English Medium
Academic Year: 2025-2026
Date & Time: 28th February 2026, 10:30 am
Duration: 3h
Advertisements
सामान्यनिर्देशाः
- अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति।
- अस्मिन् प्रश्नपत्रे अष्टादश (18) प्रश्नाः सन्ति।
- भागः 'क' प्रश्नसंख्या 1.
- भागः 'ख' प्रश्नसंख्या 2 - 4
- भागः 'ग' प्रश्नसंख्या 5 - 11
- भागः 'घ' प्रश्नसंख्या 12 - 18
- विशिष्टनिर्देशानुसारं प्रश्नाः समाधेयाः।
- उत्तरपुस्तिकायां लेखनात् पूर्वम् सर्वप्रथमं प्रश्नसंख्या लेखनीया।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
| भारतदेशः कृषिप्रधानः देशः अस्ति अतः भारतीयसमाजे कृषकः प्रमुखतमः स्तम्भः इव स्थितः अस्ति। कृषकाः प्रातःकाले एव उत्थाय घर्मवृष्टिशीतवातादीन् सहमानाः अनवरतं परिश्रमं कुर्वन्ति। ते भूमेः गर्भे बीजानि आरोपयन्ति, तदनन्तरं वृषभैः यन्त्रैः च भूमेः सम्यक् कर्षणं कृत्वा सिञ्चनकार्ये संलग्नाः भवन्ति। वर्षकाले मेघानां प्रसादेन धान्यलक्ष्मीरिव भूमिः सुशोभिता भवति। शरद्-ऋतौ सुवर्णवर्णैः शस्यशालिभिः क्षेत्राणि रमणीयानि दृश्यन्ते। यद्यपि कृषकस्य श्रमेण राष्ट्रस्य अन्नपूरणं, वस्त्रपूरणं जीवनधारणं च साध्यते, तथापि कृषकः स्वयं दारिद्रयपीडितं जीवनं यापयति। कदापि अतिवृष्ट्या अनावृष्ट्या वा सम्पूर्णं शस्यं विनश्यति, विपणौ अपि सः न्यूनमूल्यं लभते ऋणभारः च कृषकान् दुःखेन पीडयति। तथापि कृषकाः धैर्यं न त्यजन्ति, अपितु पूर्णनिष्ठया स्वकर्म कुर्वन्तः समाजस्य पालनं कुर्वन्ति। एतदर्थम् ‘अन्नदाता’ इति विशेषणेन कृषकः सम्माननीयः। यदि कृषकाः न स्युः, तर्हि मानवसमाजस्य जीवितं असम्भवमेव भवेत्। अतः वयं कृषकाणां श्रमस्य, त्यागभावनायाः, धैर्यस्य च सम्मानं कुर्याम। राष्ट्रस्य मेरुदण्डः, समाजस्य जीवनप्राणः, संस्कृतेः रक्षकाः च कृषकाः एव। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 2
- भारतदेशः कीदृशः देशः अस्ति?
- केन विशेषणेन कृषकः सम्माननीयः?
- वर्षाकाले केषां प्रसादेन धान्यलक्ष्मीरिव भूमिः सुशोभिता भवति?
(आ) पूर्णवाक्येन उत्तरतः (केवलं प्रश्नद्वयम्) 4
- किं किं कृषकान् दुःखेन पीडयति?
- कृषकाः कदा सिज्चनकार्ये संलग्नाः भवन्ति?
- वयं कस्य सम्मानं कुर्याम?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरतः (केवलं प्रश्नत्रयम्) 3
- ‘कृषकः स्वयं दारिद्रयपीडितजीवनं यापयति’ अत्र किं क्रियापदम्?
- कृषकः
- स्वयम्
- यापयति
- दारिद्रयपीडितजीवनं
- ‘अनवरतम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
- कृषकः
- परिश्रमं
- रक्षकाः
- न्यनमूल्यम्
- ‘वर्षा’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
- वृष्टिः
- घर्मः
- मेघानाम्
- शस्यम्
- ‘ते भूमेः गर्भे बीजानि आरोपयन्ति’ अत्र किं कर्तृपदम्?
