Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान् संस्कृतेन उत्तरत -
| मानवैः अनिवार्यत्वेन करणीयं कर्म एव कर्तव्यम् इति उच्यते। मनुष्याणां जीवने कर्तव्यपालनस्य अतीव महत्वं वर्तते। सम्यक्तया कर्तव्यपालनेनैव मानवः जीवने सर्वविधाम् उन्नतिं प्राप्नोति। कर्तव्यपालनमेव मानवानां जीवनस्य आधारोऽस्ति। कर्तव्यपालनमेव मनुष्याणाम् अपरिहार्यो धर्मोऽस्ति। संसारे अनेके तादृशाः महापुरुषाः अभवन् ये रागद्वेषादिद्वन्द्वान् अतीत्य पूर्णया निष्ठया स्वकर्तव्यपालनेन अभूतपूर्वाः सफलताः कीर्तञ्च अलभन्त। न केवलं मानवाः अपितु प्रकृतेः तत्वानि अपि स्वकर्तव्यानुसारम् आचरणं कुर्वन्ति। यथा - सूर्यः सततं तपति। वायुः अहर्निशं वाति। एषा धरा अपि प्राणिनः धारयति। जीवनं सुखमय कर्तुं मनुष्येभ्यः अनेकानि कर्तव्यानि निर्धारितानि सन्ति। मनुष्यैः तेषां पालनम् अवश्यमेव कर्तव्यम्। विद्याध्ययनम्, चरित्र-निर्माणम्, स्वदेशस्य समाजस्य च सेवा, सदाचारस्य पालनम्, परोपकारः च इत्यादीनि कर्तव्यानि सर्वैः मानवैः सत्यनिष्ठया पालनीयानि। यः मानवः कर्तव्यपरायणः भवति सः एव आत्मोन्नतिपूर्वकं समाजमपि उन्नतिपथे नयति। अतः मानवैः सर्वदा स्वकर्तव्यम् अवश्यमेव पालनीयम्। न कदापि त्याज्यम्। |
(अ) एकपदेन उत्तरत - (केवलं प्र्श्नद्वयम्) 2
- एषा धरा कान् धारयति?
- मानवः केन जीवने सर्वविधाम् उत्नतिं प्राप्नोति?
- कदापि किं न त्याज्यम्?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्र्श्नद्वयम्) 4
- कानि कर्तव्यानि सर्वैः मानवैः सत्यनिष्ठया पालनीयानि?
- मानवः जीवने सर्वविधाम् उत्नतिं कथं प्राप्नोति?
- किं कर्तव्यम् इति उच्यते?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत - 1
(ई) निर्देशानुसारम् उचितम् उत्तरं चित्वा लिखत - 3
(क) ‘अलभन्त’ इति क्रियापदस्य कर्तृपदम् अनुच्छेदे किं प्रयुक्तम्?
- तादृशाः
- अभूतपूर्वाः
- मानवाः
- महापुरुषाः
(ख) ‘कर्तव्यपरायणः’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
- परोपकारः
- मानवः
- सूर्यः
- वायुः
(ग) ‘निरन्तरम्’ इत्यस्यस्य किं पर्यायपदम् अनुच्छेदे प्रयुक्तम्?
- सततम्
- अहर्निशम्
- सम्यक्तया
- अपरिहार्यः
आकलन
Advertisements
उत्तर
(अ)
- प्राणिनः
- कर्तव्यपालनेन/कर्तव्यपालनेनैव
- स्वकर्तव्यम्
(आ)
- विद्याध्ययनम्, चरित्र-निर्माणम्, विमा स्वदेशस्य समाजस्य च सेवा, सदाचारस्य पालनम्, परोपकारः च इत्यादीनि कर्तव्यानि सर्वैः मानवैः सत्यनिष्ठया पालनीयानि।
- सम्यक्तया कर्तव्यपालनेनैव मानवः जीवने सर्वविधाम् उन्नतिं प्राप्नोति।
- मानवैः अनिवार्यत्वेन करणीयं कर्म एव कर्तव्यम् इति उच्यते।
(इ) कर्तव्यपालनम् एव धर्मः/कर्तव्यपालनस्य महत्वम्/कर्तव्यपालनम्।
(ई)
(क) महापुरुषाः
(ख) मानवः
(ग) सततम्
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
