Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| अग्रिमे दिने सः आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्। |
(अ) एकपदेन उत्तरत (केवल प्रश्नद्वयम्) 1
(क) न्यायाधीशः कः आसीत्?
(ख) कस्य अभावात् न्यायाधीशः निर्णेतुं नाशक्नोत्?
(ग) न्यायालये कः समागत्य न्यवेदयत्?
(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्) 1
(क) न्यायाधीशः कौ शवं न्यायालये आनेतुमदिष्टवान्?
(ख) तत्रत्यः कर्मचारी समागत्य किं न्यवेदयत्?
(स) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्) 3
- ‘निरपराधम्’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) दोषभाजनम्
(ख) निर्दोषम्
(ग) सदोषम् - ‘श्रुतवान्’ इति पदस्य कर्तुपदं किम्?
(क) व्योमेशचन्द्रः
(ख) रमेशचन्द्रः
(ग) बंकिमचन्द्रः - ‘दिने’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
(क) अग्रिमे
(ख) अन्येद्युः
(ग) ततः - ‘न्यायाधीशः’ इति पदस्य किं क्रियापदं गद्यांशे प्रयुक्तम्?
(क) न्यवेदयत्
(ख) आदिष्टवान्
(ग) स्थापितवान्
आकलन
Advertisements
उत्तर
(अ)
(क) बंकिमचन्द्रः
(ख) प्रमाणाभावात्
(ग) कर्मचारी
(ब)
(क) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये अनेतुमादिष्टवान्।
(ख) कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयम् इति।
(स)
- निर्दोषम्
- बंकिमचन्द्रः
- अग्रिमे
- आदिष्टवान्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
