हिंदी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। अग्रिमे दिने सः आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्‌। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्‌-पृथक्‌ विवरणं - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

अग्रिमे दिने सः आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्‌। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्‌-पृथक्‌ विवरणं श्रुतवान्‌। सर्वं वृत्तमवगत्य स तं निर्दोषम्‌ अमन्यत आरक्षिणं च दोषभाजनम्‌। किन्तु प्रमाणाभावात्‌ स निर्णेतुं नाशक्नोत्‌। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम्‌ आदिष्टवान्‌। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद्‌ तत्रत्यः कर्मचारी समागत्य न्यवेदयत्‌ यत्‌ इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम्‌ अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्‌।

(अ) एकपदेन उत्तरत (केवल प्रश्नद्वयम्‌) 1

(क) न्यायाधीशः कः आसीत्‌?

(ख) कस्य अभावात्‌ न्यायाधीशः निर्णेतुं नाशक्नोत्‌?

(ग) न्यायालये कः समागत्य न्यवेदयत्‌?

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्‌) 1

(क) न्यायाधीशः कौ शवं न्यायालये आनेतुमदिष्टवान्‌?

(ख) तत्रत्यः कर्मचारी समागत्य किं न्यवेदयत्‌?

(स) प्रदत्तविकल्पेभ्यः उचितम्‌ उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्‌) 3 

  1. ‘निरपराधम्‌’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
    (क) दोषभाजनम्‌
    (ख) निर्दोषम्‌
    (ग) सदोषम्‌
  2. ‘श्रुतवान्‌’ इति पदस्य कर्तुपदं किम्‌?
    (क) व्योमेशचन्द्रः
    (ख) रमेशचन्द्रः
    (ग) बंकिमचन्द्रः
  3. ‘दिने’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्‌?
    (क) अग्रिमे
    (ख) अन्येद्युः
    (ग) ततः 
  4. ‘न्यायाधीशः’ इति पदस्य किं क्रियापदं गद्यांशे प्रयुक्तम्‌?
    (क) न्यवेदयत्‌
    (ख) आदिष्टवान्‌
    (ग) स्थापितवान्‌
आकलन
Advertisements

उत्तर

(अ) 

(क) बंकिमचन्द्रः

(ख) प्रमाणाभावात्‌

(ग) कर्मचारी

(ब)

(क) न्यायाधीशः आरक्षिणम्‌ अभियुक्तं च तं शवं न्यायालये अनेतुमादिष्टवान्‌।

(ख) कर्मचारी समागत्य न्यवेदयत्‌ यत्‌ इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयम्‌ इति।

(स)

  1. निर्दोषम्‌
  2. बंकिमचन्द्रः
  3. अग्रिमे
  4. आदिष्टवान्‌
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2019-2020 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×