हिंदी

हर्षवर्द्धनः अहो कीदृशं रमणीयम् उद्यानम्? यशोवर्द्धनः बाढम्, अतिशोभनम्। हर्षवर्द्धनः अत्र तु आम्रवृक्षाः अपि सन्ति। अहं तान् गणितवान्। अस्मिन् उपवने विंशतिः आम्रवृक्षाः सन्ति। किं त्वया गणिताः?

Advertisements
Advertisements

प्रश्न

हर्षवर्द्धनः अहो कीदृशं रमणीयम् उद्यानम्?
यशोवर्द्धनः बाढम्, अतिशोभनम्।
हर्षवर्द्धनः अत्र तु आम्रवृक्षाः अपि सन्ति। अहं तान् गणितवान्। अस्मिन् उपवने विंशतिः आम्रवृक्षाः सन्ति। किं त्वया गणिताः?
यशोवर्द्धनः मया आम्रवृक्षाः नैव गणिताः परन्तु निम्बवृक्षाणां गणना कृता। तेषां सङ्ख्या पञ्चविंशतिः अस्ति।
हर्षवर्द्धनः त्वम् उद्यानं परितः परिभ्रम्य मह्यं निवेदय, अत्र कति अशोकवृक्षाः सन्ति?
यशोवर्द्धनः श्रीमन्! अत्र पञ्चाशत् अशोकवृक्षाः सन्ति।
हर्षवर्द्धनः अहो एषः सुगन्धः कुतः आयाति?
यशोवर्द्धनः सुगन्धस्तु मयापि अनुभूयते।
हर्षवर्द्धनः पश्य, उद्यानस्य पूर्वभागे एका पुष्पवाटिका विद्यते, ततः एव समायाति सुगन्धः।
यशोवर्द्धनः तत्र चलित्वा पश्यावः। अत्र तु शताधिकाः पाटलपादपाः सन्ति। अहं पाटलपुष्पाणि गणयामि। अस्यां वाटिकायां चत्वारिंशत् विकसितानि, पञ्चत्रिंशत् च अर्द्धविकसितानि कुसुमानि सन्ति।
हर्षवर्द्धनः मित्र! यावत् त्वया पाटलपुष्पाणि गणितानि तावत् मया जपाकुसुमानि गणितानि। अत्र चतुःपञ्चाशत् जपाकुसुमानि वर्तन्ते, येषां सुगन्धः सर्वत्र प्रसरति, वातावरणं सुरभितं सुरम्यं च करोति।

उपरि-प्रदत्तं वार्तालापम् आधृत्य अङ्कान् दृष्ट्वा रिक्तस्थानानि सङ्ख्यावाचकैः पदैः पूरयत -

  1. अस्मिन् उपवने (20) ______ आम्रवृक्षाः सन्ति।
  2. उद्याने (50) ______ अशोकवृक्षाः सन्ति।
  3. वाटिकायां (40) ______ विकसितानि च अर्द्धविकसितानि कुसुमानि सन्ति।
  4. वाटिकायां (54) ______ गन्धकुसुमानि सन्ति।
  5. उद्याने (25) ______ निम्बवृक्षाः सन्ति।
रिक्त स्थान भरें
Advertisements

उत्तर

  1. अस्मिन् उपवने विंशतिः आम्रवृक्षाः सन्ति।
  2. उद्याने पञ्चाशत् अशोकवृक्षाः सन्ति।
  3. वाटिकायां चत्वारिंशत् विकसितानि, च अर्द्धविकसितानि कुसुमानि सन्ति।
  4. वाटिकायां चतुःपञ्चाशत् गन्धकुसुमानि सन्ति।
  5. उद्याने पञ्चविंशतिः निम्बवृक्षाः सन्ति।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: सङ्ख्या - सङ्ख्या [पृष्ठ १०३]

APPEARS IN

सीबीएसई Sanskrit Manika Dvitiyo Bhag Class 10
अध्याय 12 सङ्ख्या
सङ्ख्या | Q (ङ) | पृष्ठ १०३
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×