हिंदी

गद्यांशं पठित्वा निर्दिष्टे: कृती कुरुत। करदेभ्यः कृतक्षेत्राणि प्रयच्छेत्। अकृतानि कर्तृभ्यो नादेयानि। अकृषताम् आच्छिद्य अन्येभ्यः प्रयच्छेत्। ग्रामभृतकवैदेहका वा कृषेयुः। - Sanskrit

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टे: कृती कुरुत।

करदेभ्यः कृतक्षेत्राणि प्रयच्छेत्। अकृतानि कर्तृभ्यो नादेयानि। अकृषताम् आच्छिद्य अन्येभ्यः प्रयच्छेत्। ग्रामभृतकवैदेहका वा कृषेयुः। धान्य-पशु-हिरण्यैः चैतान् अनुगृह्णीयात्। तान्यनु सुखेन दद्युः। अनुग्रहपरिहारौ चैतेभ्यः कोषोवृद्धिकरौ दद्यात्, कोषोपघातकौ वर्जयेत्। अल्पकोषो हि राजा पौरजानपदानैव ग्रस्ते। निवेशसमकालं यथागतकं वा परिहारं दद्यात्। निवृत्तपरिहारान् पितेवानुगृह्णीयात्।

सीताध्यक्ष: सर्वधान्य-पुष्प-फल-शाक-कन्दमूल-वाल्लिक्य-क्षौम-कार्पासबीजानि यथाकालं गृह्णीयात। बहुहलपरिकृष्टायां भूमौ (बीजानि) वापयेत्। यथाकालं च सस्यादि जातं जातं प्रवेशयेत्। न क्षेत्रे स्थापयेत् किञ्चित् पलालमपि पण्डित:।
दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा। उपहतान् पितेवानुगृह्णीयात्। बाल-वृद्ध-व्यसननाथांश्च राजा बिभृयात्।
(१) अवबोधनम्। (३ त: २)   2
(i) पूर्णवाक्येन उत्तरत।
राजा कीदृशौ अनुग्रहपरिहारौ वर्जयेत्?
(ii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।
निवृत्तपरिहारान् मित्रमिवानुगृह्णीयात्।
(iii) उचितं शब्दं चित्वा चतुष्कोणं पूरयत।
सस्यादिकं यथाकालं गृह्णाति स: − .......
(२) शब्दज्ञानम्। (३ त: २)   2
(i) गद्यांशतः विशेष्यं चित्वा लिखत।
(क) अल्पकोषः ........
(ख) बहुहलपरिकृष्टायां ........
(ii) सन्धिविग्रहं कुरुत।
तान्यनु ......... + .........।
(iii) गद्यांशतः पूर्वकालवाचक - धातुसाधित - अव्यये चित्वा लिखत।
  1. ..........।,
  2. ..........।
अथवा
(२) पृथक्करणम्‌।   2
जालरेखाचित्र पूरयत।
आकलन
Advertisements

उत्तर

(१)

(i) राजा कोषोपघातकौ अनुग्रहपरिहारौ वर्जयेत्।

(ii) निवृत्तपरिहारान् मित्रमिवानुगृह्णीयात्। − असत्यम्

(iii) सस्यादिकं यथाकालं गृह्णाति स: − सीताध्यक्ष:

(२) 
(i) 
(क) अल्पकोषः राजा
(ख) बहुहलपरिकृष्टायां भूमौ
(ii) 
तान्यनु = तानि + अनु।
(iii)
  1. आच्छिद्य (ल्यप्)
  2. कृत्वा (त्वा)

अथवा

(२) 

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Official Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×