम्।
राजा
(सस्मितम्) एष विवाद एव प्रत्याययति।

(२) शब्दज्ञानम्। (३ तः २)   (2)

(i) विशेषणविशेष्ययोः मेलनं कुरुत।

प्रत्यक्षीकृता मारीचेन
भगवता दत्ता
  विक्रिया
(ii) नाट्यांशतः पूर्वकालवाचकधातुसाधित - अव्यये चित्वा लिखत।
  1. ........
  2. ........

(iii) तृतीयाविभक्त्यन्तपदे नाट्यांशतः चित्वा लिखत।

  1. ........
  2. ........
Concept: undefined - undefined
Chapter:
[4]४. (ब)

नाट्यांशं पठित्वा निर्दिष्टे कृती कुरुत।

(१) अवबोधनम् । (३ तः २)   (2)

(i) उचितं वाक्याशं चित्वा वाक्यं पुनर्लिखत।

यमदूत: गणिकाया: प्राणहरणार्थम् .........।

(अ) अशोककोटरे सर्प: भूत्वा तिष्ठति।

(ब) अशोककोटरे मधुमक्षिका भूत्वा तिष्ठति।

(ii) उचितं शब्दं चित्वा चतुष्कोणं पूरयत।

कालसर्पस्य निर्गमनस्थानम् − .........

(iii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।

परिव्राजक: वदति - ‘अस्माभि: संन्यासिभि: शोक: करणीय:।’

  (तत: प्रविशति यमदूत:)
यमदूत:  (आत्मगतम्) यमदूतोऽहम्। क्षीणायुषां प्राणिनां प्राणान् हर्तुं यमेन प्रेषित:। उक्त: च 'गणिकाया: वसन्तसेनाया: प्राणान् अपहर' इति। इयं सा वसन्तसेना।
गणिका मधुकरिके, पश्य, दर्शनीय: अशोककिसलय:। एनं गृह्णामि। (तथा करोति)
यमदूत: अयं स काल:। यावत् सर्पो भूत्वा, अशोककोटरे स्थित्वा, दष्ट्वा विषवेगेण प्राणान् हरामि। (तथा करोति)
गणिका
हम्, केनापि दष्टाऽस्मि। (भूमौ पतति।)
सखी अज्जुके, अयं स: अशोककोटरात् निर्गत: कालसर्प:। परित्रायतां परित्रायताम्।
शाण्डिल्य: अविधा, भगवन्, परित्रायताम्। परित्यजति खलु प्राणान् एषा अज्जुका।
परिव्राजक: वासांसि जीर्णानि यथा विहाय ....
शाण्डिल्य:  अलं तत्त्वज्ञानप्रवचनेन। शीघ्रं कोऽपि उपाय: चिन्त्यताम्। हा हन्त, मृता खलु एषा। (रोदिति।)
परिव्राजक: (विचिन्त्य) शाण्डिल्य, अलं रोदनेन। अस्माभि: संन्यासिभि: न शोक: करणीय:।
शाण्डिल्य: आ: अपेहि नि:स्नेह! मन्ये, निष्फलं ते योगसामर्थ्यं यदि अस्या: शरीरे पुन: प्राणसञ्चारं कारयितुं न शक्नोषि।
परिव्राजक: 
किम् आह। मम योगसामर्थ्यं निष्फलमिति। पश्य इदानीम्। (आत्मगतम्) अस्या: गणिकाया: शरीरे मम प्राणान् स्थापयामि। (मन्त्रं पठित्वा तथा करोति)

(२) पृथक्करणम्।   (2)

(अ) क्रमेण योजयित्वा वाक्यानि पुनर्लिखत। 

  1. सर्पदंशेन गणिकाया: मृत्यु:।
  2. यमादेशेन यमदूतस्य उद्यानप्रवेश:।
  3. गणिकामृत्युकारणात् शाण्डिल्यस्य शोक:।
  4. यमदूतस्य सर्परूपधारणम्।
Concept: undefined - undefined
Chapter:
[5]४. (क) | माध्यमभाषया ससन्दर्भं स्पष्टीकुरुत। (२ तः १)
[5]४. (क) (१)

माध्यमभाषया ससन्दर्भं स्पष्टीकुरुत। 

अस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि।

Concept: undefined - undefined
Chapter:
[2.5]४. (क) (२)

