Commerce (English Medium)
Science (English Medium)
Arts (English Medium)
Commerce (Hindi Medium)
Science (Hindi Medium)
Arts (Hindi Medium)
Academic Year: 2025-2026
Date: मार्च 2026
Advertisements
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रमुखाः प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे पञ्च खण्डाः सन्ति।
- खण्डः (क) अपठितावबोधनम् - 10 अङ्काः
- खण्डः (ख) रचनात्मककार्यम् - 10 अङ्काः
- खण्डः (ग) अनुप्रयुक्तव्याकरणम् - 15 अङ्काः
- खण्डः (घ) - (i) पठितावबोधनम् - 25 अङ्काः
(ii) संस्कृतसाहित्येतिहासपरिचयः - 10 अङ्काः - खण्डः (ङ) छन्दोऽलङ्कारपरिचयः - 10 अङ्काः
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्रपत्र पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम् ।
- प्रश्नसङ्ख्या प्रश्रपत्रानुसारम् अवश्यमेव लेखनीया ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान् संस्कृतेन उत्तरत -
| मानवैः अनिवार्यत्वेन करणीयं कर्म एव कर्तव्यम् इति उच्यते। मनुष्याणां जीवने कर्तव्यपालनस्य अतीव महत्वं वर्तते। सम्यक्तया कर्तव्यपालनेनैव मानवः जीवने सर्वविधाम् उन्नतिं प्राप्नोति। कर्तव्यपालनमेव मानवानां जीवनस्य आधारोऽस्ति। कर्तव्यपालनमेव मनुष्याणाम् अपरिहार्यो धर्मोऽस्ति। संसारे अनेके तादृशाः महापुरुषाः अभवन् ये रागद्वेषादिद्वन्द्वान् अतीत्य पूर्णया निष्ठया स्वकर्तव्यपालनेन अभूतपूर्वाः सफलताः कीर्तञ्च अलभन्त। न केवलं मानवाः अपितु प्रकृतेः तत्वानि अपि स्वकर्तव्यानुसारम् आचरणं कुर्वन्ति। यथा - सूर्यः सततं तपति। वायुः अहर्निशं वाति। एषा धरा अपि प्राणिनः धारयति। जीवनं सुखमय कर्तुं मनुष्येभ्यः अनेकानि कर्तव्यानि निर्धारितानि सन्ति। मनुष्यैः तेषां पालनम् अवश्यमेव कर्तव्यम्। विद्याध्ययनम्, चरित्र-निर्माणम्, स्वदेशस्य समाजस्य च सेवा, सदाचारस्य पालनम्, परोपकारः च इत्यादीनि कर्तव्यानि सर्वैः मानवैः सत्यनिष्ठया पालनीयानि। यः मानवः कर्तव्यपरायणः भवति सः एव आत्मोन्नतिपूर्वकं समाजमपि उन्नतिपथे नयति। अतः मानवैः सर्वदा स्वकर्तव्यम् अवश्यमेव पालनीयम्। न कदापि त्याज्यम्। |
(अ) एकपदेन उत्तरत - (केवलं प्र्श्नद्वयम्) 2
- एषा धरा कान् धारयति?
- मानवः केन जीवने सर्वविधाम् उत्नतिं प्राप्नोति?
- कदापि किं न त्याज्यम्?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्र्श्नद्वयम्) 4
- कानि कर्तव्यानि सर्वैः मानवैः सत्यनिष्ठया पालनीयानि?
- मानवः जीवने सर्वविधाम् उत्नतिं कथं प्राप्नोति?
- किं कर्तव्यम् इति उच्यते?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत - 1
(ई) निर्देशानुसारम् उचितम् उत्तरं चित्वा लिखत - 3
(क) ‘अलभन्त’ इति क्रियापदस्य कर्तृपदम् अनुच्छेदे किं प्रयुक्तम्?
