मराठी

वैज्ञानिकाः सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात्। चलभाषित्रयन्त्रम् (मोबाइल) तादृशम् एव लोकप्रियं यन्त्रम्।

Advertisements
Advertisements

प्रश्न

वैज्ञानिकाः सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात्। चलभाषित्रयन्त्रम् (मोबाइल) तादृशम् एव लोकप्रियं यन्त्रम्। बालाः, वृद्धाः, युवकाः, पुरुषाः, महिलाः, नागरिकाः, ग्रामीणाः वा, सर्वेषाम् एव एतत् कर्णभूषणं जातम्। यानानि आरूढाः, कार्यालयेषु कार्यं कुर्वन्तः, मार्गेषु चलन्तः, सभागारेषु प्रवचनं शृण्वन्तः जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति। अविवेकपूर्णः अस्य प्रयोगः कार्येषु व्यवधानं करोति। मार्गेषु दुर्घटनाः भवन्ति। सभागारेषु, कक्षासु, अन्यसभासु वा अव्यवस्था भवति। सत्यम् अस्ति यत् आविष्कारः कदापि हानिकरः न, परन्तु तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति। वस्तुतः वयं यन्त्रस्य अधीनाः न स्याम अपितु यन्त्रम् अस्माकम् अधीनं स्यात्। ते एव बुद्धिमन्तः ये विज्ञानस्य सदुपयोगं कुर्वन्ति।

अ. एकपदेन उत्तरत -

(क) वर्तमानकाले किं लोकप्रियं सञ्चारसाधनम् अस्ति?

(ख) यन्त्रस्य दुष्प्रयोगेण कस्य शान्तिः नश्यति?

(ग) यन्त्रस्य कीदृशः प्रयोगः कार्येषु व्यवधानं करोति?

(घ) वयं कस्य अधीनाः न स्याम?

आ. पूर्णवाक्येन उत्तरत -

(क) के खलु बुद्धिमन्तः सन्ति?

(ख) चलभाषित्रयन्त्रस्य ध्वनिना कक्षासु किं भवति?

(ग) वैज्ञानिकाः सञ्चारसाधनेषु किमर्थं नवीनतमान् आविष्कारान् कुर्वन्ति?

(घ) चलभाषित्रयन्त्रं कीदृशं साधनम् अस्ति?

इ. गद्यांशस्य समुचितं शीर्षकं लिखत।

ई. यथानिर्देशं उत्तरत -

(क) ‘सन्देशप्रेषणे अधिकतमा सुविधा स्यात्।’ अत्र किं विशेषणपदं प्रयुक्तम्?

(ख) ‘तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति।’ अत्र कर्तृपदं किं प्रयुक्तम्?

(ग) ‘आकर्ण्य’ इति अर्थे गद्यांशे किं पदं प्रयुक्तम्?

(घ) ‘व्यवस्था’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?

आकलन
Advertisements

उत्तर

अ. 

(क) चलभाषित्रयन्त्रम् (मोबाइल)

(ख) जीवनस्य

(ग) अविवेकपूर्णः

(घ) यन्त्रस्य

आ.

(क) ये विज्ञानस्य सदुपयोगं कुर्वन्ति ते एव बुद्धिमन्तः सन्ति।

(ख) चलभाषित्रयन्त्रस्य ध्वनिना कक्षासु अव्यवस्था भवति।

(ग) वैज्ञानिकाः सन्देशप्रेषणे अधिकतमा सुविधा स्यात् इति सञ्चारसाधनेषु नवीनतमान् आविष्कारान् कुर्वन्ति।

(घ) चलभाषित्रयन्त्रम् अतीव लोकप्रियं सञ्चारसाधनम् अस्ति।

इ. चलभाषित्रयन्त्रम् — सुविधा और दुष्प्रयोग

ई. 

(क) अधिकतमा

(ख) शान्तिः

(ग) श्रुत्वा

(घ) अव्यवस्था

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 22: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १४५]

APPEARS IN

सीबीएसई Sanskrit Manika Dvitiyo Bhag Class 10
पाठ 22 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 7. | पृष्ठ १४५
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×