माध्यमभाषया ससन्दर्भं स्पष्टीकुरुत।

न च गुरुनियोगा विचारमर्हन्ति।

Concept: undefined - undefined
Chapter:
पञ्चम: विभाग: - साहित्यपरिचय: साहित्यविशेष: च।
[8]५. | उचित विकल्पं चित्वा वाक्यं पुनर्लिखत। (१० तः ८)
[1]५. (१)

भारतविद्या नाम ______ प्राचीनेतिहास-संस्कृतविषयिणी ज्ञानशाखा।

सिंहलद्वीपस्य

कम्बोजद्वीपस्य

भारतदेशस्य

Concept: undefined - undefined
Chapter:
[1]५. (२)

______ सुवर्णकाल: इति उच्यते।

मौर्यकाल:

कुशाणकाल:

गुप्तकाल:

Concept: undefined - undefined
Chapter:
[1]५. (३)

मूर्तिविज्ञानशास्त्रे ______ मूर्तिप्रमाणं विशदीकुर्वन्ति।

पुराणानि

वेदा:

वाङ्मयदर्शनम् 

Concept: undefined - undefined
Chapter:
[1]५. (४)

डॉ. वा. वि. मिराशी महोदयेन पुराभिलेखविद्यासाहाय्येन ______ कालनिर्णय: कृत:।

अश्वघोषस्य

भवभूते:

बाणस्य

Concept: undefined - undefined
Chapter:
[1]५. (५)

प्राचीनकाले ब्राह्मी, खरोष्ठी, शारदा, ग्रन्थलिपि: इत्यादय: ______ प्रचलिता:।

लिपिभेदा:

भाषाभेदा:

लिपिग्रन्था:

Concept: undefined - undefined
Chapter:
[1]५. (६)

पुराभिलेखानां ______ प्रकारा: सन्ति।

दश

त्रय:

पञ्च 

Concept: undefined - undefined
Chapter:
Advertisements
[1]५. (७)

दानपत्रं, राजाज्ञा, प्रशस्ति: इति ______ प्रकारा:।

हस्तलिखितानां

नाणकानां

पुराभिलेखानां

Concept: undefined - undefined
Chapter:
[1]५. (८)

ऋग्वेदे ______ सन्ति।

संवादसूक्तानि

चित्रसूक्तानि

नृत्यसूक्तानि

Concept: undefined - undefined
Chapter:
[1]५. (९)

भरतमुनिना ______ सह देवदानवसङ्गरात्मकं नाटकम् इन्द्रध्वजमहोत्सवे प्रस्तुतम्।

स्वपुत्रै:

अप्सरोभि:

गन्धर्वै:

Concept: undefined - undefined
Chapter:
[1]५. (१०)

नाट्यस्य ______ अङ्गानि सन्ति।

सप्त

पञ्च

नव

Concept: undefined - undefined
Chapter:
षष्ठ: विभाग: - लेखनकौशलम्।
[16]६. | अधोनिर्दिष्टे कृती कुरुत। (३ तः २)
[8]६. (१)

मञ्जूषात: उचितान् शब्दान् चित्वा रिक्तस्थानानि पूरयित्वा चित्रपटवर्णनं पुनर्लिखत।

        आधुनिककाले ______ मनांसि आकृष्टवान् मराठीचित्रपट: नाम सैराट इत्येव। सैराट इति मराठीशब्दस्य अर्थ: ‘स्वैरम्’, ‘अनिर्बन्धम्’ इति। 

       महाविद्यालये पठन्तौ युवतीयुवकौ ______ अनुरक्तौ। किन्तु तयो: विवाह: जातिभेदकारणात् ______ न अनुमत:। तयो: परिवारयो: वित्तीयस्तरौ अपि भिन्नौ। अत: उभौ गृहाभ्यां पलायनं कृत्वा ______  प्रान्तं व्रजत:। उपजीविकार्थं सङ्घर्षं कृत्वा सुखेन जीवनं यापयतो: तयो: अपत्यलाभ: भवति। किन्तु मिथ्याप्रतिष्ठया कन्याया: ______  तत्रागत्य उभयो: हत्यां कुर्वन्ति। ______ अपि अयं चित्रपट: भारते सर्वत्र लोकप्रिय: जातः। आधुनिककाले अपि भारतदेशे जातिभेद: कियान् गहन: विनाशक: च इत्यस्य यथार्थ चित्रणं कृतम्। अद्यावधि ______ भारतीयभाषासु अस्य चित्रान्तरणं सञ्जात्तम्।
जातिभेद: ______ इति अस्य चित्रपटस्य सन्देश:। अस्य गीतानि अपि अतीव श्रवणीयानि।

