Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत -
| इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञ कर्तुमुपक्रान्तवान्। ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समह्रता। देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः। तस्मिन्नवसरे समुद्राह्वानार्थं कश्चिद्राह्मणः समुद्रतीरे प्रेषितः। सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् "भोः समुद्र! विक्रमार्को राजा यज्ञं करोति। तेन प्रेषितोऽहं त्वामाह्वातुं समागतः।" इति जलमध्ये पुष्पाञ्जलिं दत्वा क्षणं स्थितः। कोऽपि तस्य प्रत्युत्तरं न ददौ। तत उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत्। "भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव। एतदेव सुह्रदो लक्षणं यत्समये दानमानादि क्रियते।" |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- अतीव मनोहरः मण्डपः कैः कारितः?
- ब्राह्मणः कुत्र पुष्पाञ्जलिं दत्वा क्षणं स्थितः?
- राजा कीदृशं यज्ञं कर्तुमुपक्रान्तवान्?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- ब्राह्मणः यावदुज्जयिनीं प्रत्यागच्छति तावत् किमभवत्?
- राज्ञा यज्ञार्थं के समाहूताः?
- ब्राह्मणः गन्धपुष्पादिषोडशोपचारं विधाय किमब्रवीत्?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'अवदत्' इति क्रियापदस्य कर्तृपदं गद्यांशे किमस्ति?
- 'आगत्य' इत्यस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- 'सर्वस्वदक्षिणं यज्ञं कर्तुमुपक्रान्तवान्' वाक्येऽस्मिन् विशेषणपदं किं प्रयुक्तम्?
एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर
Advertisements
उत्तर
(अ)
- शिल्पिभिः
- जलमध्ये
- सर्वस्वदक्षिणम्
(आ)
- ब्राह्मणः उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत्।
- राज्ञा यज्ञार्थं देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः।
- ब्राह्मणः गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् "भोः समुद्र! विक्रमार्को राजा यज्ञं करोति। तेन प्रेषितोऽहं त्वामाह्वातुं समागतः।"
(इ)
- समुद्रः
- गत्वा
- सर्वस्वदक्षिणम्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
