मराठी

NCERT solutions for संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० chapter 12 - रचना प्रयोग [Latest edition]

Advertisements

Chapters

NCERT solutions for संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० chapter 12 - रचना प्रयोग - Shaalaa.com
Advertisements

Solutions for Chapter 12: रचना प्रयोग

Below listed, you can find solutions for Chapter 12 of CBSE NCERT for संस्कृत व्याकरणवीथि इयत्ता ९ अँड १०.


अभ्‍यासकार्यम्
अभ्‍यासकार्यम् [Pages 134 - 140]

NCERT solutions for संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० 12 रचना प्रयोग अभ्‍यासकार्यम् [Pages 134 - 140]

अपठित गद्यांश

1.Page 134
उत्साहः उदासीमता, निराशा चेति तिस्रः मनसः अवस्थाः। शिशवः सदा उत्साहीशीलाः इति विदितमेव। युवानः अपि प्रायेण उत्साहीशीलाः। अनेके वृद्धाः अपि तथैव। वयसः उत्साहस्य च नास्ति सम्बन्धः। उत्साहः मानवस्य सहजः स्वभावः। सः मनसः शरीरस्य च विकासाय भवति। शिशुः उत्साहेन सर्वं ग्रहीतुं, सर्वैः सह खादितुं सर्वैः सह खेलितुं च प्रवर्तते। प्रतिबन्धे कृते रोदिति। उपहासे कृते क्रोधं प्रकटयति। किन्तु निराशा न भवति।

उपरिलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तरत -
    1. शिशुः उपहासे कृते किं करोति?   1
    2. मनसः कति अवस्थाः सन्ति?   1
  2. पूर्णवाक्येन उत्तरत -
    1. के के उत्साहशीलाः भवन्ति?   2
  3. यथानिर्देशम् उत्तरत -
    1. ‘अनेके वृद्धाः’ अत्र विशेषणपदम् किम्?   1
    2. ‘ज्ञातमेव’ इति अर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?   1
2.Page 135
कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म। नदीतीरे कश्चन संन्यासी स्वशिष्यैः सह आश्रमं निर्माय वसति स्म। एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरूढवान्। वेगेन प्रवहन्त्यां नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत्। तेन तस्यां नौकायाम् स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः। संन्यासी अकथयत्- तस्यां नौकायाम् स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये। अतः ते सर्वे मरणं प्राप्तवन्तः।

उपरिलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तर -
    1. संन्यासी कुत्र वसति स्म?   1
    2. अपरा नौका कस्याः घट्टनेन नद्यां निमग्ना अभवत्?   1
  2. पूर्णवाक्येन उत्तर -
    1. संन्यासी नौकादुर्घटनायाः किं कारणं कथितवान्?   2
  3. यथानिर्देशम् उत्तर -
    1. ‘सज्जनः’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।   1
    2. ‘आरूढवान्’ इति क्रियायाः कर्तृपदम् अनुच्छेदात् चित्वा लिखत।    1
3.Page 135
प्रातःकालादारभ्य सायं पर्यन्तं मानवः अनेकानि कार्याणि करोति। एतेषु कार्येषु किं समीचीनं किं वा असमीचीनम् इति विषये शयनकाले अवश्यं चिन्तनीयम्। एतादृशेन आत्मावलोकनेन स्वकीये आचरणे अज्ञानेन अनवधानेन रागद्वेषाभ्यां वा यदि कश्चन प्रमादः सञ्जात:, अपचारः द्रोहो वा निष्पन्नः तर्हि तेषां परिमार्जनोपायः अवश्यम् आलोचनीयः। पश्चात्तापः अनुभावितव्यः। श्‍व: प्रभृति एतादृशं प्रमादं न करिष्यामि इति दृढसङ्कल्पः करणीयः।

उपरिलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तरत -   
    1. किं समीचीनम् किं वा असमीचीनम् इति विषये कदा आलोचनीयम्?   1
    2. यदि अपचारः द्रोहः वा निष्पन्नः तदा कः अवश्यम् आलोचनीयः?   1
  2. पूर्णवाक्येन उत्तरत -   
    1. कः दृढसङ्कल्पः करणीयः?    2
  3. यथानिर्देशम् उत्तरत (निर्देशानुसार उत्तर) -   
    1. अनुच्छेदे के पदे परस्परं विपरीतार्थे प्रयुक्ते?   1
4.Page 136
यः स्वदोषाणां कृते अनुतपति तस्य सत्पथगमनस्य द्वारम् उद्घाटितं भवति। अनुतापानलेन पापानि भस्मीभवन्ति, ग्लानिः नश्यति, चित्तं निर्मलं प्रसन्नं च भवति, सद्विचारः समुदेति। इत्थम् आत्मानुशीलनस्य महत्त्वं जीवने अनुभूयते। तेन कृतेषु कार्येषु त्रुटयः न भवन्ति। अतः कृतदोषोऽपि जनः अनुतप्य सत्कर्मसम्पादनेन जीवने महान् भवितुम् अर्हति।
  1. एकपदेन उत्तरत -
    1. जीवने कस्य महत्त्वम् अनुभूयते?   1
    2. कृतदोषः जनः केन महान् भवितुं शक्नोति?   1
  2. पूर्णवाक्येन उत्तरत -
    1. अनुतापानलेन किं किं भवति?   2
  3. यथानिर्देशम् उत्तरत -
    1.  ‘एवम्’ इति अर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
    2. ‘अनुभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
5.Page 136
कस्मिंश्चित् अरण्ये अनेके पशवः वसन्ति स्म। एकदा पशूनां राजा सिंहः रोगपीडितः अभवत्। एकं शृगालं विहाय सर्वे पशवः रोगपीडितं नृपं द्रष्टुमागताः। एकः उष्ट्रः नृपाय एतत् न्यवेदयत् यत् अहंकारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः। एतच्छ्रुत्वा सिंहः क्रोधितोऽभवत्। स्वमित्रैः एतज्ज्ञात्वा शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः। क्रोधितेन सिंहेन विलम्बेन आगमनकारणम् पृष्टः। शृगालोऽवदत् यदहं तु सर्वप्रथममागन्तुम् ऐच्छम् परं चिकित्सकात्‌ औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्। तच्छ्रुत्वा प्रसन्नः सिंहः औषधविषये पृष्टवान्। शृगालः अवदत् यत्नेन औषधं तु न दत्तं परं कृपापरो भूत्वा चिकित्साक्रमम् उक्तम् यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति। तदा सिंहः उष्ट्रमाहूतवान्। भक्त्या आगतं च तं मारयित्वा तस्य रक्तं पीतवान्। एवं स्वपिशुनतायाः दुष्फलम् उष्ट्रेण स्वयमेव प्राप्तम्।

उपरिलिखितम्‌ अनुच्छेदम्‌ पठित्वा प्रश्नान्‌ उत्तरत -

  1. एकपदेन उत्तरं लिखत -   2 
    1. चिकित्सकेन किम्‌ उक्तमासीत्‌?    
    2. श्रुगालः शीघ्रमेव कस्य समीपे प्राप्तः?    
    3. उष्ट्रेण कस्याः दुष्फलम्‌ प्राप्तम्‌?    
    4. अनेके पशवः कुत्र वसन्ति स्म?  
  2. पूर्णवाक्येन उत्तरं लिखत -    4 
    1. क्रोधितेन सिंहेन कि पृष्टम्‌?    
    2. चिकित्सकेन कीदृशं चिकित्साक्रमम्‌ उक्तम्‌?   
    3. कं विहाय सर्वे सिंहं द्रष्टुमागच्छन्?    
    4. सिंहः उष्टरमाहूय किं कृतवान्‌?    
  3. यथानिर्देशम् उत्तरत -    
    1. ‘प्रसन्नः सिंहः’ इति अत्र विशेष्यपदं किम्?    1 
    2. ‘त्यक्त्वा’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?     1 
    3. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।    2
6.Page 137

अमर्त्यसेनः इति नाम एव संस्कृतमयम्‌। अमर्त्यसेनवर्यस्य जन्म शान्तिनिकेतने अभवत्‌। अस्य नाम गुरुदेवेन रवीनद्रनाथवर्येण चितम्‌। 