- भूमेः
- ते
- गर्भे
- बीजानि
Chapter:
भवान् पीयुषः स्वपितरं प्रति पत्रं लिखति। एतत् पत्रं मञ्जूषायाः उचितैः पदैः पूरयित्वा पुनः लिखतः
गङ्गा-छात्रावासः,
(i) ______
पूज्याः पितृमहोदयाः,
(ii) ______।
अत्र सर्वगतं (iii) ______। आशासे त्वम् अपि कुशली। मया गतसप्ताहे एव भवतः पत्रं प्राप्तम्। इदं ज्ञात्वा अहम् अतिप्रसन्नः अस्मि यद् सम्प्रति मातुः स्वास्थ्यम् उत्तमं जातम्। अहमपि भवन्तं मम उपलब्धीनां विषये सूचयितुम् इच्छामि। हयः अन्तर्विद्यालयीय-गायनप्रतियोगितायाम् अहं (iv) ______ स्थानं प्राप्तवान्। क्रीडादिवसे अपि धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवेऽपि अहं नाट्याभिनयं (v) ______। अयं वार्षिकोत्सवः शनिवासरे (vi) ______ विद्यालयस्य पक्षतः ह्यः एव (vii) ______ प्रेषितम्। अहमपि (viii) ______ प्रार्थयामि यत् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) ______ भविष्यति। अहं प्रतीक्षां करिष्यामि।
मातृचरणयोः मम प्रणामाः।
भवदीयः पुत्रः
(x) ______।
मञ्जूषा
| भवन्तम्, करिष्यामि, पीयूषः, उत्साहवर्धनम्, सादरचरणस्पर्शः, आयोजयिष्यते, प्रथमम्, कुशलम्, निमन्त्रणपत्रम्, नवदिल्लीतः। |
Chapter:
प्रदतं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।

मञ्जूषा
| रक्तदुर्गम्, गौरवम्, दिल्लीनगरम्, सैनिकाः, आरोहन्ति, विशालम्, पश्यन्ति, जनाः, वृक्षाः, ध्वजारोहणम्, प्रसन्नतया, शोभन्ते, हस्तेषु, राष्ट्रस्य, दृश्यते। |
Chapter:
निम्नलिखितं विषयम् अधिकृत्य मञ्जुषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
‘गणतन्त्रदिवसः’
मञ्जूषा
| वीरबालकाः, गौरवम्, दिल्लीनगरे, सैनिकाः, आरोहन्ति, पश्यन्ति, जनाः, ध्वजारोहणम्, प्रसन्नतया, राष्ट्रस्य, दृश्यते, राज्यस्य, नृत्यन्ति। |
Chapter:
अधोलिखितं कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत:
एकस्य कृषकस्य (i) ______ पुत्राः आसन्। ते चत्वारोऽपि भ्रातरः परस्परं (ii) ______ कुर्वन्ति स्म। तेषां चतुर्णां भ्रातृणां कलहं दृष्ट्वा सः (iii) ______ दुखी आसीत्। एकदा सः शुष्ककाष्ठानि एकत्रीकृत्य तानि (iv) ______ बद्ध्वा पुत्राणां समक्षम् अस्थापयत्। सः कृषकः तान् पुत्रान् अवदत्-एतानि काष्ठानि त्रोटयत। पुत्रेषु एकः अपि तानि (v) ______ समर्थः नाभवत्। तदा सः पृथक्कृत्य पुत्राणां समक्षं पुनः एकैकं काष्ठम् (vi) ______। सर्वे पुत्राः (vii) ______ सर्वाणि काष्ठानि अत्रोटयन्। सः (viii) ______ अकथयत् - यदि इत्थमेव यूयम् अपि परस्परं मिलित्वा (ix) ______ तर्हि कोऽपि युष्मान् हन्तुं समर्थः न भविष्यति। यतो हि (x) ______ शक्तिः कलौ युगे।
मञ्जूषा
| निवत्स्यथ, चत्वारः, कृषकः, त्रोटयितुम्, कलहं, संघे, अस्थापयत्, रज्ज्वा, पुत्रान्, सरलतया। |
Chapter:
रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत:
| माता | पुत्र! त्वं कुत्र गच्छसि? |
| पुत्रः | मातः! (i) ______। |
| माता | परम् अद्य क्रीडायै न गन्तव्यम्। |
| पुत्रः | किमर्थम्? अयं तु मम खेलनस्य समयः अस्ति। |
| माता | (ii) ______। |
| पुत्रः | जन्माष्टमी किं भवति? |
| माता | ‘जन्माष्टमी’ दिवसे एव श्रीकृष्णस्य जन्म अभवत् अतः सम्पूर्णे देशे भगवतः जन्मदिवसः उल्लासेन मान्यते। |
| पुत्रः | (iii) ______। |
| माता | अद्यैव मन्दिराणि पुष्पैः विदयुदीपकैः च सज्जितानि भवन्ति। |
| पुत्रः | (iv) ______। |
| माता | शीघ्रं सज्जः भवतु। चलामः। |
| पुत्रः | (v) ______। |
मञ्जूषा
|
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
यः सोढुं शक्नोतीह + एव।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
षडेते पाठका गुणाः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
