मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। शिबिरस्य प्रथमदिने एव भोजनादिकं समाप्य मध्याह्वे बालैः सह पत्रक्रीडायां मग्रः आसम्‌ अहम्‌। तदा सद्यः एव परिचितः प्रोफेसर-सर्कसवाले - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

शिबिरस्य प्रथमदिने एव भोजनादिकं समाप्य मध्याह्वे बालैः सह पत्रक्रीडायां मग्रः आसम्‌ अहम्‌। तदा सद्यः एव परिचितः प्रोफेसर-सर्कसवाले (सर्कस-क्रीडारङ्गस्य स्वामी) मामेव अन्विष्यन्‌ तत्र समागतः। “कॅप्टनसाहेब, शृणोतु कॅप्टनसाहेब! अस्माकं सर्कसक्रीडायां कतिपयेभ्यः मासेभ्यः लोकप्रियः सहभोजन कार्यक्रमः प्रचलति। गौः, भल्लूकः व्याघ्रश्च इत्येतेषां पशूनाम्‌ अयं कार्यक्रमः प्रयोगस्य सर्वोच्चम्‌ आकर्षणम्‌ अस्ति। तथा विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि। परन्तु व्याघ्रभल्लूकयोः कलहकारणात्‌ द्वावपि व्रणितौ।” “किं प्राणिनोः कलहः?” “महाशय, अस्माकं सर्कसक्रीडायां तु व्याघ्रभल्लूकौ द्विपादौ एव।” एवं प्राध्यापकमहाशयेन रहस्यभेदः कृतः। “नास्ति अस्माकं सामर्थ्यं व्याघ्रं वा भल्लूकं वा पालयितुम्‌। क्रीडायां द्वौ बहुरूपधारिणौ नरौ एव व्याघ्रं भल्लूकं च नाटयतः।” “किं धेनुरपि... ?” “नहि नहि, धेनुस्तु वास्तविकी एव।”

(1) अववबोधनम्‌। (4 त: 3) 3

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1

(1) तथा विज्ञापनं कृत्वा ______ अपि विक्रीतानि। (प्रवेशपत्राणि/पिहितपत्राणि)

(2) अयं कार्यक्रम: प्रयोगस्य सर्वोच्चम्‌ ______ अस्ति। (आकर्षणम्‌/दर्शनम्‌)

(ख) पूर्णवाक्येन उत्तरं लिखत। 1

क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयतः?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत। 1

सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रम: प्रचलति।

(घ) अमरकोषात्‌ शब्द योजयित्वा वाक्यं पुनर्लिखत। 1

धेनु: तु वास्तविकी एव।

(2) शब्दज्ञानम्‌। (3 तः 2) 2

(क) 2 षष्ठी विभक्त्यन्तपदे चित्वा लिखत।

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत। 

‘अ’ ‘आ’
(१) लोकप्रियः मासेभ्यः
(२) कतिपयेभ्यः सहभोजनकार्यक्रमः
  भल्लूकौ

(ग) उत्तरपदं लिखत। 1

  1. द्वावपि = द्वौ + ......
  2. इत्येतेषाम्‌ = इति + ......

(3) पृथक्करणम्‌। 2

क्रमेण योजयत।

  1. सहभोजनस्य रहस्यभेद:।
  2. शिबिरस्य प्रथमं दिनम्‌।
  3. बालैः सह पत्रक्रीडा।
  4. सर्कसस्वामिन: आगमनम्‌।
आकलन
Advertisements

उत्तर

(1) 

(क) 

(1) तथा विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि। 

(2) अयं कार्यक्रम: प्रयोगस्य सर्वोच्चम्‌ आकर्षणम्‌ अस्ति। 

(ख) क्रीडायां द्वौ बहुरूपधारिणौ नरौ एव व्याघ्रं भल्लूकं च नाटयतः।

(ग) असत्यम्‌

(घ) माहेयी/सौरभेयी/गौः/उस्त्रा/माता/शृङ्गिणी तु वास्तविकी एव।

(2) 

(क) षष्ठी -विभक्त्यन्तपदे -

  1. शिबिरस्य/प्रयोगस्य/क्रीडारङ्गस्य/भल्लूकयोः
  2. अस्माकम्‌/एतेषाम्‌/प्राणिनोः/पशूनाम्‌।

(ख) 

‘अ’ ‘आ’
(१) लोकप्रियः सहभोजनकार्यक्रमः
(२) कतिपयेभ्यः मासेभ्यः

(ग) 

  1. द्वावपि = द्वौ + अपि
  2. इत्येतेषाम्‌ = इति + एतेषाम्‌

(3) 

  1. शिबिरस्य प्रथमं दिनम्‌।
  2. बालैः सह पत्रक्रीडा।
  3. सर्कसस्वामिन: आगमनम्‌।
  4. सहभोजनस्य रहस्यभेद:।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (July) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×