मराठी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - भारतवर्षः अस्माकं जन्मभूमिः अस्ति। भारतदेशः संसारे प्रसिद्धः अस्ति। अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिता: - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

भारतवर्षः अस्माकं जन्मभूमिः अस्ति। भारतदेशः संसारे प्रसिद्धः अस्ति। अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिता: च भवामः। इयं जन्मभूमिः भारतभूमिः अस्माकं मातास्ति। अस्याः महिमा वर्णयितुं न शक्यते। इयं सा भारतभूमिः अस्ति, यत्र बहवः महर्षयः देशभक्ताः महाराजाश्च अभवन्‌। ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम्‌ अकुर्वन्‌। यदा सर्वस्मिन्‌ जगति अविद्यायाः प्रसारः आसीत्‌, तदा अत्र ऋषयः वेदानां गानम्‌ कुर्वन्ति स्म। ते विदेशान्‌ गत्वा ज्ञानस्य प्रसारम्‌ अकुर्वन्‌। अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्‌, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम्‌ अस्ति। अस्माकं कर्तव्यमस्ति यद्‌ वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

  1. जगति कस्याः प्रसारः आसीत्‌?
  2. वयं कस्य सदा उन्नतिं कुर्याम?
  3. भारतवर्षः केषां जन्मभूमिः अस्ति?

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌) 4

  1. अत्र (भारते) के के महापुरुषाः अभवन्‌?
  2. वयं केन पालिताः पोषिताः भवामः?
  3. अस्माकं किं कर्तव्यमस्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1

(ई) यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌) 3

  1. ‘देशभक्ताः’ अस्य पदस्य विशेष्यपदं गद्यांशे कि प्रयुक्तम्‌?
    1. बहवः 
    2. महर्षयः
    3. महाराजाः 
    4. अभवन्‌
  2. ‘भवामः’ क्रियायाः कर्तृपदं किम्‌?
    1. ते
    2. वयम्‌ 
    3. यूयम्‌
    4. अहम्‌
  3. गद्याशे ‘संसारे’ अस्य समानार्थकपदं कि प्रयुक्तम्‌?
    1. जगति
    2. भूमौ
    3. भारते
    4. समस्ते
  4. ‘आगत्य’ इत्यस्य विपर्ययः कः?
    1. यदा
    2. ज्ञानस्य 
    3. अस्य
    4. गत्वा
आकलन
Advertisements

उत्तर

(अ) 

  1. अविद्यायाः
  2. भारतवर्षस्य
  3. अस्माकं

(आ) 

  1. अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्‌।
  2. अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिता: च भवामः।
  3. अस्माकं कर्तव्यमस्ति यद्‌ वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम।

(इ) भारतवर्षः

(ई) 

  1. महर्षयः
  2. वयम्‌ 
  3. जगति
  4. गत्वा
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×