सरस्तीरे विहरति मयि केनापि कर्कशैः शब्दैः वातावरणम् आकुलीक्रियते।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
तदेतद् राजभवनं परित्यज्य वनं गच्छामः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
अधुना रमणीया सृष्टिः + एषा।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
अनिच्छन् अपि वार्ष्णेय बलादिव नियोजितः।
अन् इच्छन्
न इच्छन्
अनि इच्छन्
अनि + च्छन्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
अस्माकम् ऐक्यं तु जगत्प्रसिद्धम्।
जगत् प्रसिद्धम्
जगतः प्रसिद्धम्
जगति प्रसिद्धम्
जगतप्रसिद्धम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
मयूरः साट्टहासं प्रविशति।
अट्टहासेन सह
अट्टहासे सह
अट्टहासं सह
अट्टहासयोः सह
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
शक्रः तत् नेत्रं यथास्थानम् स्थापितवान्।
उचितं स्थानम्
यथा स्थानम्
स्थानस्य पश्चात्
स्थानम् अनतिक्रम्य
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
यूयं कथम् अस्मिन् नतं च उन्नतं च तस्मिन् मार्गे गच्छथ?
नतोन्नतम्
नतोन्नतयोः
नतोन्नते
नतोन्नतौ
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखतः
केचन च पज्चत्वं गता।
पञ्च + तल्
पञ्च + त्व
पञ्च + ठक्
पञ्च + मतुप्
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखतः
अस्माभिः गुरूणाम् आदेशपालनं कृ + तव्यत्।
कर्तव्यानि
कर्तव्यम्
कर्तव्यानाम्
कर्तव्या
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखतः
तत्र राजहंसः हंसी च विहरतः।
हंस + टाप्
हंस + मतुप्
हंस + ङीप्
हंस + ठक्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखतः
एषा सृष्टिः रमणीय + टाप् अस्ति।
रमणीयः
रमणीयता
रमणीयाः
रमणीया
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखतः
प्राङ्गणे भवताम् हद् + ठक् अभिनन्दनम् अस्ति।
हार्दिकः
हार्दिकी
हार्दिकम्
हार्दिकाम्
Chapter:
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत:
| नमनः | हे दीप! किं त्वम् अद्य ‘रामायणम्’ इति नाटकं द्रष्टुं गच्छसि? |
| दीपः | न, न (i) ______ तत् नाटकं द्रष्टुं न गच्छामि? |
| नमनः | किं कारणम्! अद्य त्वं किं (ii) ______? |
| दीपः | अधुना (iii) ______ गृहकार्यं पूर्णं क्रियते। |
| नमनः | मया तु अधुना एकः (iv) ______ लिख्यते अनन्तरं च नाटकं द्रष्टुं गम्यते। |
| दीपः | अस्तु! तर्हि अहमपि शीघ्र गृहकार्यं समापयामि। अनन्तरं त्वया सह आगमिष्यामि। |
| नमनः | अस्तु पुनर्मिलामः। |
मञ्जूषा
| लेखः, मया, अहम्, करोषि। |
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
अहं ______ वादने (5:30) भ्रमणाय उपवनं गच्छामि।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
______ वादने (6:00) भ्रमणं कृत्वा गृहम् आगच्छामि।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
ततः स्नानं कृत्वा ______ वादने (8:45) कार्यालयं गच्छामि।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तत्पश्चात् अहं अपराह्ले ______ वादने (7:15) गृहम् आगच्छमि।
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
सः बाल्यात् ______ वृद्धोपसेवी विनयशीलः च आसीत्।
पुरा
सम्प्रति
इति
एव
तथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
अवक्रता यथा चित्ते ______ वाचि भवेत् यदि।
पुरा
सम्प्रति
इति
एव
तथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ अपि आणविक-अस्त्राणि आसन्।
पुरा
सम्प्रति
इति
एव
तथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
एतत् तु ‘फरवरी’ ______ मासे मान्यते।
पुरा
सम्प्रति
इति
एव
तथा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ वयम् एतानि स्थलानि द्रष्टुम् उत्सुकाः स्मः।
पुरा
सम्प्रति
इति
एव
