Advertisements
Advertisements
प्रश्न
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
|
गुणी गुणं वेत्ति न वेति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः। पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः॥ |
(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) कः बलं वेत्ति?
(ख) वायसः कस्य गुणं न वेत्ति?
(ग) सिंहस्य बलं कः जानाति?
(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) गुणं कः वेत्ति कः न वेत्ति?
(ख) वसन्तस्य गुणं कः जानाति?
(ग) करी कस्य बलं वेत्ति?
(iii) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) ‘निर्बलः’ इत्यस्य विलोमपदं किं प्रयुक्तम्?
(ख) ‘गजः’ अस्य कः पर्यायः अत्र प्रयुक्तः?
(ग) ‘न वेत्ति निर्बलः’ अत्र क्रियापदं किम्?
Advertisements
उत्तर
(i)
(क) बली
(ख) वसन्तस्य
(ग) करी
(ii)
(क) गुणी गुणं वेत्ति निर्गुणः न वेत्ति।
(ख) पिकः (कोकिलः) वसन्तस्य गुणं जानाति।
(ग) करी सिंहस्य बलं वेत्ति।
(iii)
(क) बली
(ख) करी
(ग) वेत्ति
