Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
|
यथैव सकला नद्यः प्रविशन्ति महोदधिम्। तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।१।। षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः। तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।२।। यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन गुणेन कर्मणा।।३।। अयं न भक्तो न च पूजको वा घण्टां स्वयं नादयते तथापि। धनं जनेभ्यः किल याचतेऽयम् न याचको वा न च निर्धनो वा।।४।। |
(क) पूर्णवाक्येन उत्तरं लिखत। (१)
कनकपरीक्षा कथं भवति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। (१)
| ‘अ’ | ‘आ’ |
| १. सकलाः | स्वराः |
| २. षड्जमूलाः | धर्माः |
| नद्यः |
(ग) जालरेखाचित्रं पूरयत्। (१)

(घ) पद्यांशात् 2 प्रथमा-विभक्त्यन्तपदे लिखत। (१)
(च) पूर्वपदं/उत्तरपदं लिखत। (१)
(१) यथैव = यथा + ______।
(२) याचतेऽयम् = ______ + अयम्।
Advertisements
उत्तर
(क) कनकपरीक्षा निषर्षणच्छेदनतापताडनैः भवति।
(ख)
| ‘अ’ | ‘आ’ |
| १. सकलाः | नद्यः |
| २. षड्जमूलाः | स्वराः |
(ग)

(घ) 2 प्रथमा-विभक्त्यन्तपदे -
- नद्यः
- धर्माः
(च)
(१) यथैव = यथा + एव।
(२) याचतेऽयम् = याचते + अयम्।