- तादृशाः
- अभूतपूर्वाः
- मानवाः
- महापुरुषाः
(ख) ‘कर्तव्यपरायणः’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
- परोपकारः
- मानवः
- सूर्यः
- वायुः
(ग) ‘निरन्तरम्’ इत्यस्यस्य किं पर्यायपदम् अनुच्छेदे प्रयुक्तम्?
- सततम्
- अहर्निशम्
- सम्यक्तया
- अपरिहार्यः
Chapter:
भवान् अनिमेषः विगतशीतावकाशे संस्कृतसंवादशालायां भागं गृहीतवान्। तत्रत्यान् अनुभवान् वर्णयितुं स्वमित्रं सुधीन्द्रं प्रति पत्रमेकं प्रदत्तसङ्केतानां सहायतया संस्कृतभाषया लिखतु।
मञ्जूषा
| सस्नेहम्, प्रियमित्र, कुशली, सपरिवारम्, सर्वगतं कुशलम्, अस्मिन् शीतावकाशे, विद्यालये, आयोजनम्, प्रातःकालाद् आरभ्य, आदिनम्, संस्कृतेनैव, शयनपर्यन्तम्, व्यवहारः, सायङ्काले, प्रतिदिनम्, सांस्कृतिककार्यक्रमाणाम्, गृहीतवान्, कर्णपुरात्, संस्कृतगीतम्, अश्रावयम्, चतुर्दशदिनानि, सहजतया, सम्भाषणम्, संस्कृतेन। |
Chapter:
भवती सृष्टिः नवदिल्लीस्थे सरस्वतीविहारे निवसति। भवत्याः क्षेत्रे बहुदिनेभ्यः नगरनिगमस्य अवकरवाहनं नागच्छति। तस्मात्कारणात् रथ्यासु सर्वत्र अवकरम् एकत्रितम् अभवत्। अतः तदवकरम् उत्थापयितुं क्षेत्रे च स्वच्छताव्यवस्थां दृढीकर्तुं नगरनिगमाधिकारिणं प्रति प्रदत्तसङ्केतानां सहायतया संस्कृतभाषया पत्रमेकं लिखत।
मञ्जूषा
| सेवायाम्, निगमाधिकारिमहोदय, सविनयम्, सरस्वतीविहारे, निवसामि, रथ्यासु, मार्गेषु, अवकरम्, अवकरवाहनम्, बहुदिनेभ्यः, आवागमनम्, कठिनम्, दुर्गन्धः, प्रसरति, मशकानां प्रकोपः, रोगाणाम्, आशङ्का, यथाशीघ्रम्, विशिष्टम् अवधानम्, कश्चन व्याधिः, प्रसृतः, न स्यात्, सधन्यवादम्। |
Chapter:
प्रदत्ततथ्यानां सहायतया अधोलिखितं विषयम् अधिकृत्य पञ्चविंशतितः त्रिंशत् - शब्दात्मकम् अनुच्छेदमेकं संस्कृतेन लिखत -
विषयः - स्वस्थशरीरे एव स्वस्थमनसः वासः।
- जीवने स्वास्थ्यस्य महत्वम्
- स्वस्थं शरीरम् एव मनुष्यस्य वास्तविकी सम्पद्
- शरीरेण सह मनसः सम्बन्धः
- उभयोः आरोग्यस्य उपायाः उपसंहारश्च
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
सर्वप्रथम आर्यभट ने बताया कि पृथ्वी सूर्य के चारों ओर घूमती है।
Aryabhata was the first to state that the Earth revolves around the Sun.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
हमें वाहन सावधानी से चलाना चाहिए।
The vehicle should be driven carefully by us.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
तुम अभी बाजार जाकर सब्जी लाओ।
You go to the market now and bring vegetables.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
हमारा भारतदेश विश्वपटल पर सुशोभित हो रहा है।
Our country India is becoming famous on the world stage.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
क्या तुम सब कार्यक्रम में भाग लोगे?
Will you all attend the event?
