Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
| भारतवर्षः अस्माकं जन्मभूमिः अस्ति। भारतदेशः संसारे प्रसिद्धः अस्ति। अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिता: च भवामः। इयं जन्मभूमिः भारतभूमिः अस्माकं मातास्ति। अस्याः महिमा वर्णयितुं न शक्यते। इयं सा भारतभूमिः अस्ति, यत्र बहवः महर्षयः देशभक्ताः महाराजाश्च अभवन्। ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम् अकुर्वन्। यदा सर्वस्मिन् जगति अविद्यायाः प्रसारः आसीत्, तदा अत्र ऋषयः वेदानां गानम् कुर्वन्ति स्म। ते विदेशान् गत्वा ज्ञानस्य प्रसारम् अकुर्वन्। अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम् अस्ति। अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- जगति कस्याः प्रसारः आसीत्?
- वयं कस्य सदा उन्नतिं कुर्याम?
- भारतवर्षः केषां जन्मभूमिः अस्ति?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 4
- अत्र (भारते) के के महापुरुषाः अभवन्?
- वयं केन पालिताः पोषिताः भवामः?
- अस्माकं किं कर्तव्यमस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) 3
- ‘देशभक्ताः’ अस्य पदस्य विशेष्यपदं गद्यांशे कि प्रयुक्तम्?
- बहवः
- महर्षयः
- महाराजाः
- अभवन्
- ‘भवामः’ क्रियायाः कर्तृपदं किम्?
- ते
- वयम्
- यूयम्
- अहम्
- गद्याशे ‘संसारे’ अस्य समानार्थकपदं कि प्रयुक्तम्?
- जगति
- भूमौ
- भारते
- समस्ते
- ‘आगत्य’ इत्यस्य विपर्ययः कः?
- यदा
- ज्ञानस्य
- अस्य
- गत्वा
आकलन
Advertisements
उत्तर
(अ)
- अविद्यायाः
- भारतवर्षस्य
- अस्माकं
(आ)
- अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्।
- अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिता: च भवामः।
- अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम।
(इ) भारतवर्षः
(ई)
- महर्षयः
- वयम्
- जगति
- गत्वा
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
