Advertisements
Advertisements
प्रश्न
भावार्थ समुचितपदै: पूरयत -
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।
कर्तव्याकर्तव्यं ______ भगवान् श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान् सर्वान ______ यत् कामः, क्रोधः, ______ एतानि त्रीणि नरकस्य द्वाररूपाणि अतः यः जनः ______ नाशं नेच्छति अपि तु स्वकीयं कल्याणमिच्छति सः एतानि द्वाराणि ______ सर्वप्रयत्नैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि त्रीणि द्वाराणि सदैव तस्य कृते ______ तिष्ठेयुः सः च उन्नतिपथे अग्रसरो भवेत्।
| नोद्घाटयेत्, लोभश्च, आत्मनः, वर्णयन्, पिहितानि, बोधयति |
Advertisements
उत्तर
कर्तव्याकर्तव्यं वर्णयन् भगवान् श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान् सर्वान बोधयति यत् कामः, क्रोधः, लोभश्च एतानि त्रीणि नरकस्य द्वाररूपाणि अतः यः जनः आत्मनः नाशं नेच्छति अपि तु स्वकीयं कल्याणमिच्छति सः एतानि द्वाराणि नोद्घाटयेत् सर्वप्रयत्नैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि त्रीणि द्वाराणि सदैव तस्य कृते पिहितानि तिष्ठेयुः सः च उन्नतिपथे अग्रसरो भवेत्।
APPEARS IN
संबंधित प्रश्न
प्रश्नस्य उत्तरम् एकपदेन लिखत -
दैवी संपद् कस्मै मता?
प्रश्नस्य उत्तरम् एकपदेन लिखत -
कामभोगेषु प्रसक्ताः कुत्र पतन्ति?
प्रश्नस्य उत्तरम् एकपदेन लिखत -
त्रिविधं कस्य द्वारम्?
प्रश्नस्य उत्तरम् पूर्णवाक्येन लिखत -
जगतः क्षयाय के प्रभवन्ति?
प्रश्नस्य उत्तरम् पूर्णवाक्येन लिखत -
अज्ञानविमोहिताः जनाः किं विचारयन्ति?
प्रश्नस्य उत्तरम् पूर्णवाक्येन लिखत -
मनुष्यः कि त्यजेत्?
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत -
आसुरी सम्पद् निबन्धाय मता।
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत -
आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः।
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत -
मूढाः जन्मनि जन्मनि हरिमप्राप्यैव अधर्मा गतिं यान्ति।
शुद्धकथन समक्षम् ‘आम्’ अशुद्धकथन च समक्षं ‘न’ इति लिखत -
नरकस्य द्वारम् पञ्चविधम्।
शुद्धकथन समक्षम् ‘आम्’ अशुद्धकथन च समक्षं ‘न’ इति लिखत -
नष्टात्मानः अल्पबुद्धयः जगतः हिताय प्रभवन्ति।
शुद्धकथन समक्षम् ‘आम्’ अशुद्धकथन च समक्षं ‘न’ इति लिखत -
तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अंगभूतानि।
शुद्धकथन समक्षम् ‘आम्’ अशुद्धकथन च समक्षं ‘न’ इति लिखत -
दम्भः दर्पः अभिमानश्च दैवीसंपदः अंगभूतानि।
शुद्धकथन समक्षम् ‘आम्’ अशुद्धकथन च समक्षं ‘न’ इति लिखत -
अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति।
श्लोकान्वयं पूरयत -
दैवी संपद् विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥
अन्वयः- विमोक्षाय ______ संपद्, आसुरी (च) निबन्धाय ______। पाण्डव! मा ______ दैवीं संपदम् ______ असि।
भावार्थ समुचितपदै: पूरयत -
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्।।
श्रीकृष्णः कथयति यत् मुढः अज्ञानविमोहितः जनः ______ भवति, किञ्चिद् अल्पमपि प्राप्य ______ भवति यत् अद्य मया इदं प्राप्तम् अतः अहम् अन्यम् अपि स्वमनोरथं शीघ्रमेव ______ यत् किञ्चिद् ममास्ति तत्तु मम अस्त्येव परमन्यत् सर्व ______ च मम एव भविष्यति।
| प्राप्तुं समर्थः, धनमैश्वर्य, आत्माभिमानी, अतिलोलुपः |
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत -
अज्ञानम्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत -
मनोरथम्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत -
नराधमान्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत।
त्रिविधम्
वाच्यपरिवर्तनं कृत्वा लिखत -
अहं तान् आसुरीषु योनिषु क्षिपामि।
वाच्यपरिवर्तनं कृत्वा लिखत -
असौ मया हतः।
वाच्यपरिवर्तनं कृत्वा लिखत -
अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।
वाच्यपरिवर्तनं कृत्वा लिखत -
मया यक्ष्यते दीयते च।
वाच्यपरिवर्तनं कृत्वा लिखत -
अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।
प्रकृति-प्रत्यय-विभागं कुरुत -
अलोलुपत्वम्
प्रकृति-प्रत्यय-विभागं कुरुत -
विमोहिताः
