हिंदी

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत: मयूरः (प्रविश्य साटृहासम्‌) सत्यं सत्यम्‌। अहमेव राष्ट्रपक्षी। को न जानाति तव ध्यानावस्थाम्‌? मौनं धृत्वा वराकान्‌ मीनान्‌

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत:

मयूरः  (प्रविश्य साटृहासम्‌) सत्यं सत्यम्‌। अहमेव राष्ट्रपक्षी। को न जानाति तव ध्यानावस्थाम्‌? मौनं धृत्वा वराकान्‌ मीनान्‌ अधिगृह्य क्रूरतया भक्षयसि। धिक्‌ त्वाम्‌! अवमानितं खलु सर्वं पक्षिकुलं त्वया।
काकः  रे सर्पभक्षक! नर्तनात्‌ अन्यत्‌ किम्‌ अपरं जानासि?
मयूरः श्रूयतां श्रूयताम्‌। मम नृत्यं तु प्रकृतेः आराधना। पश्य! चारुवर्तुलचन्द्रिका-शोभितानां मम पिच्छानाम्‌ अपूर्वं सौन्दर्यम्‌। मम केकारवं श्रुत्वा कोकिलः अपि लज्जते। मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव अहं पक्षिराजः कृतः।

(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्‌) 1

(क) बकः मौनं धृत्वा कान्‌ भक्षयति?

(ख) केन मयूरः पक्षिराजः कृतः?

(ग) कस्य नृत्यं तु प्रकृतेः आराधना?

(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्‌) 2

(क) सर्पभक्षकः कः अस्ति?

(ख) कोकिलः कस्य केकारवं श्रुत्वा लज्जते?

(ग) मयूरस्य कीदृशानाम्‌ पिच्छानाम्‌ अपूर्वं सौन्दर्यमस्ति?

(iii) निदेशानुसारम्‌ उत्तरत : (केवलं प्रश्नद्वयम्‌) 2

(क) ‘पक्षाणाम्‌’ इत्यस्य किं पर्यायपदम्‌ अत्र प्रयुक्तम्‌?

(ख) ‘लज्जते’ इति क्रियापदस्य कर्तृपदं किम्‌?

(ग) ‘वराकान्‌’ इत्यस्य विशेष्यपदं चित्वा लिखत।

आकलन
Advertisements

उत्तर

(i) 

(क) मीनान्‌

(ख) विधात्रा

(ग) मयूरस्य

(ii) 

(क) सर्पभक्षकः मयूरः अस्ति।

(ख) कोकिलः मयूरस्य केकारवं श्रुत्वा लज्जते।

(ग) मयूरस्य चारुवर्तुलचन्द्रिका-शोभितानां पिच्छानाम्‌ अपूर्वं सौन्दर्यमस्ति।

(iii) 

(क) पिच्छानाम्‌

(ख) कोकिलः

(ग) मीनान्‌

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×