हिंदी

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। प्रदोषकाले मृगमन्विष्यन्‌ काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, "सखे! किमेतत्‌? मृगेणोक्तम्‌, "सुहद्वाक्यस्य अनादरात्‌ बद्धोऽहम्‌। उक्तं च - - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

प्रदोषकाले मृगमन्विष्यन्‌ काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, "सखे! किमेतत्‌? मृगेणोक्तम्‌, "सुहद्वाक्यस्य अनादरात्‌ बद्धोऽहम्‌। उक्तं च -

सुहृदां हितकामानां यः शृणोति न भाषितम्‌।

विपत्‌ सन्निहिता तस्य स नरः शत्रुनन्दनः।।'

काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्‌, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्‌, “उपायस्तावत्‌ चिन्तनीय:।”

अथ प्रभाते क्षेत्रपतिर्लगुडहस्तः आगच्छन्‌ काकेनावलोकितः। तमालोक्य काकेनोक्तम्‌, “सखे मृग, त्वमात्मानं मृतवत्संदर्शय। वातेनोदरं पूरयित्वा पादान्स्तब्धीकृत्य तिष्ठ। यदाहं शब्दं करोमि तदा त्वमुत्थाय सत्वरं पलायिष्यसे।'' मृगस्तथैव स्थितः।

क्षेत्रपतिना मृगः आलोकितः उक्तश्च, “आः! स्वयं मृतोऽसि!” सः मृगं बन्धनात्‌ व्युमुञ्चत्। ततः काकशब्दं श्रुत्वा मृगः सत्वरं पलायितः। तमुद्दिश्य क्षेत्रपतिना क्षिप्तेन लगुडेन शृगालस्तावद्‌ हतः।

(1) अवबोधनम्‌। (4 तः 3)              (3)               

(क) उचितं कारणं चित्वा वाक्यं पुनर्तिखत।

मृगः बद्धः यतः ______।

  1. मृगेण सुहदवाक्यस्य अनादरः कृतः।
  2. मृगेण पाशः न दुष्टः।

(ख) कः कं वदति?

“स वञ्चकः क्वास्ते?”

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।

मृगमन्विष्यन्‌ काकः तत्रोपस्थितः।

(घ) पूर्णवाक्येन उत्तरं लिखत।

काकेन कदा क्षेत्रपतिः अवलोकितः?

(2) शब्दज्ञानम्‌। (३ तः 2)              [2]

(क) गद्यांशात्‌ 2 पूर्वकालवाचक त्वान्त अव्यये चित्वा लिखत।

(ख) सन्धिविग्रहं कुरुत।

उपायस्तावत्‌ = ______ + ______ ।

ग) प्रश्ननिर्माणं कुरुत।

काकः क्षेत्रे उपस्थितः

(3) पृधक्करणम्‌।               [2]

क्रमेण योजयत।

  1. क्षेत्रपतिः मृगं व्यमुञ्चत्‌।
  2. क्षेत्रपतिना क्षिप्तेन लगुडेन शृगाल: हतः।
  3. क्षेत्रपतिना मृगः आलोकितः।
  4. मृगः सत्वरं पलायितः।
आकलन
Advertisements

उत्तर

(1)

(क) मृगः बद्धः यतः मृगेण सुहृद्वाक्यस्य अनादरः कृतः

(ख) काकः मृगं वदति।

(ग) मृगमन्विष्यन्‌ काकः तत्रोपस्थितः।

(घ) काकेन प्रभाते क्षेत्रपतिः अवलोकितः।

(2)

(क)  (1) श्रुत्वा 
        (2) दृष्ट्वा

(ख) उपायस्तावत्‌ = उपायः + तावत्‌

(ग) कः क्षेत्रे उपस्थितः?

(3)

  1. क्षेत्रपतिना मृगः आलोकितः।
  2. क्षेत्रपतिः मृगं व्यमुञ्चत्‌।
  3. मृगः सत्वरं पलायितः।
  4. क्षेत्रपतिना क्षिप्तेन लगुडेन शृगालः हतः।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×