हिंदी

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्‌। प्रेक्षकाणाम् उत्कण्ठायाः पराकाष्ठा जाता। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्‌। प्रेक्षकाणाम् उत्कण्ठायाः पराकाष्ठा जाता। सेवकः मञ्चे त्रीणि आसनानि स्थापितवान्‌ मध्यभागे च वर्तुलाकारं पीठम्‌। अहम्‌ एकस्मिन्‌ आसने उपावेशितः। अत्रान्तरे भल्लूकवेषधारी अब्दुलः तत्र प्राप्तः। गौः अपि मञ्च समागता। ततः अस्माकं पुरतः खाद्यस्य योजना कृता। सहभोजनस्य प्रारम्भे जाते उत्तेजितैः प्रेक्षकैः आनन्देन तालिकावादनम्‌ आरब्धम्‌। पूर्वमपि व्याघ्रभल्लूकौ मानुषौ एव। तथापि सा धेनुः ताभ्यां सह कार्यक्रमं कर्तुम्‌ अभ्यस्ता आसीत्‌। अचिरादेव न इमौ परिचितौ व्याघ्रभल्लूकौ इति धेन्वा लक्षितम्। सम्भ्रमेण संशयेन च एकैकशः आवां दृष्टवती। यदा च तस्याः प्रत्ययः जातः तदा शृङ्गे उन्नम्य नौ आक्रामत्‌। अहमपि गर्जना कृत्वा तीक्ष्णदन्तान् दर्शितवान्‌। किन्तु न किञ्चिदपि भयं तस्याः। अब्दुलः तां हस्तेन ताडितवान्‌। तेन क्षुब्धा सा तम्‌ अन्वधावत्‌। भल्लूकः तदा चापल्येन पटमण्डपस्तम्भम्‌ आरूढवान्‌। इयं सर्वा क्रीडा पूर्वनियोजिता इति विचिन्तय प्रेक्षकाः अपि प्रमुदिताः। भल्लूकः निर्गतः इति क्रुद्धा सा धेनुः अधुना व्याघ्रं मां लक्ष्य कृतवती।

भीत्या अहं चतुष्पादविशिष्टं व्याघ्रत्वं विस्मृत्य द्विपादं मूलस्वरूपमाश्रितवान्‌।

(1) अवबोधनम्‌। (4 तः 3) (3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।  1

  1. अस्माकं पुरतः ______ योजना कृता। (खाद्यस्य/पेयस्य)
  2. अब्दुलः तां ______ ताडितवान्‌। (पादेन/हस्तेन)

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  1

रात्रौ दशवादने सर्कसक्रीडाया प्रारम्भः जातः।

(ग) पूर्णवाक्येन उत्तरं लिखत।  1

कैः आनन्देन तालिकावादनम्‌ आरब्धम्‌?

(घ) अमरकोषात्‌ शब्द योजयित्वा वाक्यं पुनर्लिखत।  1

गौः अपि मञ्चं समागता।

(2) शब्दज्ञानम्‌। (3 तः 2)  (2)

(क) गद्यांशात्‌ 2 षष्ठी-विभक्त्यन्त-पदे चित्वा लिखत।  1

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।  1

‘अ’ ‘आ’
वर्तुलाकारम्‌ नौ
परिचितौ पीठम्‌ 
  व्याघ्रभल्लूकौ

(ग) उत्तरपदं लिखत। 1

  1. अचिरादेव = अचिरात्‌ + ......।
  2. तथापि = तथा + ......।

(3) पृथक्करणम्‌।  2

क्रमेण योजयत।

  1. भल्लूकस्य पटमण्डपस्तम्भम्‌ आरोहणम्‌।
  2. धेनोः सम्भ्रम: आक्रमणं च।
  3. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः।
  4. सहभोजनस्य प्रारम्भः।
आकलन
Advertisements

उत्तर

(1) 

(क) 

  1. अस्माकं पुरतः खाद्यस्य योजना कृता। 
  2. अब्दुलः तां हस्तेन ताडितवान्‌।

(ख) रात्रौ दशवादने सर्कसक्रीडाया प्रारम्भः जातः। - सत्यम्‌

(ग) उत्तेजितैः प्रेक्षकैः आनन्देन तालिकावादनम्‌ आरब्धम्‌।

(घ) धेनुः अपि मञ्चं समागता।

(2) 

(क) सर्कसक्रीडायाः, प्रेक्षकाणाम्‌

(ख) 

‘अ’ ‘आ’
वर्तुलाकारम्‌ पीठम्‌ 
परिचितौ व्याघ्रभल्लूकौ

(ग) 

  1. अचिरादेव = अचिरात्‌ + एव
  2. तथापि = तथा + अपि

(3) 

(4) सहभोजनस्य प्रारम्भः।

(2) धेनोः सम्भ्रम: आक्रमणं च।

(1) भल्लूकस्य पटमण्डपस्तम्भम्‌ आरोहणम्‌।

(3) चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Board Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×