मराठी

एकदा कश्चिच् नरः आखेटाय अगच्छत्। सः सर्वं दिनं वने अभ्रमत्, किन्तु कमपि पशुं न अपश्यत्। सायङ्काले यदा सः आखेटकः स्वगृहं प्रति आगच्छति स्म तदा एकां पुत्रसहितां हरिणीम् अपश्यत्।

Advertisements
Advertisements

प्रश्न

एकदा कश्चिच् नरः आखेटाय अगच्छत्। सः सर्वं दिनं वने अभ्रमत्, किन्तु कमपि पशुं न अपश्यत्। सायङ्काले यदा सः आखेटकः स्वगृहं प्रति आगच्छति स्म तदा एकां पुत्रसहितां हरिणीम् अपश्यत्। सः नरः अश्वेन तस्या अनुसरणम् अकरोत्। किन्तु सा मृगी कुत्रचित् अदृश्या अभवत्। ततः सः तस्याः शावकं गृहीत्वा अश्वस्य पृष्ठे बद्धवान्। अश्वम् आरुह्य सः नरः किञ्चिद् दूरं गत्वा अपश्यत् यत् पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म। एतद् दृष्ट्वा तस्य मनसि करुणा उत्पन्ना अभवत्। करुणार्द्रहृदयः सः अचिन्तयत् - एषा हरिणी स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति। अहो! एतां निराशां न करिष्यामि इति विचार्य सः मृगीशावकम् अमुञ्चत्। हरिणी प्रसन्ना अभवत्। तस्याः नयनयोः कृतज्ञताभावः आसीत्। एतद् विलोक्य सः परमम् आनन्दं प्राप्तवान्।

अ. एकपदेन उत्तरत -

(क) स्वशावकं प्राप्त हरिण्याः नयनयोः कः भावः आसीत्?

(ख) आखेटकः कदा स्वगृहं प्रति आगच्छति?

(ग) का स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति?

(घ) नरः केन हरिण्याः अनुसरणम् अकरोत्?

आ. पूर्णवाक्येन उत्तरत -

(क) पुत्रस्नेहव्याकुला मृगी किं करोति स्म?

(ख) नरः मृगीशावकं गृहीत्वा किम् अकरोत्?

(ग) करुणार्द्रहृदयः सः आखेटकः किम् अचिन्तयत्?

(घ) आखेटकः किं विलोक्य परमम् आनन्दं प्राप्तवान्?

इ. गद्यांशस्य समुचितं शीर्षकं लिखत।

ई. यथानिर्देशं समुचितमुत्तरं विकल्पेष्य चिनुत -

(क) ‘पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म।’ वाक्येऽस्मिन् कर्तृपदं किं प्रयुक्तम्?

(ख) ‘एकां पुत्रसहितां हरिणीम् अपश्यत्।’ वाक्येऽस्मिन् विशेष्यपदं किमस्ति?

(ग) ‘प्रातःकाले’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत्?

(घ) ‘सः नरः अश्वेन तस्याः अनुसरणम् अकरोत्।’ इति कर्तृपदस्य क्रियापदं किमस्ति?

आकलन
Advertisements

उत्तर

अ. 

(क) कृतज्ञताभावः

(ख) सायङ्काले

(ग) हरिणी (मृगी)

(घ) अश्वेन

आ. 

(क) पुत्रस्नेहव्याकुला मृगी पुत्रम् अनुसरति स्म।

(ख) नरः मृगीशावकं गृहीत्वा अश्वस्य पृष्ठे बद्धवान्।

(ग) एषा हरिणी स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति, अतः एतां निराशां न करिष्यामि इति सः अचिन्तयत्।

(घ) आखेटकः हरिण्याः नयनयोः कृतज्ञताभावं विलोक्य परमम् आनन्दं प्राप्तवान्।

इ. करुणा और कृतज्ञता — मृगीशावकस्य रक्षा

ई. 

(क) सा मृगी

(ख) हरिणीम्

(ग) सायङ्काले

(घ) अकरोत्

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 22: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १४४]

APPEARS IN

सीबीएसई Sanskrit Manika Dvitiyo Bhag Class 10
पाठ 22 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 6. | पृष्ठ १४४
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×