हिंदी

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्‌। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत्‌ अवदत्‌ च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्‌। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत्‌ अवदत्‌ च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्‌। तदा मया चोरलुण्ठकभयात्‌ धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान्‌, कुद्दालकान्‌ लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।”

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्गम्‌ अवरुध्य कृषिकार्यार्थं जलस्य उपयोगम्‌ अकरोत्‌। वृष्टिजलसञ्जयं कृत्वा जलव्यवस्थापनम्‌ अकरोत्‌। भूमिम्‌ उर्वरतमां कर्तु प्रायतत। तदनन्तरं तस्मिन् क्षेत्रे जनाः धान्यबीजानि अवपन्‌। स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणां बीजानां सङ्कलनं चयनं च परिश्रमेण अकरोत्‌। अनन्तरं बीजानां संस्करणं कृत्वा वपनम्‌ अकरोत्‌। पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः।

(1) अववबोधनम्‌। (4 त: 3)  3

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।  1

पृथुभूपेन स्वधनुः सज्जीकृतं यतः ______।

  1. सः शत्रुं हन्तुम्‌ इच्छति स्म।
  2. सः धनधान्यादि सर्व वस्तुजातं वसुन्धरायाः प्राप्तुम्‌ इच्छति स्म।

(ख) कः कं वदति?  1

“त्वं तु प्रजाहितदक्षः नृपः।”

(ग) एषः गद्यांश: कस्मात्‌ पाठात्‌ उद्धृत:? 1

(घ) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  1

पर्जन्यानन्तरं फलेभ्यः अङ्कुराः उद्भूताः। 

(2) शब्दज्ञानम्‌। (3 त: 2)  2

(क) गद्यांशात्‌ 2 पूर्वकालवाचक-ल्यबन्त-अव्यये चित्वा लिखत।  1

(ख) प्रश्ननिर्माणं कुरुत।  1

जनाः धान्यबीजानि अवपन्‌। 

(ग) लकारं लिखत।   1

पिता दुःशासकः वेनराजः राजधर्मस्य पालनं अकरोत्‌

(3) पृथक्करणम्‌।  2

जालेखाचित्रं पूरयत।

आकलन
Advertisements

उत्तर

(1) 

(क) 

पृथुभूपेन स्वधनुः सज्जीकृतं यतः सः धनधान्यादि सर्व वस्तुजातं वसुन्धरायाः प्राप्तुम्‌ इच्छति स्म

(ख) 

“त्वं तु प्रजाहितदक्षः नृपः।” - इति भूमिः (भूमाता) पृथुभूपं वदति।

(ग) एषः गद्यांशः “कृषि-साधनानि” इति पाठात् उद्धृतः।

(घ) पर्जन्यानन्तरं फलेभ्यः अङ्कुराः उद्भूताः। - असत्यम्‌

(2) 

(क) पूर्वकालवाचक-ल्यबन्त-अव्यये -

  1. धृत्वा
  2. कृत्वा

(ख) जनाः कानि अवपन्‌?

(ग) लङ्‌लकारः।

(3) 

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Board Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×