Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तानां पदानां उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत् -
आगच्छन्तु, पायसं कुर्म:
आगच्छन्तु, पायसं कुर्म:। ______ (क्षीर) सह तण्डुला: पक्वा:। ______
(शर्करा) विना कथं शक्यते। शीघ्रमेव ______ (आपण) प्रति गत्वा शर्कराम् आनयतु। ______ (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करे महानसे स्थापिता।______ (शर्करा) परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। ______ (मधुर) विना पायसं रुचिकरं न भवति। अधुना ______ (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् ______ (अन्ये मधुरपदार्थां) इति एकः वदति, ______ (तत्) विना जीवनम् अपूर्णम् इति अपरः। ______ (पायस) सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।
Advertisements
उत्तर
आगच्छन्तु, पायसं कुर्म:। क्षीरेण सह तण्डुला: पक्वा:। शर्करां विना कथं शक्यते। शीघ्रमेव आपणं प्रति गत्वा शर्कराम् आनयतु। आपणं निकषा वाहनानि तिष्ठन्ति। शर्करे महानसे स्थापिता। शर्करां परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। मधुरं विना पायसं रुचिकरं न भवति। अधुना पायसं परितः बालक-बालिकावृन्दं तिष्ठति। धिक् अन्यान् मधुरपदार्थान् इति एकः वदति, तेन विना जीवनम् अपूर्णम् इति अपरः। पायसेन सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।
