मराठी

रिक्तस्थानपूर्तिं कुरुत - पुरा कस्मिंश्चित् ..... (नगर) मायादासः नाम नृपः आसीत्। सः प्रभूतं ..... (सुवर्ण) वाञ्छति स्म। एकदा कश्चन मुनिः ..... (नृप) प्रासादम् आगतः। राजा अवदत् “नमः ..... (मुनि),

Advertisements
Advertisements

प्रश्न

रिक्तस्थानपूर्तिं कुरुत -

पुरा कस्मिंश्चित् ..... (नगर) मायादासः नाम नृपः आसीत्। सः प्रभूतं ..... (सुवर्ण) वाञ्छति स्म। एकदा कश्चन मुनिः ..... (नृप) प्रासादम् आगतः। राजा अवदत् “नमः ..... (मुनि), मम आतिथ्यं स्वीकरोतु।” राज्ञः ..... (सत्कार) सन्तुष्टः मुनिः ..... (नृप) एकं वरम् अयच्छत्, अवदत् च हे राजन्! यत् ..... (युष्मद्) रोचते तत् वद। मायादासः प्रार्थितवान् - हे ..... (मुनि)! ..... (अस्मद्) स्पृष्टं सर्वं सुवर्णं भवतु इति। मुनिः तथास्तु इति उक्त्वा ..... (प्रासाद) बहिः निर्गतः। ..... (सुवर्ण) अनुरक्तः नृपः यत् वस्तुजातं स्पृष्टवान् तदेव ..... (वस्तु) सुवर्णमयं जातम्। ..... (उद्यान) परितः भ्रान्त्वा सः सर्वान् ..... (वृक्ष) अस्पृशत्। ते सर्वे वृक्षाः ..... (सुवर्णमय) जाताः। तृषापीडितः सः ..... (जल) पातुम् इष्टवान्। तदपि ..... (सुवर्णमय) जातम्। एवमेव भोजनमपि ..... (सुवर्णमय) जातम्। तस्य ..... (नेत्र) अश्रुणि अपतन्। तदा तस्य पुत्री ..... (नृप) समीपम् आगता। ..... (नृप) स्पृष्टा साऽपि ..... (सुवर्णमय) जाता। अत्यन्तदुःखितो नृपः पुनः ..... (मुनि) समीपं गतः। नृपः ..... (मुनि) पादयोः पतित्वा क्षमाम् अयाचत “मम ..... (कनक) न अभिलाषः। मम पुत्री मम वाटिका च यथावत् भवतु। किं मे ..... (कनक) प्रयोजनं यदाऽहं बुभुक्षितः पिपासितः मरिष्यामि।” मुनिः ..... (जलपात्र) जलम् आदाय ..... (भूपति) अयच्छत् अकथयत् च “गच्छ! एतत् जलं कस्यचिदेकस्य ..... (वस्तु) उपरि यदा पात्यते तदा सर्वाणि ..... (वस्तु) प्राकृतरूपे परिवर्तितानि भविष्यन्ति। तव वरशक्तिरपि लुप्ता भविष्यति।” मायादासः ..... (जल) आदाय ..... (पुत्री) उपरि अपातयत्। सर्वम् उद्यानमपि तत्क्षणमेव यथावत् सञ्जातम्। अतएव उच्यते- लोभः व्याधिरनन्तकः।

रिकाम्या जागा भरा
Advertisements

उत्तर

पुरा कस्मिंश्चित् नगरे मायादासः नाम नृपः आसीत्। सः प्रभूतं सुवर्णम् वाञ्छति स्म। एकदा कश्चन मुनिः नृपस्य प्रासादम् आगतः। राजा अवदत् “नमः मुनये, मम आतिथ्यं स्वीकरोतु।” राज्ञः सत्कारेण सन्तुष्टः मुनिः नृपाय एकं वरम् अयच्छत्, अवदत् च हे राजन्! यत् युष्मभ्यम् रोचते तत् वद। मायादासः प्रार्थितवान् - हे मुने! मया स्पृष्टं सर्वं सुवर्णं भवतु इति। मुनिः तथास्तु इति उक्त्वा प्रासादात् बहिः निर्गतः। सुवर्णे अनुरक्तः नृपः यत् वस्तुजातं स्पृष्टवान् तदेव वस्तु सुवर्णमयं जातम्। उद्यानस्य परितः भ्रान्त्वा सः सर्वान् वृक्षान् अस्पृशत्। ते सर्वे वृक्षाः सुवर्णमयाः जाताः। तृषापीडितः सः जलम् पातुम् इष्टवान्। तदपि सुवर्णमयम् जातम्। एवमेव भोजनमपि सुवर्णमयम् जातम्। तस्य नेत्राभ्याम् अश्रुणि अपतन्। तदा तस्य पुत्री नृपस्य समीपम् आगता। नृपेण स्पृष्टा साऽपि सुवर्णमयी जाता। अत्यन्तदुःखितो नृपः पुनः मुनेः समीपं गतः। नृपः मुनेः पादयोः पतित्वा क्षमाम् अयाचत “मम कनकस्य न अभिलाषः। मम पुत्री मम वाटिका च यथावत् भवतु। किं मे कनकेन प्रयोजनं यदाऽहं बुभुक्षितः पिपासितः मरिष्यामि।” मुनिः जलपात्रात् जलम् आदाय भूपतये अयच्छत् अकथयत् च “गच्छ! एतत् जलं कस्यचिदेकस्य वस्तुनः उपरि यदा पात्यते तदा सर्वाणि वस्तूनि प्राकृतरूपे परिवर्तितानि भविष्यन्ति। तव वरशक्तिरपि लुप्ता भविष्यति।” मायादासः जलम् आदाय पुत्र्याः उपरि अपातयत्। सर्वम् उद्यानमपि तत्क्षणमेव यथावत् सञ्जातम्। अतएव उच्यते- लोभः व्याधिरनन्तकः।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 21: विहद्घावलोकनम्‌ - मिश्रितप्रश्ना: [पृष्ठ १३८]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
पाठ 21 विहद्घावलोकनम्‌
मिश्रितप्रश्ना: | Q घ. | पृष्ठ १३८
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×