Advertisements
Advertisements
प्रश्न
नमः-स्वस्ति-स्वाहा-स्वधा इत्येतेषां योगे चतुर्थी
आकाशवाणीतः संस्कृतकार्यक्रमः प्रस्तूयते। छात्राः कमपि आश्रमं वर्णयन्ति। यन्त्रस्य ध्वनिदोषेण केचन शब्दाः श्रूयन्ते केचन च न। अतः अश्रुतान् शब्दान् अनुमानेन पूरयत-
इयम् आकाश .....। संस्कृतकार्य ... प्रस्तूयते। अद्य वयं गुरुजनैः .....
आश्रमं प्रविशा .....। कथं रम्यं पवित्रं वाता ..... म। यज्ञध्वनिः श्रू ..... ते। शृण्मः।
नमः शि .....। नमः शम्भ ..... च।
अग्न ..... स्वाहा। अग्निसोमा ..... स्वाहा। इन्द्र ..... स्वाहा।
अन्यत्र आचार्यः शिष्ये ..... सदाचारम् उपदिशति। कस्मैचित् मा क्रुध्या। सहपाठि ..... मा ईर्ष्या।
मित्र ..... मा द्रुह्य। दरिद्रे ..... धनं यच्छ। देवे ..... सत्कार्याणि रोचन्ते।
तत्र पश्यत। महर्षिः आगच्छति। तं नमामः। छात्राः! तं नमत।
छात्राः - नमः ऋषिवर .....।
महर्षिः - स्वस्ति युष्मभ्यम्। किमद्य आश्रमं द्रष्टुम् आगताः।
छात्राः - आम्। धन्याः वयं भवददर्शनेन।
(विद्युदभावे यन्त्रं मौनं भवति)
Advertisements
उत्तर
इयम् आकाशवाणी। संस्कृतकार्यक्रमः प्रस्तूयते। अद्य वयं गुरुजनैः सह
आश्रमं प्रविशामः। कथं रम्यं पवित्रं वातावरणम्। यज्ञध्वनिः श्रूयते। शृण्मः।
नमः शिवाय। नमः शम्भवे च।
अग्नये स्वाहा। अग्निसोमाभ्याम् स्वाहा। इन्द्राय स्वाहा।
अन्यत्र आचार्यः शिष्येभ्यः सदाचारम् उपदिशति। कस्मैचित् मा क्रुध्या। सहपाठिभ्यः मा ईर्ष्या।
मित्रेभ्यः मा द्रुह्य। दरिद्रेभ्यः धनं यच्छ। देवेभ्यः सत्कार्याणि रोचन्ते।
तत्र पश्यत। महर्षिः आगच्छति। तं नमामः। छात्राः! तं नमत।
छात्राः - नमः ऋषिवराय।
महर्षिः - स्वस्ति युष्मभ्यम्। किमद्य आश्रमं द्रष्टुम् आगताः।
छात्राः - आम्। धन्याः वयं भवददर्शनेन।
(विद्युदभावे यन्त्रं मौनं भवति)
