हिंदी

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। ४ भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।  (४)

भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्‌। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्‌। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद्‌ मातैव पुत्रस्य पालनम्‌ अकरोत्‌ पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌। तत्र वेद-वेदाङ्गानि, विविधशास्त्राणि च असाधारणवेगेन बालकोऽयम्‌ अधीतवान्‌। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्‌। गृहं प्राप्य मातृसेवाम्‌ आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणाच विरक्तः शङ्करः संन्यासार्थम्‌ अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टवा आर्याम्बा चिन्तामग्ना जाता।

(१) अवबोधनम्‌। (३ तः २)   (२)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।    (१)

शङ्करस्यः मातैव पुत्रस्य पालनम्‌ अकरोत्‌ यतः ______।

१. शङ्कराय केवलं माता अरोचत।

२. बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः।

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।    (१)

पश्चमे वयसि उपनीतः शङ्करः पठनार्थं गुरुमुपागच्छत्‌।

(ग) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः?    (१)

(२) शब्दज्ञानम्‌। (३ तः २)    (२)

(क) गद्यांशात्‌ 2 पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।   (१)

(ख) गद्यांशात्‌ विशेषण-विशेष्ययो मेलनं कुरुत।   (१)

‘अ’ ‘आ’
१. शिवगुरूः  चिन्तामग्ना
२. आर्याम्बा  दिवङ्गतः
  विरक्तः

(ग) पूर्वपदं /उत्तरपदं लिखत।   (१)

१. चास्ताम्‌ = ______ + आस्ताम्‌।

२. बालकोऽयम्‌ = बालकः + ______।

आकलन
Advertisements

उत्तर

(१) 

(क) शङ्करस्यः मातैव पुत्रस्य पालनम्‌ अकरोत्‌ यतः बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः

(ख) सत्यम्‌

(ग) एषः गद्यांशः आदिशङ्कराचार्यः पाठात्‌ उद्धृतः।

(२) 

(क) ल्यबन्त-अव्यये -

  1. समाप्य
  2. प्राप्य

(ख) 

‘अ’ ‘आ’
१. शिवगुरूः  दिवङ्गतः 
२. आर्याम्बा  चिन्तामग्ना

(ग) 

१. चास्ताम्‌ = + आस्ताम्‌।

२. बालकोऽयम्‌ = बालकः + अयम्‌

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2019-2020 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×