Advertisements
Advertisements
प्रश्न
अधोलिखिते अनुच्छेदे ‘सूर्य’ शब्दस्य स्थाने ‘रवि’ शब्दं प्रयुज्य अनुच्छेदं पुनः लिखत -
- सूर्यः संसारं प्रकाशयति। सूर्यस्य अरुणः प्रकाशः दर्शनीयः। चन्द्रः सूर्यात् एव प्रकाशं लभते। सूर्यं एव आश्रितं जगत्। सूर्येण एव वयं जीवितुं शक्नुमः। जनाः सूर्याय सादरम् अर्घ्यं प्रयच्छन्ति।
रविः संसारं प्रकाशयति। ......... - एवमेव ‘सूर्य’ शब्दस्य स्थाने ‘भानु’ शब्दं प्रयुज्य अनुच्छेदं पुनः लिखत -
लघु उत्तर
Advertisements
उत्तर
- रविः संसारं प्रकाशयति। रवेः अरुणः प्रकाशः दर्शनीयः। चन्द्रः रवेः एव प्रकाशं लभते। रविम् एव आश्रितं जगत्। रविणा एव वयं जीवितुं शक्नुमः। जनाः रवये सादरम् अर्घ्यं प्रयच्छन्ति।
- भानुः संसारं प्रकाशयति। भानोः अरुणः प्रकाशः दर्शनीयः। चन्द्रः भानोः एव प्रकाशं लभते। भानुम् एव आश्रितं जगत्। भानुना एव वयं जीवितुं शक्नुमः। जनाः भानवे सादरम् अर्घ्यं प्रयच्छन्ति।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
