मराठी

एकस्मिन् दिने बहवः जिज्ञासवः तत्त्वज्ञानं श्रोतुं महात्मनः सुकरातस्य गृहम् आगच्छन्। ज्ञानचर्चां शृण्वतां तेषां भूयान् कालः व्यतियातः। सुकरातस्य पत्नी गृहेऽपेक्षितानां वस्तूनाम्

Advertisements
Advertisements

प्रश्न

एकस्मिन् दिने बहवः जिज्ञासवः तत्त्वज्ञानं श्रोतुं महात्मनः सुकरातस्य गृहम् आगच्छन्। ज्ञानचर्चां शृण्वतां तेषां भूयान् कालः व्यतियातः। सुकरातस्य पत्नी गृहेऽपेक्षितानां वस्तूनाम् अभावचर्चां चिकीर्षति स्म, किन्तु तत्र उपस्थिते जनसमवाये एतत् सुकरं नासीत्। ततः कोपविहितचेतना सा अपशब्दान् उच्चारयन्ती तत्र समायाता, आगन्तुकेषु च पयः पातयन्ती प्रतिनिवृत्ता। सुकरातः सर्वान् सम्बोधयन् सस्मितम् उवाच, श्रुतम् एव भवद्भिर्यत् ये मेघाः गर्जन्ति, ते न वर्षन्ति, किन्तु अद्य प्रकृत्यां विपर्यासः परिलक्षितो भवति, मेघाः गर्जन्ति वर्षन्ति च।

उपरिलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत -

  1. एकपदेन उत्तरत -
    1. के महात्म-सुकरातस्य गृहम् आगच्छन्?
    2. सुकरातस्य पत्नी आगन्तुकेषु किं पातयन्ती प्रतिनिवृत्ता?
  2. पूर्णवाक्येन उत्तरत -
    1. सुकरातस्य पत्नी किं चिकीर्षति स्म?
    2. सुकरातस्य मते प्रकृत्यां कः विपर्यासः परिलक्षितः?
  3. यथानिर्देशम् उत्तरत -
    1. ‘कोपविहितचेतना सा’ इति पदे अनुच्छेदे कस्यै प्रयुक्ते?
    2. ‘अनेके’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
    3. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
आकलन
Advertisements

उत्तर

    1. जिज्ञासवः
    2. पयः
    1. सुकरातस्य पत्नी गृहेऽपेक्षितानां वस्तूनाम् अभावचर्चां चिकीर्षति स्म।
    2. सुकरातस्य मते प्रकृत्यां एषः विपर्यासः परिलक्षितः यत् मेघाः गर्जन्ति वर्षन्ति च।
    1. सुकरातस्य पत्न्यै
    2. बहवः
    3. महात्मा सुकरातः
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: रचना प्रयोग - अभ्‍यासकार्यम् [पृष्ठ १४०]

APPEARS IN

एनसीईआरटी Sanskrit Vyakaranavithi Class 9 and 10
पाठ 12 रचना प्रयोग
अभ्‍यासकार्यम् | Q 9. | पृष्ठ १४०
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×