(गृहजनै:, परिवारजना:, शोकान्त:, परस्परम्, षट्सु, भारतीययुवकानां, दूरवर्तिनं, शोककारक:)

Concept: undefined - undefined
Chapter:
[8]६. (२)

निमन्त्रणपत्रिकाया: आधारेण संस्कृतभाषया वृत्तान्तलेखनं कुरुत।

Concept: undefined - undefined
Chapter:
[8]६. (३) | अधोलिखितेषु एक विषयम् अधिकृत्य संस्कृतभाषया ८ - १० वाक्येषु निबन्धलेखनं कुरुत।
[8]६. (३) (i)

अधोलिखितेषु विषयम् अधिकृत्य संस्कृतभाषया ८ - १० वाक्येषु निबन्धलेखनं कुरुत।

परोपकार:।

Concept: undefined - undefined
Chapter:
[8]६. (३) (ii)

अधोलिखितेषु विषयम् अधिकृत्य संस्कृतभाषया ८ - १० वाक्येषु निबन्धलेखनं कुरुत।

महाराष्ट्रदेश:।

Concept: undefined - undefined
Chapter:
[8]६. (३) (iii)

अधोलिखितेषु विषयम् अधिकृत्य संस्कृतभाषया ८ - १० वाक्येषु निबन्धलेखनं कुरुत।

भारतविद्या।

Concept: undefined - undefined
Chapter:
सप्तम: विभाग: - भाषाभ्यास:।
[12]७. | अधोनिर्दिष्टा: कृती: कुरुत। (५ त: ४)
[3]७. (अ) | नामतालिकां पूरयत । (८ त: ६)
[1]७. (अ) (१)

नामतालिकां पूरयत।

नाम  प्रातिपदिकम् अन्तम् लिङ्गम्‌  विभक्तिः वचनम्‌
सखि सखी ------ स्त्री. सम्बोधनम् ------
Concept: undefined - undefined
Chapter:
[1]७. (अ) (२)

नामतालिकां पूरयत।

नाम  प्रातिपदिकम् अन्तम्‌  लिङ्गम्‌  विभक्तिः वचनम्‌
अम्भसि ------ सकारान्तम् ------ सप्तमी एकवचनम्
Concept: undefined - undefined
Chapter:
[1]७. (अ) (३)

नामतालिकां पूरयत।

नाम  प्रातिपदिकम् अन्तम्‌  लिङ्गम्‌  विभक्तिः वचनम्‌
पितृभि: पितृ ऋकारान्तम् ------ ------ बहुवचनम्
Concept: undefined - undefined
Chapter:
[1]७. (अ) (४)

नामतालिकां पूरयत।

नाम  प्रातिपदिकम् अन्तम्‌  लिङ्गम्‌  विभक्तिः वचनम्‌
नामनी ------ अनन्तम् नपुं. प्रथमा ------
Concept: undefined - undefined
Chapter:
[3]७. (आ) | समासतालिकां पूरयत । (८ त: ६)
[1]७. (आ) (१)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
प्रतिदिनम् -----। अव्ययीभाव:।
Concept: undefined - undefined
Chapter:
[1]७. (आ) (२)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
स्तुतिकन्या स्तुति: एव कन्या। -----।
Concept: undefined - undefined
Chapter:
[1]७. (आ) (३)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
----- कुश: च लव: च। इतरेतर द्वन्द्व:।
Concept: undefined - undefined
Chapter:
[1]७. (आ) (४)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
अकृष्या ------। नञ् तत्पुरुष:।
Concept: undefined - undefined
Chapter:
[1]७. (आ) (५)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
गदार्त: ------। तृतीया तत्पुरुष:।
Concept: undefined - undefined
Chapter:
[1]७. (आ) (६)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
पुस्तकस्था पुस्तके तिष्ठति इति। -----।
Concept: undefined - undefined
Chapter:
Advertisements
[1]७. (आ) (७)