तथा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
सः महिला कानने व्याघ्रं ददर्श।
तत्
सा
ते
ताः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
अहो! विचित्रं स्वप्नः मया दृष्टः।
विचित्रा
विचित्रम्
विचित्रः
विचित्राणि
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
अलम् अतिविकत्थनम्।
अतिविकत्थनेन
अतिविकत्थनान्
अतिविकत्थनाय
अतिविकत्थने
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
रागसमं दुखं न सन्ति।
आसन्
स्तः
आस्ताम्
अस्ति
Chapter:
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखतः
| एकदा भगवान् बोधिसत्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत्। स बाल्यात् एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्। जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म। कारुण्य-ओैदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशालाः अकारयत्। राज्ञः दानशीलताम् आकर्ण्य देशान्तरेभ्योऽपि जनाः तं देशम् आयान्ति स्म। अथ कदाचित् दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसङ्ख्यां विलोक्य अचिन्तयत्-मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्। |
(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 1
(क) कः शिवीनां राजा अभवत्?
(ख) राजा कथं प्रजाः पालयति स्म?
(ग) विरलसङ्ख्यां केषाम् अभवत्?
(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) राजा बाल्यात् एव कीदृशः आसीत्?
(ख) जनाः किमर्थं तं देशम् आयान्ति स्म?
(ग) दानशालासु विचरन् स राजा किम् अचिन्तयत्?
(iii) निर्देशानुसारम् उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) ‘असौ पुत्रवत् प्रजाः पालयति स्म’ अत्र किं क्रियापदं प्रयुक्तम्?
(ख) ‘भगवान्’ इति विशेषणपदस्य विशेष्यपदं किं प्रयुक्तम्?
(ग) ‘वस्त्रम्’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
Chapter:
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
|
वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः। स केनापि प्रकारेण परैर्न परिभूयते॥ य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च॥ |
(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 1
(क) मन्त्री कैः न परिभूयते?
(ख) मनुष्यः आत्मनः किम् इच्छति?
(ग) मनुष्यः कीदृशं कर्म न कुर्यात्?
(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) यः आत्मनः श्रेयः इच्छति, स किं न कुर्यात्?
(ख) मन्त्री कीदृशः भवेत्?
(ग) मन्त्री कुत्र अकातरः भवेत्?
(iii) निर्देशानुसारम् उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) ‘स केनापि प्रकारेण परैर्न परिभूयते’ अत्र वाक्ये कर्तृपदं किम्?
(ख) ‘दुःखानि’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्?
(ग) ‘धैर्यवान्’ इत्यस्य विशेष्यपदं चित्वा लिखत।
Chapter:
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| राजीवः | किम् एतत् कस्यचित् दुर्गस्य चित्रम्? |
| पर्यटनाधिकारी | आम्। एतत् दिवांग-उपत्यका-मण्डले स्थितं भीष्मकनगरदुर्गम्! अस्य अवशेषाः तु आर्यकला-संस्कृति-सम्पदः परिचायकाः। अधुना इदं चित्रं पश्यत। |
| शैलैशः | अहं जानामि इदं स्थानम्। इदं तु ‘तवाङ्ग गोम्पा’ इति प्रसिद्धः बौद्धमठः। |
| पर्यटनाधिकारी | सम्यक् अभिज्ञातम्! मनोहरे सुरम्ये ‘तवाङ्ग’ इति स्थले राजते अयं बौद्धमठः । पञ्चशतानां बौद्धभिकक्षूणां निवासयोग्या स्थली इयम्। लोहितजनपदे अपि अनेकबौद्धविहाराः सन्ति। |
| नीलिमा | मान्यवर! मया अस्य प्रदेशस्य ‘परशुरामकुण्डम्’ इति दर्शनीयस्थलविषये अपि पठितम्। किम् इदम्? |
(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 1
(क) भीष्मकनगरदुर्गम् कस्मिन् मण्डले स्थितम्?