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
आचार्यः प्राणायामेति + आदिकं स्पष्टीकृत्य एव कक्षां समापयति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
कार्यं समाप्य स्वगृहं प्रत्यागमनञ्च तस्य वैशिष्टयमासीत्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
गौरो युवा हयेन पर्वतश्रेण्युपरि गच्छति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
तया + ईप्सितं देवः प्रतिपादयति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
शूरं कण्टकमिव परिहरति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैः + गुणैः।
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
कुशाग्रबुद्धे कुशली गुरुस्ते।
कुशल + ङीप्
कुशल + णिनि
कुशल + ठक्
कुशल + शतृ
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
धिक् चपल! किम् वच् + क्तवतु असि।
उक्तवान्
उक्तम्
उक्तवत्
उक्तवती
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
अप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा।
अप्रबोध + ङीप्
अप्रबोध + तृच्
अप्रबोध + क्त
अप्रबोध + टाप्
Chapter:
प्रदतैः समुचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ स्वनेन कवलीकृतम् इव गगनतलम्।
श्वः
सहसा
उच्चैः
Chapter:
Advertisements
प्रदतैः समुचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
छात्राः योगशिक्षायाः प्रायोगिकं व्यवहारं ______ करिष्यन्ति।
श्वः
सहसा
उच्चैः
Chapter:
प्रदत्तः समुचितैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा वाक्यम् लिखत।
देदीप्यमानशरीरः समुद्रः ______ आगत्य ब्राह्मणम् अवदत्।
श्वः
सहसा
उच्चैः
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
ते उदारचित्तेन ______ (अस्मत्) क्षमां दास्यन्ति।
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
सर्वेषां प्राणिनाम् ______ (अन्न) एव प्राणधारणं भवति।
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
रे,रे, ______ (महाराज) प्रति कः क्षत्रियः?
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
धिग् ______ (जाल्म)।
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
योगः ______ (कर्मन्) कौशलम्।
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
एतेषां रत्नानां मध्ये यत् ______ (युष्मत्) रोचते तद् गृहाण।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
न विद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्रुते।
न विद्यया
अविद्या
अविद्यया
विद्या
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
स्वार्थोपपत्तिं प्रति दुर्बलाशः तमित्योवद्वरतन्तुशिष्यः।
दुर्बला आशा यस्य सः
दुर्बली आशा यस्य सः
दुर्बलः आशा यस्य सः
दुर्बल आशा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
अरुन्धती च जनकः च बालानां कौतुकं दृष्टा आनन्दितौ अभवताम्।
अरुन्धतीजनकः
अरुन्धतीजनकौ
अरुन्धतीजनकः च
अरुन्धतीजनक
Chapter:
अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत -
| एकस्मिन् दिने श्रीनायारः पत्रमेकं धृत्वा मस्तकमवनमय्य पठन् आसीत्। नेत्रतीराद् विगलिता अश्रुधारा आर्द्रीकरोति स्म पत्रस्य अर्धाधिकं भागम्। तदानीमेव तस्य कार्यालयलिपिकः श्रीदासः प्रविशति। श्रीनायारः तमुक्तवान् - अधुना मम गमनसमयः समुपागत एव। मम दायित्वहस्तान्तरणपत्रकं सज्जीकुरु। अहमधुना द्वित्राणां दिवसानां सकारणावकाशं स्वीकरिष्यामि। पुनः तदनु स्वीकरिष्यामि दीर्घावकाशम्। यदि कस्मैचिद् अज्ञातेन मया रूक्षो व्यवहारः प्रदर्शितः स्यात्, तदर्थं ते मह्यमुदारचित्तेन क्षमां प्रदास्यन्ति इति सर्वेभ्यो निवेदयतु। अनन्तरं सर्वे अश्रुलहृदयैः सौप्रस्थानिकीं ज्ञापितवन्तः। तस्य गमनस्य दिवसत्रयात्परं कार्यालये पत्रमेकमागतम्। कौतूहलवशात् श्रीदासः तत्पत्रमुद्धाटितवान्। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- श्रीनायारस्य नेत्रतीरात् का विगलिता आसीत्?
- श्रीदासः पत्रं कथम् उद्वाटितवान्?
