Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।
|
वीर-सावरकरस्य वाहिनी ‘मोरिया’ समनुदिश्य भारतम्। प्रस्थिता विधृतसत्त्वधारिणी व्याघ्रीकेव निजगह्वरं प्रति॥ सागरः स्तिमित आस सानिलः केवलं द्वितयमेव जङ्गमम्। वीर-सावरकरस्य वाहिनी नित्यदक्षमथ तस्य मानसम्॥ “कंसबन्धनगृहात् पलायितोऽर्भकश्च निशि देवकीसुतः। दैवतं निखिलराष्ट्रवादिनां श्रीशिवाजिरपि शत्रुबन्धनात्॥ बन्धने न हि मया विपत्स्यतेऽहं करोमि न चिरात् पलायनम्।” ‘मोरिया’ सततगामिनी दिनैर् मारसेलिसमवाप सप्तभिः॥ वीचिविग्रहकरस्य सागरे प्राणहानिरपि मे वरं, न तु। न्यायनाट्यकृतशृलरोपणं स्यात् कदाचिदिति तेन चिन्तितम्॥ |
(१) अवबोधनम्। (३ तः २) 2
(i) चतुष्कोणं पूरयत।
कंसबन्धनगृहात् पलायितः अर्भकः .......।
(ii) पूर्णवाक्येन उत्तरत।
वीरसावरकरस्य वाहिन्याः नाम किम्?
(iii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।
विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्।’
(२) शब्दज्ञानम्। (३ तः २) 2
(i) सन्धिविग्रहं कुरुत।
प्राणहानिरपि - .......+ .......।
(ii) रेखाङ्कितनामस्थाने एतद् सर्वनाम प्रयुज्य वाक्यं पुनर्लिखत।
बन्धने न मया विपत्स्यते।
(iii) पद्यांशतः विरुद्धार्थकं शब्दं चिनुत।
१) स्थिरम् ×
२) मित्रम् ×
Advertisements
उत्तर
(१)
(i) कंसबन्धनगृहात् पलायितः अर्भकः देवकीसुतः (कृष्णः)।
(ii) वीरसावरकरस्य वाहिन्याः नाम ‘मोरिया’ इति अस्ति।
(iii) विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्।’ - असत्यम्
(२)
(i) प्राणहानिरपि - प्राणहानिः + अपि।
(ii) एतस्मिन् न मया विपत्स्यते।
(iii)
१) स्थिरम् × जङ्गमम्
२) मित्रम् × शत्रुः
