हिंदी

पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।वीर-सावरकरस्य वाहिनी ‘मोरिया’ समनुदिश्य भारतम्। प्रस्थिता विधृतसत्त्वधारिणी व्याघ्रीकेव निजगह्वरं प्रति॥ सागरः स्तिमित आस सानिलः केवलं द्वितयमेव जङ्गमम्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।

वीर-सावरकरस्य वाहिनी ‘मोरिया’ समनुदिश्य भारतम्।

प्रस्थिता विधृतसत्त्वधारिणी व्याघ्रीकेव निजगह्वरं प्रति॥

सागरः स्तिमित आस सानिलः केवलं द्वितयमेव जङ्गमम्‌। 

वीर-सावरकरस्य वाहिनी नित्यदक्षमथ तस्य मानसम्‌॥

“कंसबन्धनगृहात्‌ पलायितोऽर्भकश्च निशि देवकीसुतः। 

दैवतं निखिलराष्ट्रवादिनां श्रीशिवाजिरपि शत्रुबन्धनात्‌॥ 

बन्धने न हि मया विपत्स्यतेऽहं करोमि न चिरात्‌ पलायनम्‌।”

‘मोरिया’ सततगामिनी दिनैर्‌ मारसेलिसमवाप सप्तभिः॥

वीचिविग्रहकरस्य सागरे प्राणहानिरपि मे वरं, न तु।

न्यायनाट्यकृतशृलरोपणं स्यात्‌ कदाचिदिति तेन चिन्तितम्‌॥

(१) अवबोधनम्‌। (३ तः २)   2

(i) चतुष्कोणं पूरयत।

कंसबन्धनगृहात्‌ पलायितः अर्भकः .......। 

(ii) पूर्णवाक्येन उत्तरत।

वीरसावरकरस्य वाहिन्याः नाम किम्‌?

(iii) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यं लिखत। 

विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्‌।’

(२) शब्दज्ञानम्‌। (३ तः २)   2

(i) सन्धिविग्रहं कुरुत।

प्राणहानिरपि - .......+ .......।

(ii) रेखाङ्कितनामस्थाने एतद् सर्वनाम प्रयुज्य वाक्यं पुनर्लिखत।

बन्धने न मया विपत्स्यते। 

(iii) पद्यांशतः विरुद्धार्थकं शब्दं चिनुत।

१) स्थिरम् ×

२) मित्रम् ×

आकलन
Advertisements

उत्तर

(१)

(i) कंसबन्धनगृहात्‌ पलायितः अर्भकः देवकीसुतः (कृष्णः)।

(ii) वीरसावरकरस्य वाहिन्याः नाम ‘मोरिया’ इति अस्ति।

(iii) विनायकः चिन्तयति, ‘न्यायनाट्यकृतशूलरोपणं वरम्‌।’ - असत्यम्

(२)

(i) प्राणहानिरपि - प्राणहानिः + अपि।

(ii) एतस्मिन् न मया विपत्स्यते।

(iii) 

१) स्थिरम् × जङ्गमम्
२) मित्रम् × शत्रुः

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Official Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×