Advertisements
Advertisements
प्रश्न
अधोलिखिताः कथाः मञ्जूषायाः सहायतया पूरयित्वा उत्तर-पुस्तिकायां लिखत -
एकदा दश बालकाः (1) ..... नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् (2) .....। ततः ते तीर्त्वा पारं गताः। तदा तेषां (3) ..... अपृच्छत् अपि सर्वे बालकाः (4) ..... उत्तीर्णाः? तदा कश्चित् बालकः (5) ..... एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त अष्टौ, नव इति। सः आत्मानं न अगणयत्। अतः सः अवदत् – नव एव (6) ..... दशमः न अस्ति। पुनः अपरः (7) ..... अपि आत्मानं त्यक्त्वा अन्यान् (8) ..... अगणयत्। तदा अपि (9) ..... एव आसन्। अतः ते निश्चयम् अकुर्वन् यत् दशमः (10) ..... निमग्नः। अतः ते दुःखिताः अभवन्। पश्चात् यदा नायकः एव स्वयं बालकानां गणनाम् अकरोत् तदा सर्वे दश बालकाः उपस्थिताः आसन्।
| नव, नद्याम्, सन्ति, नायकः, स्नानाय, अकुर्वन्, नदीम्, अगणयत्, बालकः, बालकान्। |
Advertisements
उत्तर
एकदा दश बालकाः (1) स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् (2) अकुर्वन्। ततः ते तीर्त्वा पारं गताः। तदा तेषां (3) नायकः अपृच्छत् अपि सर्वे बालकाः (4) सन्ति उत्तीर्णाः? तदा कश्चित् बालकः (5) अगणयत् एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त अष्टौ, नव इति। सः आत्मानं न अगणयत्। अतः सः अवदत् – नव एव (6) सन्ति दशमः न अस्ति। पुनः अपरः (7) बालकः अपि आत्मानं त्यक्त्वा अन्यान् (8) बालकान् अगणयत्। तदा अपि (9) नव एव आसन्। अतः ते निश्चयम् अकुर्वन् यत् दशमः (10) नद्याम् निमग्नः। अतः ते दुःखिताः अभवन्। पश्चात् यदा नायकः एव स्वयं बालकानां गणनाम् अकरोत् तदा सर्वे दश बालकाः उपस्थिताः आसन्।