- श्रीनायारः कति दिवसानां सकारणावकाशं इच्छति स्म?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- सर्वे अश्रुलहृदयैः किं कृतवन्तः?
- श्रीनायारः कार्यालयलिपिकं किं सज्जीकर्तुम् अकथयत्?
- श्रीनायारः सर्वेभ्यः किं निवेदयितुम् अकथयत्?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘अश्रुधारा’ इति कर्तृपदस्य क्रियापदं गद्यांशे किमस्ति?
- ‘उन्नमय्य’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘अर्धाधिकम्’ इति पदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
- ‘कौतुककारणात्’ इत्यस्य पर्यायपदं गद्यांशे किमस्ति?
Chapter:
अधोलिखितं पद्यद्वयं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
|
नियतं कुरु कर्म त्वं कर्मज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः।। न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते। न च संन्यसनादेव सिद्धिं समधिगच्छति॥ |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- कस्य शरीरयात्रा अपि न सिद्धयेत्?
- पुरुषः केवलं संन्यसनात् किं न प्राप्नोति?
- श्रीकृष्णः कीदृशं कर्म कर्तुम् आदिशति?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- कर्मणाम् अनारम्भात् किं सुनिश्चतं नास्ति?
- अकर्मणः अधिकं प्रशंसनीयं किमस्ति?
- कस्याः सिद्धतायै पुरुषः कर्म कुर्यात्?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘कुरु’ इति क्रियापदस्य कर्तृपदं श्लोके किं प्रयुक्तम्?
- ‘नियतम्’ इति विशेषणस्य विशेष्यपदं श्लोकात् चित्वा लिखत।
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘त्यागात्’ इति अर्थे श्लोके किं पदं प्रयुक्तम्?
- ‘कर्मणः’ इति पदस्य विलोमपदं श्लोके किं पदं प्रयुक्तम्?
Chapter:
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
| योगाचार्यः | अलं चिन्तया, एकैकं कृत्वा बोधयामि। |
| यमः - अहिंसासत्यास्तेयब्रह्यचर्यापरिग्रहाः यमाः। | |
| नियमः - शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः। | |
| आसनम् - स्थिरसुखमासनम्। | |
| प्राणायामः - तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः। | |
| प्रत्याहारः - स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। | |
| धारणा - देशबन्धश्चित्तस्य धारणा। | |
| ध्यानम् - तत्र प्रत्ययैकतानता ध्यानम्। | |
| समाधिः - तदेवार्थमात्रनिरर्भासं स्वरूपशून्यमिव समाधिः। | |
| (एतत्सर्वमपि योगाचार्यः श्यामपट्टे लिखित्वा बोधयति छात्राश्च स्वस्वपुस्तिकासु लिखन्ति, अवबुध्यन्ति च।) | |
| स्वप्निलः | आचार्य! योगाड्ङ्गानां नामानि तु अस्माभिः सुष्ठु ज्ञातानि अवबुद्धानि चाऽपि। साम्प्रतं योगाङ्गानां फलमपि ज्ञातुं महती उत्कण्ठा वर्तते। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- योगाचार्यः कुत्र लिखित्वा सर्वं बोधयति?
- अस्तेयं किम् अस्ति?
- छात्रैः केषां नामानि अवबुद्धानि?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- प्रत्याहारस्य लक्षणं किम् अस्ति?
- किं ज्ञातु छात्राणां महती उत्कण्ठा वर्तते?
- नियमाः के सन्ति?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘लिखन्ति’ इति क्रियापदस्य किं कर्तृपदं संवादे प्रयुक्तम्?
- ‘उत्कण्ठा’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘अधुना’ इत्यर्थे संवादे किं पदं प्रयुक्तम्?
