मराठी

प्रदत्ततथ्यानां सहायतया अधोलिखितं विषयम्‌ अधिकृत्य पञ्चविंशतितः त्रिंशत्‌ - शब्दात्मकम्‌ अनुच्छेदमेकं संस्कृतेन लिखत - विषयः - स्वस्थशरीरे एव स्वस्थमनसः वासः। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

प्रदत्ततथ्यानां सहायतया अधोलिखितं विषयम्‌ अधिकृत्य पञ्चविंशतितः त्रिंशत्‌ - शब्दात्मकम्‌ अनुच्छेदमेकं संस्कृतेन लिखत -

विषयः - स्वस्थशरीरे एव स्वस्थमनसः वासः।

  • जीवने स्वास्थ्यस्य महत्वम्‌
  • स्वस्थं शरीरम्‌ एव मनुष्यस्य वास्तविकी सम्पद्‌
  • शरीरेण सह मनसः सम्बन्धः
  • उभयोः आरोग्यस्य उपायाः उपसंहारश्च
लेखन कौशल्य
Advertisements

उत्तर

स्वस्थशरीरे एव स्वस्थमनसः वासः।

मानवजीवने स्वास्थ्यस्य महत्त्वम्‌ अत्यन्तं महान्‌ अस्ति। यः जनः स्वस्थः सः एव आत्मविश्वासेन युक्तः, प्रसन्नः च भवति। स्वस्थं शरीरम्‌ एव मनुष्यस्य वास्तविकी सम्पद्‌ इति सत्यं सर्वैः स्वीकृतम्‌। धनं, यशः, ऐश्वर्यं, पदवी वा यदि शरीरं अस्वस्थं भवति, तर्हि एते सर्वे अर्थहीनाः भवन्ति। मनुष्यस्य जीवनं तदा एव सार्थकं भवति यदा शरीरं निरामयम्‌ भवति।

शरीरेण सह मनसः घनः सम्बन्धः अस्ति। अस्वस्थे शरीरे मनः अपि क्लान्तं च अस्थिरं च भवति। स्वस्थे शरीरे तु मनः उत्साही, प्रसन्नं च भवति। अतः शरीरमनसोर्‌ उभयोः आरोग्यं समं रक्षितव्यं। आरोग्यस्य उपायाः नित्यं पालनियाः, यथा नियमितव्यायामः, यथोचितः आहारः, पर्याप्तः निद्राः, तथा सद्भावनायुक्तः विचारः।

योगाभ्यासेन, ध्यानाभ्यासेन च शरीरस्य मनसश्च सम्यक्‌ सन्तुलनं स्थाप्यते। तनावः, क्रोधः, ईर्ष्या, भयः च मनसः शत्रवः सन्ति, अतः तेषां दमनं आवश्यकम्‌।

अतः अस्माकं सर्वेषां कर्तव्यं यत्‌ वयं स्वास्थ्यं रक्षामः। यतः स्वस्थशरीरे एव स्वस्थमनसः वासः, तथा एव स्वस्थमनसि एव सुखी जीवनस्य आधारः भवति। स्वास्थ्यं हि जीवनस्य महान्‌ वरदानम्‌ अस्ति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×