Advertisements
Advertisements
प्रश्न
| कस्मिंश्चित् अरण्ये अनेके पशवः वसन्ति स्म। एकदा पशूनां राजा सिंहः रोगपीडितः अभवत्। एकं शृगालं विहाय सर्वे पशवः रोगपीडितं नृपं द्रष्टुमागताः। एकः उष्ट्रः नृपाय एतत् न्यवेदयत् यत् अहंकारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः। एतच्छ्रुत्वा सिंहः क्रोधितोऽभवत्। स्वमित्रैः एतज्ज्ञात्वा शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः। क्रोधितेन सिंहेन विलम्बेन आगमनकारणम् पृष्टः। शृगालोऽवदत् यदहं तु सर्वप्रथममागन्तुम् ऐच्छम् परं चिकित्सकात् औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्। तच्छ्रुत्वा प्रसन्नः सिंहः औषधविषये पृष्टवान्। शृगालः अवदत् यत्नेन औषधं तु न दत्तं परं कृपापरो भूत्वा चिकित्साक्रमम् उक्तम् यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति। तदा सिंहः उष्ट्रमाहूतवान्। भक्त्या आगतं च तं मारयित्वा तस्य रक्तं पीतवान्। एवं स्वपिशुनतायाः दुष्फलम् उष्ट्रेण स्वयमेव प्राप्तम्। |
उपरिलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत -
- एकपदेन उत्तरं लिखत - 2
- चिकित्सकेन किम् उक्तमासीत्?
- श्रुगालः शीघ्रमेव कस्य समीपे प्राप्तः?
- उष्ट्रेण कस्याः दुष्फलम् प्राप्तम्?
- अनेके पशवः कुत्र वसन्ति स्म?
- पूर्णवाक्येन उत्तरं लिखत - 4
- क्रोधितेन सिंहेन कि पृष्टम्?
- चिकित्सकेन कीदृशं चिकित्साक्रमम् उक्तम्?
- कं विहाय सर्वे सिंहं द्रष्टुमागच्छन्?
- सिंहः उष्टरमाहूय किं कृतवान्?
- यथानिर्देशम् उत्तरत -
- ‘प्रसन्नः सिंहः’ इति अत्र विशेष्यपदं किम्? 1
- ‘त्यक्त्वा’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्? 1
- अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। 2
आकलन
Advertisements
उत्तर
-
- चिकित्साक्रमम्
- सिंहस्य
- स्वपिशुनतायाः
- अरण्ये
-
- क्रोधितेन सिंहेन शृगालस्य विलम्बेन आगमनकारणं पृष्टम्।
- चिकित्सकेन उक्तम् यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति।
- उष्ट्रं विहाय सर्वे सिंहं द्रष्टुमागच्छन्।
- सिंहः उष्ट्रमाहूय तं मारयित्वा तस्य रक्तं पीतवान्।
-
- सिंहः
- विहाय
- स्वपिशुनतायाः दुष्फलम्
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
