हिंदी

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद्‌ दृष्ट्वा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्‌, “हे राजन्‌ धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तुं यतस्व।”

तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्‌। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत्‌ अवदत्‌ च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्‌। तदा मया चोरलुण्ठकभयात्‌ धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहित दक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान्‌ कुद्दालकान् लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।”

(1) अवबोधनम्‌। (3 तः 2) 2

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखतः 1

भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यत: ______।

  1. वेनभूपः दु:शासक: आसीत्‌।
  2. भूमिः स्वभावेन कृपणा आसीत्‌।

(ख) कः कं वदित? 1

अतः धनु: त्यज। 

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1

राजा चिन्ताकुलः जात:।

(2) शब्दज्ञानम्‌। (3 तः 2) 2

(क) गद्यांशात्‌ 2 पूर्वकालवाचक-धातुसाधित-त्वान्त-अव्यये चित्वा लिखत। 1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत। 1

‘अ’ ‘आ’
(1) कृशाः भूमिः
(2) प्रजाहितदक्षः प्रजाः
  नृपः

(ग) लकारं लिखत। 1

ता: प्रजाः पशुवत्‌ जीवन्ति

आकलन
Advertisements

उत्तर

(1)

(क) 

भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यत: वेनभूपः दु:शासक: आसीत्‌

(ख) 

‘अतः धनु: त्यज।’ इति स्त्रीरूपधारिणी भूमिः पृथुवैन्यं/राजानं वदति।

(ग) 

भूपः नृपः/पार्थिवः/क्ष्माभृत्‌/महीक्षित्‌/राट्‌ चिन्ताकुलः जातः।

(2) 

(क) पूर्वकालवाचक-धातुसाधित-त्वान्त-अव्यये -

  1. दृष्ट्वा
  2. धृत्वा/गृहीत्वा

(ख) 

‘अ’ ‘आ’
(1) कृशाः प्रजाः
(2) प्रजाहितदक्षः नृपः

(ग) 

लट्लकारः।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (July) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×