समासतालिकां पूरयत। 

समस्तपदम् समासविग्रह: समासनाम
विन्यस्तहस्त: विन्यस्तौ हस्तौ येन स:।  ------।
Concept: undefined - undefined
Chapter:
[1]७. (आ) (८)

समासतालिकां पूरयत।

समस्तपदम् समासविग्रह: समासनाम
पञ्चवटी ------।  द्विगु समास:।
Concept: undefined - undefined
Chapter:
[3]७. (इ)
मञ्जूषातः तद्धितान्त-कृदन्तान् चित्वा उचितस्तम्भे लिखत।
तद्धितान्ताः कृदन्ताः
   

(देशीयाः, प्रसाधनम्, सौभद्रः, वृत्तिः, क्षुद्रता, नाशः, शौचम्, प्रणन्ता)

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (१)

समानार्थकशब्दं लिखत।

शरीरम्‌ - ............। 

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (२)

समानार्थकशब्दं लिखत। 

वस्त्रम् - ............। 

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (३)

समानार्थकशब्दं लिखत।

अटवी - ............। 

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (४)

समानार्थकशब्दं लिखत।

वह्निः - ............। 

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (५)

समानार्थकशब्दं लिखत।

मार्जारः - ............।

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (६)

समानार्थकशब्दं लिखत।

दर्पणः - ............। 

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (७)

समानार्थकशब्दं लिखत।

पत्नी - ............।

Concept: undefined - undefined
Chapter:
[0.5]७. (ई) (८)

समानार्थकशब्दं लिखत।

पद्मा - ............।

Concept: undefined - undefined
Chapter:
[3]७. (उ) | सूचनानुसारं परिवर्तनं कुरुत। (५ तः ३)
[1]७. (उ) (१)

सरस्वती पुनः वदति। (लङ् लकारे परिवर्तयत।)

Concept: undefined - undefined
Chapter:
[1]७. (उ) (२)

जनाः दोलोत्सवं वितन्वते। (कर्तृपदं एकवचने परिवर्तयत।)

Concept: undefined - undefined
Chapter:
[1]७. (उ) (३)
भक्तव्रजः क्षेत्रं समागच्छति विठ्ठलं भजति च। (पूर्वकालवाचक-धातुसाधित-अव्ययं योजयत।)
Concept: undefined - undefined
Chapter:
[1]७. (उ) (४)

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे।

(सति-सप्तमी-रचनां निष्कासयत।)

Concept: undefined - undefined
Chapter:
[1]७. (उ) (५)

बाणकविना पटभेदा: निरूपिता:। (‘बाणकविना’ स्थाने ‘बाणकविः’ प्रयुज्य वाक्यं पुनर्लिखत।)

Concept: undefined - undefined
Chapter:
अष्टम: विभाग: - अपठितम्।
[4]८. | माध्यमभाषया अनुवादं कुरुत। (६ तः ४)
[1]८. (१)

माध्यमभाषया अनुवादं कुरुत।

नृप: निर्धनेभ्य: अन्नं ददाति।

Concept: undefined - undefined
Chapter:
[1]८. (२)

माध्यमभाषया अनुवादं कुरुत।

कृष्ण: देवक्या: अष्टम: पुत्र:।

Concept: undefined - undefined
Chapter:
[1]८. (३)

माध्यमभाषया अनुवादं कुरुत।

तस्यै शारदायै नम:।

Concept: undefined - undefined
Chapter:
[1]८. (४)

माध्यमभाषया अनुवादं कुरुत। 

असत्यं मा वद।

Concept: undefined - undefined
Chapter:
[1]८. (५)

माध्यमभाषया अनुवादं कुरुत। 

त्वं कुत: आगतोऽसि?

Concept: undefined - undefined
Chapter:
[1]८. (६)

माध्यमभाषया अनुवादं कुरुत।

श्व: यात्रिण: तीर्थक्षेत्रं गमिष्यन्ति।

Concept: undefined - undefined
Chapter:

Other Solutions





















Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

Maharashtra State Board previous year question papers 12th Standard Board Exam Sanskrit with solutions 2025 - 2026

     Maharashtra State Board 12th Standard Board Exam question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our Maharashtra State Board 12th Standard Board Exam question paper 2026 serve as a catalyst to prepare for your Sanskrit board examination.
     Previous year Question paper for Maharashtra State Board 12th Standard Board Exam -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 12th Standard Board Exam.

How Maharashtra State Board 12th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×