अस्य नाम निर्दिशन्‌ सः उक्तवान्‌ आसीत्‌- “अमर्त्यसेनः” इत्येषः शब्दः संस्कृतमूलः अतः एतस्य उच्चारणं स्पष्टं स्यात्‌, यतः अर्थपरिवर्तनं न भवेत्‌। शान्तिनिकेतने वसन्‌ अमर्त्यसेनः बाल्ये संस्कृताभ्यासं कृतवान्‌। तस्य तीव्रः अभिलाषः अपि आसीत्‌ यत्‌ मातामहः क्षितीशमोहनसेन इव अहम्‌ अपि प्रसिद्धः संस्कृतविद्वान् भवेयम्‌ इति।

उपरिलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तरं लिखत -    4
    1. अमर्त्यसेनस्य मातामहस्य नाम किम् आसीत्?
    2. कुत्र वसन् अमर्त्यसेनः संस्कृताभ्यासं कृतवान् आसीत्?
    3. अमर्त्यसेनस्य नाम केन चितम्?
    4. किं भवितुम् अमर्त्यसेनस्य तीव्रः अभिलाषः आसीत्?
  2. पूर्णवाक्येन उत्तरं लिखत -
    1. अमर्त्यसेनस्य नामविषये निर्दिशन् रवीन्द्रनाथवर्यः किमुक्तवान्?
    2. चिकित्सकेन कीदृशं चिकित्साक्रमम् उक्तम्?
    3. कं विहाय सर्वे सिंहं द्रष्टुमागच्छन्?
    4. सिंहः उष्ट्रमाहूय किं कृतवान?
  3. यथानिर्देशम् उत्तरत -
    1. ‘अस्य नाम’ इत्यत्र 'अस्य' इति पदं कस्मै प्रयुक्तम्?
    2. ‘स्यात्’ इत्यर्थे किं क्रियापदम् अनुच्छेदे प्रयुक्तम्?
    3. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
7.Page 138
कदाचित् देवराजः इन्द्रः भूलोकम् आगतवान्। भूलोके कमपि नगरं प्रविष्टः सः मार्गे गच्छन् आसीत्। तत्र कश्चन विक्रेता बहूनां देवानां विग्रहान् संस्थाप्य विक्रयणं करोति स्म। देवेन्द्रः कुतूहलेन समीपं गत्वा दृष्टवान्। तत्र विष्णुः, शिवः, लक्ष्मीः, सरस्वती, गणेशः इत्यादीनां देवानां विग्रहाः आसन् देवेन्द्रस्य विग्रहः अपि तत्र आसीत्। देवेन्द्रः एकैकस्यापि विग्रहस्य मूल्यं पृष्ट्वा-पृष्ट्वा ज्ञातवान्। अन्ते च कुतूहलेन तत्र स्थितस्य देवेन्द्रविग्रहस्य मूल्यं पृष्टवान्। सः विक्रेता उक्तवान्− यः कोऽपि कमपि विग्रहं क्रीणाति तस्मै एषः देवेन्द्र-विग्रहः निःशुल्कं दीयते इति। तदा तु देवेन्द्रस्य स्थितिः शोचनीया एव आसीत्।

उपरिलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तरत -
    1. देवराजः कुत्र आगतवान्?    1
    2. कस्य स्थितिः शोचनीया आसीत्?    1
  2. पूर्णवाक्येन उत्तरत -
    1. विक्रेता तत्र केषां देवानां विग्रहान् स्थापितवान्?    2
    2. देवेन्द्रविग्रहं कस्मै निःशुल्कं दीयते?    2
  3. यथानिर्देशम् उत्तरत -
    1. ‘स्थितिः शोचनीया’ अत्र विशेष्यपदं किम्?    1
    2. ‘अपश्यत्’ इत्यर्थे किं क्रियापदम् अनुच्छेदे प्रयुक्तम्?    1
    3. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।     2
8.Page 139
हरियाणाराज्ये यमुनानगरमण्डले एकः संस्कृतपरिवारः अस्ति। तस्मिन् गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति। तत्र पशवोऽपि संस्कृतम् अवबोधुं समर्थाः सन्ति। तस्मिन् गृहे अभिमन्युः नाम एकः युवकः अस्ति। सोऽपि संस्कृतं वदति। एकदा तत्र एकः संस्कृतप्राध्यापकः आगतवान्। तेन सह अभिमन्युः संस्कृतेन सम्भाषणं कृतवान्। तस्य युवकस्य प्रतिभां दृष्ट्वा प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि दत्तवान्। तस्मात् दिनात् तस्य मनसि संस्कृतं प्रति महती अभिरुचिः समुत्पन्ना। सः प्रतिदिनं गीतायाः श्लोकान् पठित्वा-पठित्वा सर्वान् श्लोकान् अस्मरत्।

