Advertisements
Advertisements
प्रश्न
अधोलिखितसंवादं “युष्मद्-अस्मद्” शब्दरूपैः पूरयन्तु -
| (दिनकरः ग्रीष्मावकाशे स्वमातुलस्य गृहं गच्छति। तत्र मातुलस्य पुत्री निवेदिता अपि अस्ति। तदा दिनकर-निवेदितयोः मध्ये संवादः प्रचलति।) | |
| दिनकरः | अयि भगिनि! अधुना कस्यां कक्षायां पठसि? |
| निवेदिता | दिनकर! अहं तु दशमकक्षायां पठामि। किं ..... अष्टमकक्षा उत्तीर्णा? |
| दिनकरः | आम् भगिनि! ..... अष्टमकक्षा प्रथमश्रेण्या उत्तीर्णा। सम्प्रति नवमकक्षायां पठामि। |
| निवेदिता | साधु साधु! वर्धापनं वर्धापनम्। तर्हि ..... किं दत्तवान् पिता। |
| दिनकरः | पिता तु ..... सङ्गणकं क्रीत्वा दत्तवान्। |
| निवेदिता | अहो सुन्दरं पारितोषिकम्। अनुज! ..... विशिष्टः गुणः कः? |
| दिनकरः | भगिनि, ..... आत्मविश्वासः एव विशिष्टः गुणः अस्ति। |
| निवेदिता | शोभनम्। अधुना माता ..... च भोजनाय आह्वयति। |
| दिनकरः | अस्तु, चलावः। |
लेखन कौशल्य
Advertisements
उत्तर
| (दिनकरः ग्रीष्मावकाशे स्वमातुलस्य गृहं गच्छति। तत्र मातुलस्य पुत्री निवेदिता अपि अस्ति। तदा दिनकर-निवेदितयोः मध्ये संवादः प्रचलति।) | |
| दिनकरः | अयि भगिनि! अधुना कस्यां कक्षायां पठसि? |
| निवेदिता | दिनकर! अहं तु दशमकक्षायां पठामि। किं त्वया अष्टमकक्षा उत्तीर्णा? |
| दिनकरः | आम् भगिनि! मया अष्टमकक्षा प्रथमश्रेण्या उत्तीर्णा। सम्प्रति नवमकक्षायां पठामि। |
| निवेदिता | साधु साधु! वर्धापनं वर्धापनम्। तर्हि तुभ्यम् किं दत्तवान् पिता। |
| दिनकरः | पिता तु मह्यम् सङ्गणकं क्रीत्वा दत्तवान्। |
| निवेदिता | अहो सुन्दरं पारितोषिकम्। अनुज! तव विशिष्टः गुणः कः? |
| दिनकरः | भगिनि, मम आत्मविश्वासः एव विशिष्टः गुणः अस्ति। |
| निवेदिता | शोभनम्। अधुना माता त्वां च भोजनाय आह्वयति। |
| दिनकरः | अस्तु, चलावः। |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