(ख) कस्मिन् जनपदे अनेके बौद्धविहाराः सन्ति?
(ग) कस्य अवशेषाः आर्यकला-संस्कृति-सम्पदः परिचायकाः सन्ति?
(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) प्रसिद्धः बौद्धमठः कः वर्तते?
(ख) भीष्मकनगरदुर्गस्य अवशेषाः केषां परिचायकाः सन्ति?
(ग) अरुणाचलप्रदेशे ‘परशुरामकुण्डम्’ किम् अस्ति?
(iii) निर्देशानुसारम् उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) नाट्यांशे ‘सन्ति’ इति क्रियायाः कर्तृपदं किम्?
(ख) ‘अधुना इदं चित्रं पश्यत।’ अत्र ‘चित्रम्’ विशेष्यपदस्य विशेषणपदं किम्?
(ग) ‘राजते अयं बौद्धमठः।’ अस्मिन् वाक्ये क्रियापदं किम्?
Chapter:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
शक्रः नेत्रहीनयाचकस्य रूपं धारयति।
Chapter:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
मेषः अर्धज्वलितकष्टेन ताडितः।
Chapter:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
मनः चञ्चलं भवति।
Chapter:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
न जानति भवान् द्रौणेः चपलां प्रकृतिम्।
Chapter:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
राजा याचकेभ्यः दानं ददाति।
Chapter:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
आचार्यः पुत्रं सावधानम् अकरोत्।
Chapter:
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत:
|
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः। नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ |
अन्वयः
(i) ______ चक्षुः न अस्ति, सत्यसमं तपः न (ii) ______, रागसमं (iii) ______ न अस्ति, त्यागसमं सुखं (iv) ______ अस्ति।
मञ्जूषा
| अस्ति, न, दुःखम्, विद्यासमम्। |
Chapter:
श्लोकस्य भावार्थं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयन्तु:
|
चञ्चलं हि मनः कृष्ण! प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥ |
भावार्थ:
श्रीकृष्णस्य वार्तां श्रृत्वा पुनः अर्जुनः वदति - हे (i) ______! मनः अतीव (ii) ______, शरीरस्य मथनकर्ता अतीव बलवान् अपि च अस्ति। अतः तस्य (iii) ______ वायोः इव (iv) ______ मन्ये।
मञ्जूषा
| चञ्चलम्, नियन्त्रणम्, कठिनम्, कृष्ण। |
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अस्माकं ऐक्यं तु जगत्प्रसिद्धम्।
एकता
एकम्
शत्रुता
सरलता
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
बोधिसत्वम् अमात्याः अवदन्।
मातरः
मन्त्रिणः
राजा
प्रजाः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
पादं शिष्यः स्वमेधया।
पादपः
वृक्षः
चरणम्
चतुर्थांशम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
नास्ति विद्यासमं चक्षुः।
छत्रम्
नेत्रम्
पुस्तकम्
शिक्षणम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।
अर्जुन
कृष्ण
क्रोध
मनः
Chapter:
अधोलिखितां कथां मञ्जूषापदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत:
भूपतेः (i) ______ पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म। राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया (ii) ______ प्रविश्य भोजनं खादति स्म। सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा (iii) ______ वानरान् राजभवनं त्यक्तुम् अकथयत्। (iv) ______ मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः। अन्यस्मिन् अहनि स मेषः (v) ______ अर्धज्वलितकाष्ठेन ताडितः। ज्वलन् स मेषः (vi) ______ प्रविष्टः। परिणामतः दग्धाः (vii) ______ प्राणत्राणाय अधावन्। राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत्। भयत्रस्ताः कपयः गुरुजनोपदेशस्य अवधीरणातः (viii) ______ कृतवन्तः।
मञ्जुषा
| अश्वाः, वानरयूथपः, पश्चात्तापम्, अश्वशालाम्, रसनास्वादलुब्धाः, चन्द्रस्य, सूपकारेण, महानसम्। |
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit (Communicative) with solutions 2025 - 2026
Previous year Question paper for CBSE Class 10 -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Communicative), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Communicative) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