उपरिलिखितम्‌ अनुच्छेदं पठित्वा प्रश्नान्‌ उत्तरत -

  1.  एकपदेन उत्तरत -
    1. संस्कृतपरिवारः कुत्र अस्ति?     1
    2. प्राध्यापकः कस्मै शतं रूप्यकाणि दत्तवान्‌?     1
  2. पूर्णवाक्येन उत्तरत -
    1. प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि किमर्थं दत्तवान्‌?     2
    2. युवकः कथं गीतायाः श्लोकान्‌ अस्मरत्‌?      2
  3. यथानिर्देशम्‌ उत्तरत -
    1. ‘अयच्छत्‌’ इत्यर्थे किं क्रियापदम्‌ अनुच्छेदे प्रयुक्तम्‌?     1
    2. ‘कृतवान्‌’ इति क्रियापदस्य कर्तृपदम्‌ चित्वा लिखत।     1
    3.  अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।     2
9.Page 140
एकस्मिन् दिने बहवः जिज्ञासवः तत्त्वज्ञानं श्रोतुं महात्मनः सुकरातस्य गृहम् आगच्छन्। ज्ञानचर्चां शृण्वतां तेषां भूयान् कालः व्यतियातः। सुकरातस्य पत्नी गृहेऽपेक्षितानां वस्तूनाम् अभावचर्चां चिकीर्षति स्म, किन्तु तत्र उपस्थिते जनसमवाये एतत् सुकरं नासीत्। ततः कोपविहितचेतना सा अपशब्दान् उच्चारयन्ती तत्र समायाता, आगन्तुकेषु च पयः पातयन्ती प्रतिनिवृत्ता। सुकरातः सर्वान् सम्बोधयन् सस्मितम् उवाच, श्रुतम् एव भवद्भिर्यत् ये मेघाः गर्जन्ति, ते न वर्षन्ति, किन्तु अद्य प्रकृत्यां विपर्यासः परिलक्षितो भवति, मेघाः गर्जन्ति वर्षन्ति च।

उपरिलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तरत -
    1. के महात्म-सुकरातस्य गृहम् आगच्छन्?
    2. सुकरातस्य पत्नी आगन्तुकेषु किं पातयन्ती प्रतिनिवृत्ता?
  2. पूर्णवाक्येन उत्तरत -
    1. सुकरातस्य पत्नी किं चिकीर्षति स्म?
    2. सुकरातस्य मते प्रकृत्यां कः विपर्यासः परिलक्षितः?
  3. यथानिर्देशम् उत्तरत -
    1. ‘कोपविहितचेतना सा’ इति पदे अनुच्छेदे कस्यै प्रयुक्ते?
    2. ‘अनेके’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
    3. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।

Solutions for 12: रचना प्रयोग

अभ्‍यासकार्यम्
NCERT solutions for संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० chapter 12 - रचना प्रयोग - Shaalaa.com

NCERT solutions for संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० chapter 12 - रचना प्रयोग

Shaalaa.com has the CBSE Mathematics संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० CBSE 12 (रचना प्रयोग) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० chapter 12 रचना प्रयोग are पत्रम्, दूरभाषवार्ता, अपठित गद्यांश, अनुच्छेदलेखनम्, निबन्‍धावली, पत्रम्, दूरभाषवार्ता, अपठित गद्यांश, अनुच्छेदलेखनम्, निबन्‍धावली.

Using NCERT संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० solutions रचना प्रयोग exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 12, रचना प्रयोग संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० additional questions for Mathematics संस्कृत व्याकरणवीथि इयत्ता ९ अँड १० CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×