- ‘सङ्ग्रहः’ इत्यस्य विलोमपदं संवादात् चित्वा लिखत।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शिववीरचरः निजकार्यात् न विरमति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषितः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
हितोपदेशदायिनः गुरून् अवधीरयन्तः खेदयन्ति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तीक्ष्णतरा ह्यायुधश्रेणयः शिशोः अपि दृप्तां वाचं न सहन्ते।
Chapter:
अधोलिखितस्य श्लोकस्य अन्वयं लिखत।
|
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात्। दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्॥ |
Chapter:
अधोलिखितस्य श्लोकस्य भावार्थ संस्कृतभाषया लिखत।
|
विद्यां चाविद्यां च यस्तद्वेदोभयं स ह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्रुते॥ |
Chapter:
‘शुकनासोपदेशः’ इति पाठम् आधृत्य मन्त्रिणा शुकनासेन प्रदत्तोपदेशस्य सारं सङ्केपेण संस्कृतभाषया लिखत।
Chapter:
Advertisements
कः महाकविः ‘कविकुलगुरुः’ इति उपाधिना सुविख्यातः अस्ति?
श्रीहर्षः
माघः
कालिदासः
भारविः
Chapter:
‘किरातार्जुनीयम्’ इति महाकाव्ये किरातवेषधारिणः रूपे कः वर्णितः अस्ति?
भगवान् शङ्करः
भगवान् विष्णुः
इन्द्रः
अर्जुनः
Chapter:
एतेषु किम् ऐतिहासकं काव्यं ‘पुराकल्प’ इति वर्गस्य अस्ति?
रामायणम्
विक्रमाङ्कदेवचरितम्
नवसाहसाङ्कचरितम्
महाभारतम्
Chapter:
गद्यकाव्यस्य मुख्यतः ‘कथा ______ च’ इति द्वौ भेदौ स्तः।
उचितं विकल्पं चित्वा रिक्तस्थानं पूरयत।
कविता
आख्यायिका
गद्यम्
नाटकम्
Chapter:
‘कविः हरिचन्द्रः’ कं ग्रन्थं रचितवान्?
जीवन्धरचम्पू
गोपालचम्पू
भारतचम्पू
रामायणचम्पू
Chapter:
‘मदालसाचम्पू’ इति चम्पूकाव्यस्य प्रणेता कः आसीत्?
अनन्तभट्टः
इन्द्रराजः
केशवभट्टः
त्रिविक्रमभट्टः
Chapter:
नाट्यवेदस्य विकासे अभिनयः कस्माद् वेदाद् गृहीतः?
ॠग्वेदात्
यजुर्वेदात्
सामवेदात्
अथर्ववेदात्
Chapter:
‘मध्यमव्यायोगः’ इति रूपकं कः रचितवान्?
भासः
कालिदासः
शूद्रकः
टी. गणपतिशास्त्री
Chapter:
‘अश्वघोषः’ कं नाट्यग्रन्थं रचितवान्?
मृच्छकटिकम्
मुद्राराक्षसम्
शारिपुत्रप्रकरणम्
विक्रमोर्वशीयम्
Chapter:
‘वेणीसंहारः’ इति नाटके कः रसः प्राधान्येन वर्णितः?
शृङ्गाररसः
वीररसः
करुणरसः
हास्यरसः
Chapter:
‘वसन्ततिलका’ इति छन्दसः लक्षणं किम्? तभजाजगौगः।
Chapter:
अधोलिखितश्लोकपङ्क्तिषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत।
अथ च मम स पुत्रः पाण्डवानां तु पश्चात्।
Chapter:
अधोलिखितश्लोकपङ्क्तिषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत।
पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्त्रम्।
Chapter:
सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः। - ______।। इति यमकालङ्कारस्य लक्षणं पूरयत।
Chapter:
अधोलिखितासु श्लोकपङ्क्तिषु प्रयुक्तालङ्कारस्य नाम लिखत।
अथाकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत्।
Chapter:
अधोलिखितासु श्लोकपङ्क्तिषु प्रयुक्तालङ्कारस्य नाम लिखत।
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 12 Sanskrit (Elective) with solutions 2025 - 2026
Previous year Question paper for CBSE Class 12 -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Elective), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 12.
How CBSE Class 12 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Elective) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
