मराठी

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। रामः अतिदीर्घः प्रवासोऽयम्‌ दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्‌) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः अतिदीर्घः प्रवासोऽयम्‌ दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्‌) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्‌, विशेषतस्तपोवने। तत्‌ कोऽतराभ्युपायः?
विदूषकः (जनान्तिकम्‌) अहं पुनः पृच्छामि। (प्रकाशम्‌) किं नामधेया युवयोर्जननी?
लवः तस्याः द्वे नामनी।
विदूषकः कथमिव?
लवः तपोवनवासिनो देवीति नाम्नाहयन्ति, भगवान्‌ वाल्मीकिर्वधूरिति।
रामः अपि च इतस्तावद्‌ वयस्य! मुहूर्तमात्रम्‌।
विदूषकः (उपसृत्य) आज्ञापयतु भवान्‌।
रामः

अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः? 

(नेपथ्ये)

इयती वेला सञ्जाता, रामायणगानस्य नियोगः किमर्थं न विधीयते?

उभौ राजन्‌! उपाध्यायदूतोऽस्मान्‌ त्वरयति।
राम मयापि सम्माननीय एव मुनिनियोगः।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) 1

(क) ‘आज्ञापयतु भवान्‌’ इति कः वदति?

(ख) तपोवनवासिनः युवयोः जननीं केन नाम्ना आहृयन्ति?

(ग) ‘तस्याः द्वे नामनी’ इति कः कथयति?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) रामः केन आविष्टः अनयोः मातरं नामतो वेदितुम्‌ इच्छति?

(ख) कः अस्मान्‌ त्वरयति?

(ग) ‘वधूः’ इति नाम्ना सीतां कः आहृयति?

(iii) निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌) 2

(क) ‘अहं पुनः पृच्छामि’ अत्र ‘पृच्छामि’ क्रियायाः कर्तृपदं किम्‌?

(ख) ‘ज्ञातुम्‌’ इति पदस्य समानार्थकं पदं किम्‌?

(ग) ‘अतिदीर्घः प्रवासः’ अनयोः विशेषणपदं किम्‌? 

आकलन
Advertisements

उत्तर

(i) 

(क) विदूषकः 

(ख) देवीति 

(ग) लवः 

(ii) 

(क) रामः कुतूहलेनाविष्टः अनयोः मातरं नामतो वेदितुम्‌ इच्छति।

(ख) उपाध्यायदूतः अस्मान्‌ त्वरयति।

(ग) भगवान् वाल्मीकिः ‘वधूः’ इति नाम्ना सीतां आह्वयति।

(iii) 

(क) अहम् 

(ख) वेदितुम् 

(ग) अतिदीर्घः 

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×